________________ वसहि 1011 - अभिधानराजेन्द्रः - भाग 6 वसहि नगरे वा खेटे वा इत्यादिपदपरिग्रहः / एकवगडाके-एकद्वारके एकनिष्क्रमणप्रवेशके च क्षेत्रे नो कल्पते निर्ग्रन्थानां निग्रन्थीनां च एकतो मिलितानां वस्तुम्-अवस्थातुमिति सूत्रसंक्षेपार्थः। विस्तरार्थ तुभाष्यकृदाहवगडाउ परिक्खेवो, पुवुत्तो सो उदय्वमाईसुं। दारं गामस्स मुहं, सो चेव य निग्गमपवेसो // 3 // वगडा नाम-ग्रामादेः सम्बधी परिक्षेपः, स पुनः परिक्षेपोद्रव्यादिको द्रव्यक्षेत्रकालभावभेदभिन्नः / यथा-पूर्व 'पासणिट्ठनमट्ठिगखेडगकडगकंटिगा पवेदव्वं' इत्यादिना मासकल्प प्रकृते उक्तस्तथैवात्रापि द्रष्टव्यः।द्वारं नाम-ग्रामस्य मुखं ग्रामप्रवेश इत्यर्थः, स एव च निर्मिणोपलक्षितः प्रवेशो निर्गमप्रवेशोऽभिधीयते। इत्थं सूत्रे व्याख्याते सति शिष्यः प्राहदारस्स वा वि गहणं,कायव्वं अहव निग्गमपहस्स। जइ एगट्ठा दुन्नि वि, एगयरं बूहि मा दो वि॥४॥ यदि तदेव द्वारं स एव च निर्गमप्रवेशतस्ततो हे आचार्य ! द्वारस्य वा ग्रहणं कर्तव्यम्, अथ निमप्रवेशपथपदस्य यदि नाम द्वे अपि पदे स्त एकार्थे; ततएकनगरमेकद्वारपदम् एकनिष्क्रमणप्रवेशपदंवा सूत्रे ब्रूहिभणेत्यर्थःमा द्वे अपि। एवं शिष्येणोक्ते सूरिराहएगवगडेगदारा, एगमणेगा अणेगएगा य। चरिमो अणेगवगडा, अणेगदारा य भंगो उ / / 5 / / इह वगडाद्वारयोश्चत्वारो भङ्गाः। तद्यथा-एका वगडा एकं द्वारम्, यथा-- पर्वतादिपरिक्षिप्ते क्वचिद्ग्रामादौ 11 एका वगडा अनेकानिद्वाराणि, यथाप्राकरादिपरिक्षिप्ते चतुरिनगरादौ २।अनेका वगडा एकं द्वारम्, यथापद्मसरः प्रभृतिपरिक्षिप्ते बहुवा(पा)टके ग्रामादौ 3 / अनेका वगडा अनेकानि द्वाराणि, यथा-युष्मी प्रकीर्णगृहे ग्रामादौ चतुर्थो भङ्गः 4 / यदि नामैवं चत्वारो भङ्गास्ततः प्रस्तुते किमायातमित्याहतइयं पडुच भङ्ग, पउमसराईहिं संपरिक्खित्ते / अन्नोन्नदुवाराण वि, हवेज एगं तु निक्खमणं // 6|| अत्र भङ्गचतुष्टये तृतीयं भङ्ग प्रतीत्य एकद्वारग्रहणमेक निष्क्रमणप्रवेशग्रहणं च सूत्रे कृतम्, कुत इत्याह-पद्मसरसा, आदिशब्दात्-गर्तपर्वतेन वा संपरिक्षिप्ते ग्रामादौ अन्यान्यद्वारकाणामपि वा (पा)टकानामेकमेव निष्क्रमणं भवेत्। तिसृषु दिक्षु पद्मसरः प्रभृतिव्याघातसंभवादेकस्यामेव दिशि निष्क्रमणप्रवेशौ भवतः। ततः किमित्याहतत्थ विय होंति दोसा, वीयारगयाण अह व पंथम्मि। संकादीए दोसे, एगवियाराण वोच्छिहिति // 7 // तत्रापि च-तृतीये भङ्गे पृथक्पाटकेषु स्थितानामपि किं पुनः प्रथमभङ्गे द्वितीयभङ्गे वा स्थितानामित्यादि-अपिशब्दार्थः / विचारगतानांसंज्ञाभूमौ संप्राप्तानाम्, अथवा-तस्यां च पथिमार्गे गच्छतां दोषाः शङ्कादयो भवन्ति, तांश्च शङ्कादीन् दोषान् एक-विचाराणामेकसंज्ञाभूमिकानां निर्ग्रन्थानां च सूरिः स्वयमेव नियुक्तिगाथाभिर्यधावसर-- मुत्तरत्र वक्ष्यति-भणिष्यति। तत्र प्रथमभङ्गे तावदोषानुपदिदर्शयिषुराहएगवगडं पडुया,दोण्ह वि वग्गाण गरहितो वासो। जइ वसइ जाणओ तु,तत्थ उ दोसा इमे हाँति // // एकवगडमुपलक्षणत्वादेकद्वारं च क्षेत्रं प्रतीत्य द्वयोरपि वर्गयोः - साधुसाध्वीलक्षणयोरेकत्र वासो गर्हितोनिन्दितो; न कल्पते इत्यर्थः / यदिज्ञापकः-संयत्योऽत्र संगता इति जानानस्तत्रागत्य वसतितत इमे-- वक्ष्यमाणादोषा भवन्ति। इदमेव सविशेषमाहएगवगडेगदारे, एगयरहियम्मि जो तहिं ठाइ। गुरुगा जइ वि य दोसा, न होज पुट्ठो तह वि सो उl एकवगडे एकद्वारेच क्षेत्रे यत्र पूर्वमेकतरःसंयतवर्गः संयतीवर्गो वा स्थिती वर्त्तते तत्र य आचार्यादिः प्रवर्त्तिन्यादि पश्चादागत्य तिष्ठतितस्य चत्वारो गुरुकाः / यद्यपि च तत्र दोषा वक्ष्यमाणा न भवेयुस्तथाऽप्यसौ भावतस्तैः स्पृष्टो मन्तव्यः। तत्र पूर्वस्थितसंयतीवर्ग क्षेत्रमङ्गीकृत्य तावदाहसोऊण य समुदाणं, गच्छं आणेतु देउले ठाति। ठाइयंतगाण गुरुगा, तत्थ विआणाइणो दोसा।।१०।। श्रुत्वा च समुदानं भैक्षं सुलभप्रायोग्यं द्रव्यं ततो गच्छमानीय देवकुले उपलक्षणत्वादपरस्मिन् वा सभाशून्यगृहादौ तिष्ठति, तत्र च तिष्ठतामाचार्यादीनां चत्वारो गुरुकाः, तत्राप्याज्ञादयो दोषा द्रष्टव्याः! एनामेव नियुक्तिगाथां व्याख्यानयतिफागपइपेसविया, दुविहोवहिकअनिग्गया वाऽवि। उवसंपनिउकामा, अतिकमाणा च ते साहू।११।। संजइभावियखेत्ते, समुदाणेऊण बहुगुणं नच्चा। संपुग्नमासकप्पं, खिंति गणिं पुट्टपुट्ठावा॥१२॥ केचन स्वसाधवः केनापि स्पर्द्धकपतिना क्षेत्रप्रत्युपेक्षणार्थं प्रेषिताः, यद्वा-द्विविधः-औधिकौपग्रहिकभेदभिन्नो य उपधिस्तस्योत्पादनार्थं कार्येषुवा कुलगणसङ्घसंबन्धिषु निर्गताः, उपसंपत्तु-कामा वा--उपसंपदं जिघृक्षवः, अध्वानं वा अतिक्रामन्तस्तत्र ते साधवः प्राप्ता एते स्पर्द्धकपतिप्रेक्षितादयः संयतीभावित क्षेत्रे समुदायं नीत्वा भैक्षं पर्यट्य प्रचुरप्रायोग्यलाभेन बहुगुणं तत्क्षेत्रं ज्ञात्वा गुरूणां समीपमायाताः संपूर्णमासकल्पं गणिनमाचार्य पृष्टा वा ब्रुवते। कुत इत्याहतुज्झ वि पुण्णो कप्पो,नय खेत्तं पेहियं म्हि जंजोग / जं पि य रुइयं तुज्झं, न तं बहुगुणं जह इमं तु // 13|| क्षमाश्रमणाः ! युष्माकमपि मासकल्पाः पूर्णा वर्तन्ते न च तत् क्षेत्र प्रत्युपेक्षितं यद्भवतां योग्यमनुकूलम्। यदपि च क्षेत्रंयुष्माकं रुचितमभिप्रेतं नतद्रहुगुणं यथेदमस्मत्प्रत्युपेक्षितं क्षेत्रम्।