SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ पुंडरीय 651 - अभिधानराजेन्द्रः - भाग 5 पुंडरीय या परिस्पन्दाऽऽत्मिका सावधानुष्ठानरूपा, एवमक्रिया वा रथानाऽऽदिलक्षणा यावदेवमेव विरूपरूपैरुच्चावचैनानाप्रकारैर्जलस्नानावगाहनाऽऽदिकै स्तथा प्राण्युपमर्दकारिभिः कर्मसमारम्भविरूपरूपान् नानाप्रकारान् सुरापानमांसभक्षणागम्यगमनाऽऽदिकान् कामोपभोगान् समारभन्ते स्वतः, परांश्वोदयन्तिनास्त्यत्र दोष इत्येवं उतार्यासत्कार्यकरणाय प्रेरयन्ति एवं च तेऽनार्या अना-र्यकर्मकारेत्वोदायान्मार्गाद्विरुद्ध मार्ग प्रतिपन्नाः विप्रतिपन्नाः / तथाहिसाख्यानामचेतनत्वात्प्रकृतेः कार्यकर्तृत्वं नोपपद्यते, अचेतनत्वं तु तस्याश्चैत्थन्यं पुरुषस्य स्वरूधमिति वचनात, आत्मैव प्रतिबिम्बोदयन्यायेन करिष्यतीति चेत्तदपि न युक्तिसंगतम्, यतोऽकर्तृत्वादात्मनो नित्यत्वाच्च प्रतिबिम्बोदयो नयुज्यते, किञ्च नित्यत्वात्प्रकृतमहदादिविकारतया नोत्पत्तिः स्यात् / अपि च "नासतो जायते भावो, नाभावो जायते सतः।" इत्याद्यभ्युपगमात्प्रधानाऽऽत्मनोरेव विद्यमानत्वात् महदहाराऽऽदेरनुत्पत्तिरेव, एकत्याच प्रकृतेरेकाऽऽत्मवियोगे सति सर्वात्मनां वियोगः स्यादेकसंबन्धे वा सर्वात्मनां प्रकृतिसंयोगो न पुनः कस्यचित्तत्त्वपरिज्ञानात् प्रकृतिवियोगे मोक्षोऽपरस्य तु विपर्ययात्संसार इत्यवं जगद्वैचित्र्यं न स्यात् आत्मनश्वाकर्तृत्वे तत्कृतौ बन्धमोक्षी न स्थालाम्, एतच दृष्टेष्टवाधितम् / नापि कारणे सत्कार्यवादो, युक्तिभिरनुपपद्यमानत्वात् / तथाहि-मृतपिण्डावस्थायां घटोत्पत्तेः प्राग्घटसंबन्धिना कर्मगुणव्यपदेशानामभावात्, घटार्थिनां च क्रियासु प्रवृत्तेर्न कारण कायमिति / लोकायतिकस्यापि भूतानामचेतनत्वात्कर्तृत्वानुपपत्तिः, कायाऽऽकारपरिणतानां चैतन्याभिव्यक्त्यभ्युपगमे च मरणाभावप्रसङ्गः स्यात्तस्मान्न पञ्चभूताऽऽत्मकं जगदिति स्थितम् / अपिचेद ज्ञानं स्वसंवित्तिसिद्धमात्मानं धर्मिणमुपस्थापयति, न च भूतान्येव धर्मित्वेन परिकल्पयितुं युज्यन्ते, तेषामचेतनत्वाद / अथ कायाऽऽकारपरिणतानां चैतन्य धर्मो भविष्यतीत्येतदप्ययुक्तम्, यतः कायाऽऽकारपरिणाम एव तेषामात्मानमधिष्ठातारमन्तरेण न भवितुमर्हति, निर्हेतुकत्वप्रसङ्गात्रिर्हेतुकत्वे च नित्यं सत्त्वमसत्त्वं वा स्यादिति / तदेवंभूतव्यतिरिक्त आत्मा, तस्मिश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिरिति। एवं च व्यवस्थिते तेऽनार्याः साङ्ख्यालोकायतिका वा पञ्चमहाभूतप्रधानाभ्युपगमेन विप्रतिपन्नायत्कुर्युस्तदर्शयितुमाह-(तं सद्दहमाणा इत्यादि) तमात्मीयमभ्युपगमं पूर्वोक्तया नीत्या नियुक्तिकमपि श्रद्दधानाः पञ्चमहाभूतात्मकप्रधानस्य सर्वकार्याणि उपगच्छन्ति, तदेव च सत्यमित्येवं प्रतियन्तःप्रतिपद्यमानास्तदेव चाऽऽत्मीयमभ्युपगमं रोचयन्तस्तद्धर्मस्याऽऽख्यातारं प्रशंसयन्तः / तद्यथा-स्वाख्याता भवता धर्मोऽस्माकमयमत्यन्तमभिप्रेत इत्येवं ते तदध्यवसायाः-सावद्यानुष्ठानेनाप्यधर्मो न भवतीत्यध्यवसायिनः स्वीकामेषु भूच्छिता इत्येवं पूर्ववद्ज्ञेयं यावत्तदन्तरे कामभोगेषु विषण्णा ऐहिकाऽऽमुष्मिकोभयकार्यभ्रष्टा नाऽऽत्मत्राणाय, नापि परेषामिति / भवत्येवं द्वितीयः पुरुषजातः पञ्चमहाभूताभ्युपगमिको व्याख्यात इति। साम्प्रतमीश्वरकारणिकमधिकृत्याऽऽहअहावरे तचे पुरिसजाए ईसरकारणिए इति आहिज्जइ, इह खलु पादीणं वा 6 संतेगतिया मणुस्सा भवंति, अणुपुटवेणं लोयं उववन्ना / तं जहा-आयरिया वेगे०जाव तेसिं च णं मंहते एगे राया भवइ०जाव सेणावइपुत्ता तेसिं च णं एगतीए सडी भवइ, कामं तं समणा य माहणा य पहारिंसु गमणाए०जाव जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवइ। अथ द्वितीयपुरुषादनन्तरं तृतीय ईश्वरकारणिक आख्यायते, समस्तस्यापि चेतनाचेतनरूपस्य जगत ईश्वरः कारणं, प्रमाणं चात्र तनुभुवनकरणाऽऽदिकं धर्मित्वेनोपादीयते, ईश्वरकर्तृकमिति साध्यो धर्मः, संस्थानविशेषत्वात्कूपदेव कुलाऽऽदिवत्, तथा स्थित्वा प्रवृत्तेर्वास्यादिवत् / उक्तं च- "अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा / / 1 / / '' इत्यादि। तथा पुरुष एवेदं सर्व, यद्भूतं यच्च भाव्यम्' इत्यादि। तथा चोक्तम्- "एक एव हि भूताऽऽत्मा, भूते भूते प्रति-ठितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवद् / / 1 / / " इत्यादि, तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते (इह खलु इत्यादि) इहैव पुरुषजातप्रस्तावे, खलुशब्दो वाक्यालङ्कार प्राच्यादिषु दिक्ष्वन्यतमरयां दिशि व्यवस्थितः कश्चिदेव ब्रूयात्। तद्यथा-राजानमुद्दिश्यतावद्यावत्स्थाख्यातः सुप्रज्ञप्तो धर्मो भवति। इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूया पुरिसपजोतिता पुरिसअभिसमण्णागया पुरिसमेव अभिभूय चिट्ठति, से जहाणामए गंडे सिया सरीरे जाए सरीरे संबुड़े सरीरे अभिसमण्णागए सरीरमेव अभिभूय चिट्ठति, एवमेव धम्मा पुरिसादिया०जाव पुरिसमेव अभिभूय चिटुंति, से जहाणामए अरई सिया सरीरे जाया सरीरे संबुड्डा सरीरे अभिसमण्णागया सरीरमेव अभिभूय चिट्ठति, एवमेव धम्मा विपुरिसादिया जाव पुरिसमेव अभिभूय चिटुंति, से जहा- णामए वम्मिए सिया पुढविजाए पुढविसंदुड्ढे पुढविअभिसमण्णागए पुढविमेव अमिभूय चिट्ठइ, एवमेव धम्मा विपुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति / से जहाणामए रुक्खे सिया पुढविजाए पुढविसंवुड्ढे पुढवि-अभिसमण्णागए पुढविमेव अभिभूय चिट्ठति, एवमेव धम्मा वि पुरिसादिया०जाव पुरिसमेव अमिभूय चिट्ठति। से जहाणामए पुक्खरिणी सिया पुढविजाया०जाव पुढविमेव अभिभूय चिट्ठति, एवमेव धम्मा विपुरिसादिया०जाव पुरिसमेव अभिभूय चिटुंति / से जहाणामए उदगपुक्खले सिया उदगजाए० जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्मा वि पुरिसादिया० जाब पुरिसमेव अभिभूय चिट्ठति, से जहाणामए उदगबुब्बए सिया उदगजाएजाव उदगमेव अभिभूय चिट्ठति, एव
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy