SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ पुढवीकाइय 674 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाइय बादरपृथिवीकायिकाः। अथवा श्लक्ष्णा च सा बादरपृथिवी च रा कायः शरीरं येषां ते श्लक्षणबादरपृथिवीकायास्त एव स्वार्थिके कप्रत्ययविधानात् लक्ष्णबादरपृथिवीकायिकाः, चशब्दो वक्ष्यमाणस्तगतानेक- | भेदसूचकः,खरा नाम पृथिवी सङ्घातविशेष काठिन्यविशेषं चाऽऽपन्ना तदात्मका जीव अपि खरास्ते च ते बादरपृथिवीकायिकाश्च खरवादरपृथिवीकायिकाः / अथवा-पूर्ववत् प्रकारान्तरेण समासः, चशब्दः स्वगतवक्ष्यमाणचत्वारिंशद्भेदसूचकः। से कि तं सहबादरपुढविकाइया ? सण्हबादरपुढविकाइया सत्तविहा पण्णत्ता / तं जहा-किण्हमत्तिया, नीलमत्तिया, लोहियमत्तिया, हालिद्दमत्तिया, सुकिल्लमत्तिया, पंडुमत्तिया, पणगमत्तिया। से तं सहबादरपुढविकाइया // 14 // अथ के ते श्लक्ष्णबादरपृथिवीकायिकाः? सूरिराह- श्लक्ष्णबादरपृथिवीकायिकाः सप्तविधाः प्रज्ञप्ताः। तदेव सप्तविधत्वं तद्यथेत्यादिनोपदर्शयतिकृष्णमृत्तिका कृष्णमृत्तिकाररूपा, एवं नीलमृत्तिका, लोहितमृत्तिका, हारिद्रमृत्तिकाः, शुल्कमृत्तिका, इत्थं वर्णभेदेन पक्षविधत्वमुक्तम्, पाण्डुमृत्तिका नाम देशविशेषे या धूलिरूपा सती पाण्डू इति प्रसिद्धा तदात्मका जीवा अप्यभेदोपचारात् पाण्डुमृत्तिकेत्युक्ता। (पणगमट्टिय त्ति) नद्यादिपूरप्लाविते देशे नद्यादिपूरेऽपगते यो भूमा श्लक्ष्णमृदुरूपो जलमलापरपर्यायः पङ्कः सा पनकमृत्तिका तदात्मका जीवा अप्यभेदोपचारात्पनकमृत्तिका। निगमनमाह-(सेत्त सण्हबायरपुढविका-इया) सुगमम्। से किं तं खरबादरपुढविकाइया? खरवादरपुढ विकाइया अणेगविहा पण्णत्ता। तं जहा"पुढवी य सक्करा वा-लुया य उवले सिला य लोणू से। अय तंब तउय सीसे, रुप्पसुवण्णे य वइरे य |1|| हरियाले हिंगुलुए, मणोसिला सीसगंजणपवाले। अब्भपडलब्भवालुय, बादरकाए मणिविहाणा / / 2 / / गोमेज्जए य रुयए, अंके फलिहे य लोहियक्खे य! मरगयमसारगल्ले, भुयमोयग इंदनीले य // 3 // चंदण गेरुय हंसे, पुलए सोगंधिए य बोधव्वे / चंदप्पभ वेरुलिए, जलकंते सूरकंते य // 4 // " जे यावण्णे य तहप्पगारा ते समासओ दुविहा पन्नत्ता। तं जहापज्जत्तगा य, अपज्जत्तगा य / तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा एतेसिं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई, संखेज्जाई जोणिप्पमुहसतसहस्साई,पज्जत्तगणिस्साए अपज्जत्तगाऽवक्कमंति, जत्थ एगो तत्थ नियमा असंखेज्जा / सेत्तं खरबायरपुढविकाइया, सेत्तं बायरपुढविकाइया, सेत्तं पुढविकाइया। (सूत्र 15) // अथ के ते खरबादरपृथिवीकायिका:? सूरिराह- खरबादरपृथिवीकायिका अनेकविधाः प्रज्ञप्ताः, चत्वारिंशद्देदा मुर यतः प्रज्ञप्ता इत्यर्थः / तानेव चत्वारिंशद्भेदानाह-"तं जहा-पुढवी च' इत्यादि गाथाचतुष्टयम्, पृथिवीति भामा सत्यभामावत् शुद्धपृथिवी च नदीतटभित्त्यादिरूपा, चशब्द उत्तरभेदापेक्षया समुच्चये १शर्करालघूपलशकलरूपाः २बालुका सिकताः ३उपलः-टद्वाऽऽधुषकरण - परिकर्मणायोग्यः पाषाणः ४शिलाघटनयोग्या देवकुलपीठाऽऽधुपयोगी महान पाषाणविशेषः ५लवणं सामुद्राऽऽदि 6 ऊषोयदशादषरं क्षेत्रम् 7 अयस्तामत्रपुराीसक रूप्यसुवर्णानि प्रतीतानि 13 वजो हीरकः 14 हरितालहिड्गुलकमनः शिलाः प्रतीताः 17 सीसकं पारदः 18 अञ्जनं सौवीराजनाऽऽदि 16 प्रवालं विद्रुमम् 20 अभ्रपटलं प्रसिद्धम 21 अभ्रवालुका-अभ्रपटलमिश्रा वालुका 22 (वायरकाये इति) बादरपृथिवीकायेऽमी भेदा इति शेषः, (मणिबिहाणा इति) चशब्दस्य गम्यमानत्वान्मणिविधानानि च-मणिभेदाश्च बादरपृथिवीकायभेदत्वेन ज्ञातव्याः / तान्ये व मणिविधानानि दर्शयति-(गोमिजए इत्यादि) गोमेजकः 23 चः समुच्चये, रुचकः 24 अङ्क: 25 स्फटिकः 26 चः पूर्ववत्, लोहिताक्षः 27 मरकतः 28 मसारगल्लः 26 भुजमोचकः 30 इन्द्रनीलश्व 31 चन्दनो 32 गैरिको 33 हंसगर्भः 34 पुलकः 35 सौगन्धिकश्च 36 चन्द्रप्रभो 37 वैडूर्यो 38 जलकान्तः 36 सूर्यकान्तश्च 40 / तदेवमाद्यगाथया पृथिव्यादयश्चतुर्दशभेदा उक्ताः, द्वितःयगाथयाऽष्टी हरितालाऽऽदयः, तृतीयगाथया गोमेजकाऽऽदयो नव, तुर्यया गाथया नवेति सङ्ख्यया चत्वारिंशत् 40 / (जे यावन्ने तहप्पमारा इति) येऽपि चान्ये तथा-प्रकारा मणिभेदाः पद्मरागाऽऽदयस्तेऽपि खरपादरपृथिवीकायत्वेन वेदितव्याः। (ते समासओ इत्यादि) ते सामान्यतो बादरपृथिवीकायिकाः समासतः सङ्क्षेपेण द्विविधाः प्रज्ञप्ताः। तद्यथा-पर्याप्तकाश्च अपर्याप्त काश्च। तत्र येऽपर्याप्तकास्ते स्वयोग्याः पर्याप्तीः साकल्येनासम्प्रासा इति। अथवा असम्प्राप्ता इति विशिष्टान् वर्णाऽऽदीन अनुपगतास्तथाहिवर्णाऽऽदिभेदविवक्षायामेते न शक्यन्ते कृष्णाऽऽदिवर्णभेदेन व्यपदेष्टुमा कि कारणमिति चेत्? उच्यते-इह शरीराऽऽदिपर्यानिषु परिपूर्णासु सतीषु वादराणां वर्णाऽऽदिविभागः प्रकटो भवति नापरिपूर्णार. ते चापर्याप्ता उच्छासपर्याप्त्याऽपर्याप्ता एव मियन्ते ततो न स्पष्टतरवर्गाऽऽदिविभाग इत्यसम्प्राप्ता इत्युक्तम् / ननु कस्मादुच्छ्रासपर्याप्त्यैवाऽपर्याप्ता मियन्ते नोऽर्वाक शरीरेन्द्रियपर्याप्तिभ्यामपर्याप्ता अपि ? उच्यते-तस्मादागामिभवाऽऽयुर्बद्धा नियन्ते सर्वएव देहिनो नाबध्वा, तच शरीरेन्द्रियपर्याप्तिभ्यां पर्याप्तानां बन्धमायान्ति नान्यथा इति / अन्ये तु व्याचक्षतेसामान्यतो वर्णाऽऽदीनसमप्राप्ता इति, तचनयुक्त, यतः शरीरमात्रभाविनोवर्णाऽऽदयः, शरीरं च शरीरपर्याप्त्या सजात इति (तत्थ णजे तेषजत्तगा इत्यादि) तत्र ये ते पर्याप्तकाः परिसमाप्तसवयोग्यसमस्तपर्याप्तय एतेषां वदिशेन वर्णभेदविवक्षया, एवं गन्धादेशेन रसादेशेन स्पदिशेन सहयाप्रशःसहस्रसङ्ख्यया विधानानि भेदाः / तद्यथा-वर्णा, कृष्णाऽऽदिभेदात्पश्च, गन्धी सुरभीतरभेदाद्वी, रसास्तिक्ताऽऽदय, पञ्च स्पर्शा मृदुकर्कशाऽऽदयोऽष्टी,
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy