________________ वसहि 1016 - अभिधानराजेन्द्रः - भाग 6 वसहि सत्तमभने मासो, आउभयादीय सविसेसा॥६॥ एकैकस्मिन् भङ्गे दृष्ट सति शङ्काभोजिकादयो दोषा भवन्ति। तत्र शङ्का नाम-किचित् श्रमणार्थमत्र प्रविशन्ती उतप्रतिसेवनार्थमिति तत्र चतुर्गुरु, स्वप्रतिसेवीति निःशङ्किते मूलम् शेषभोजिकानिवेदनादि प्रायश्चित्तं प्राग्वग्द्रष्टव्यम्। तथा उभयोरपि राजपुरुषैः तत्र प्रवेशे दृष्ट सतिग्रहणाकर्षणादयो दोषाः, सप्तमे भङ्गेमासलघु,तत्र चात्मोभयादिसमुत्थाः सविशेषा दोषाः / तथाहि-तत्रोभयोरप्यदृष्टादन्योन्यदर्शने द्वयोरेकतरस्य वा चित्तभेदः संभवेत्, केनाप्यावां प्रविशन्तौ न दृष्टाविति कृत्वा तत्रैकान्ते घटनं भवेत, आदिशब्दाच्चतुर्थव्रतं विराधितमावाभ्यामिति मत्वा वैहायसमरणावधावनादीनि कुर्वाताम्। अथ प्रवेशविषयेषु भङ्गकेषु पञ्चभिरादेशैः प्राय श्चित्तमभिधित्सुः प्रथमादेशतस्तावदाहचरिमे पढमे बिइए,तइए भने य हो इमा सोही। मासो लहुओ गुरुओ,चउलहुगुरुगाय भिक्खुस्स॥६३|| चरमो नाम यत्र द्वे अपि न दृष्ट, प्रथमो यत्र संयत एव दृष्टः, द्वितीयो यत्र द्वे अपि दृष्ट 4, एतेषु भङ्गेषु यथाक्रमं भिक्षोरियंशोधिर्मन्तव्या। तद्यथामासो लघुकः,मासो गुरुकः, चतुर्लघुकाः, चतुर्गुरुकाः। वसभे य उवज्झाए, आयरिऍ एगठाणपरिवुड्डी। मासगुरुं आरम्भा,नायव्वाजाव छेदो उ॥६॥ वृषभस्योपाध्यायस्य आचार्यस्य चतुर्गुरुकादारब्धं छेदान्तं द्रष्टव्यम्, एष प्रथमक आदेशः। अथ द्वितीय उच्यते-- अहवा चरिमे लहुओ, चउगुरुगं सेसएसु भङ्गेसु। भिक्खुस्स दोहि विलहू,कालतवे दोहि वी गुरुगा / / 6 / / अथवा-चरमे भङ्गे लघुको मासः, शेषेषु त्रिष्वपि भङ्गेषु प्रत्येक चतुर्गुरुकम्, एतानि प्रायश्चित्तानि भिक्षोयमपि तपसा कालेन च लघुकानि, वृषभस्य कालगुरुकाणि उपाध्यायस्य तपोगुरूणि, आचार्यस्योभयगुरूणि, एष द्वितीयआदेशः। अथ तृतीय उच्यतेमासो विसेसिओवा, तइया देसम्मि होइ भिक्खुस्स। गुरुगो लहुगा गुरुगा, विसेसियो सेसगाणं तु // 66|| 'वा' इति-अथवा, तृतीयादेशे चतुर्ध्वपि भङ्गेषु लघुमासस्तपः-- कालविशेषितो भिक्षोभवति। तद्यथा-चतुर्भङ्गेषुद्वाभ्यामपितपः कालाभ्यां लघुकं गुरुमासिकम्, प्रथमे तदेव तपसा लघुकं कालेन गुरुकम्, द्वितीये कालेन लघुकम्तपसागुरुकम्, तृतीये द्वाभ्यामपितपःकालभ्यां गुरुकम्,शेषाणां वृषभोपाध्यायाऽऽचार्याणां यथाक्रमं गुरुको मासः / चत्वारो गुरुकाश्चतुर्ध्वपि भङ्गेष्वेवमेव तपःकालविशेषिताः प्रायश्चित्तम्, एष तृतीय आदेशः। अथ चतुर्थमाहअहवा चउगुरुगा चिय, विसेसिया हुँति भिक्खुमाईणं / मासाइजाव गुरुगा, अविसेसा हुंति सव्वेसिं॥६७॥ अथवा-चतुर्गुरुका एव भिक्षुप्रभृतीनां चतुण्णामपि तपः-कालविशेषिता भवन्ति / तद्यथा-भिक्षोभ्यामपि तपः कालाभ्यां लघवः, वृषभस्य तपोलघवः कालगुरवः, उपाध्यायस्य तपोगुरुकाः काललघुकाः, आचार्यस्य द्वाभ्यामपितपः कालाभ्यांगुरवः / एष चतुर्थ आदेशः / अथ पञ्चमममाह- 'मासाइ जाव' इत्यादि, यद्वा मासादारभ्य चतुर्गुरु यावदविशेषितानितपः कालविशेषरहितानि भिक्षुवृषभादीनां प्रायश्चितानि। तद्यथा-भिक्षोसिलघु, वृषभस्यमासगुरु, उपाध्यायस्य चतुर्लघुकम्, आचार्यस्य चतुर्गुरुकम्। एतानि च प्रायश्चित्तानि सर्वेषां भङ्गचतुष्टयेऽपि तपकालाभ्यामविशेषितानीति पञ्चम आदेशः। एवं तावत्प्रवेशप्रत्यये पञ्चपदेषु प्रायश्चित्तमुक्तम्। अथ तत्र प्रविष्टानां ये दोषाः संभवन्ति तत्प्रत्ययं प्रायश्चित्तमाहदिह्रोभासपडिस्सुय-संथारतुयदृचलणउक्खेवे। फासणपडिसेवणया, चउलहुगाई उजाचरिमं // 6 // एवं प्रविष्टयोः संयतसंयत्योः परस्परं दृष्ट-दर्शने सति चतुर्लघवः, ततः संयतः संयती वा यद्यवभाषते ततश्चत्वारो गुरवः, अवभाषिते सति यदि प्रतिशृणोति तदा षट् लघवः,संस्तारके कृते षट् गुरवः, त्वग्वर्त्तने कृते छेदः, चलनंपादस्तस्योत्क्षेपे मूलम्, स्पर्शने अनवस्थाप्यम, प्रतिसेवने पाराञ्चिकम्, एवं प्रविष्टानां प्रायश्चित्तमुक्तम्। ___ अथ नैगमविषयमाहपविसंते जा सोही, चउसु विभागेसु वनिया एसा। निक्खममाणे सचिय, सविसेसा होइ भनेसु॥६६॥ संयतीसंयतयोः प्रविशतोर्या शोधिश्चतुर्वपि भङ्गेषु पञ्चभिरादेशैरेषा अनन्तरमेव वर्णिणता सैव शून्यगृहादेर्निष्कामतोरपि सविशेषा चतुर्ध्वपि भङ्गेषु भवति / एवं तावद् ग्रामादेर्बहिर्वजन्तीनाम् अन्तर्विचारभूमी गच्छन्तीनां भिक्षाचर्यायां च दोषाः प्रतिपादिताः। अधुना ग्रामादेर्बहिर्विचारभुवं गच्छन्तीनां दोषानुपदर्शयितुमाहअंतो वियार असई, अवियत्त सगार दुजणवते वा। बाहिं तु वयंतीणं, अपत्तपत्ताणिमे दोसा / / 7 / / अन्तर्दामादेरभ्यन्तरे विचारभूमेरभावे, अप्रीतिकं वा सागारिकःशय्यातरस्तत्र व्युत्सर्जने कुर्यात्, दुर्जनवृतं वा-दुःशीलजनपरिवृतं तत्पुरोहडम्, ततो ग्रामादेर्बहिर्वजन्तीनामन्यं स्थण्डिलमप्राप्तानां वा इमते दोषाः। वीयाराभिमुहीओ, साहुंदठूण संनियत्ताओ। लहुओ लहुया गुरुगा, छम्मासा छेयमूलदुर्ग // 71 / / विचारभूमेरभिमुखं गच्छन्त्यः साधुंतत्र यान्तं दृष्ट्वा यदि संनिवर्तते तदा लघुको मासः, संनिवृत्ताः सत्यः संज्ञांधारयन्त्यो यद्यनागाढं परिताप्यन्ते तदा चतुर्लधवः, आगाढपरितापनायां चतुर्गुरवः। महादुःखेषड्लघवः,मू