________________ पारिट्ठावणिया 870- अभिधानराजेन्द्रः - भाग 5 पारिट्ठावणिया नस्यापभ्राजना-अहो अमी वराका अदत्तदाना मृता अपिशोभा न लभन्ते इति। "संभमादिसुं होज्जा" इत्यादिकमेव व्याख्यानयतितेणऽग्गिसंभमादिसु, तप्पडिबंधेण दाहों हरणं वा। मइलेहि अछडुती, गरिहा य अथंडिले वावि / / 426 / / स्तेनाग्निसंभ्रमात्, आदिशब्दात्परचक्रसंभ्रमाऽऽदिपरिग्रहः / तत्प्रतिबन्धेन कालगतप्रतिबन्धेन तिष्ठतामग्निदाहः, स्तेनैर्वा हरणं स्यात्। अथ स्थण्डिलं न प्रत्युपेक्षितमिति प्रभाते परिष्ठापयन्ति तदा मलिनैर्वस्त्रैरुपेतं छर्दयन्ति, गर्दा स्यात्, अथैतद्दोषभयादस्थण्डिलेऽपि परिष्टापयन्ति। तथा अस्थण्डिले परितापनादोषःएए दोस अपेहिय, अह पुण पुव्वं तु पेहितं होतं। तो ताहि चिय निंता,एते दोसा न होता य॥४३०।। एते अनन्तरोदिता दोषा अप्रेक्षिते स्थण्डिले भवन्ति / अथ पुनः पूर्व प्रत्युपेक्षितमभविष्यत्ततस्तदैव यदि अनायिष्यतस्तदा एते अनन्तरोदिता दोषा नाभविष्यन्। अह पेहिए वि पुट्विं, दिया व रातो व होज्ज वाघातो। सावयतेणभया वा, वि ढक्किया ताहें अत्थाये // 431|| अथ पूर्वप्रेक्षितेऽपि स्थण्डिले दिवा वा रात्रौ वा भवेत् व्याघातः। कथमित्याह- स्वापदभयात्, स्तेनभयादा / यदि वारात्री द्वाराणि ढकितानि पिहितानि तदाऽऽस्थापयन्ति धरन्ति, न परिष्टापयन्तीत्यर्थः / तथा बन्धनछेदनजागरमाणाऽऽदिका पूर्वोक्ता यतनाऽपि, स्थण्डिलस्य व्याघातस्तर्हि यावत् स्तेनाऽऽदिभयापगमो भवति, स्थण्डिलं वा किमपि कालोचित प्राप्यते, तावन्सैव प्राक्तनी यतना कर्तव्या। असतीऍ सुक्किलाणं, दिणकालगयं निसिं विगिचंति। पडिहारियं च पच्छा-कडादि कोडीदुगेणं वा / / 432 / / / अथ दिवसे कालगतः परं शुक्तानि वस्त्राणिः न विद्यन्ते तर्हि शुक्लानां वस्त्राणामभावे दिनकालगतं बन्धनाऽऽदियतनाविषयं कृत्वा निशि रात्री (विगिचंति) परिष्ठापयन्ति / अथ रात्रौ पूर्वोक्तकारणैयाघातस्तर्हि यदन्यत एवमेव यावत् शुक्लं वस्त्रं न लभ्यते तदा पश्चात्कृताऽऽदिषु प्रातिहारिक शुक्लं वस्त्रं याच्यते। अथ तदपि न लभ्यते तर्हि कोटीद्विकेनाप्युत्पादयेत् / किमुक्तं भवति? पूर्व विशोधिकोट्यापीति। असतीए णेउ निसिं,ठवेत्तु सागारि थंडिलं पेहे। थंडिलवाघातम्मि वि,जयणा एसेव कायव्वा ||433|| कोटीद्विकप्रकारेणापि शुक्लवस्त्राणामभावे निशि रात्रौ सागारिक शय्यातर कालगतस्य समीपे स्थापयित्वा स्वयं साधवः स्थण्डिलं तथाविधं प्रत्युपेक्षन्ते। अथ स्थण्डिलव्याघातस्तदा एषैवानन्तरोदिता यतना कर्तव्या। रात्रिद्वारं गतम्। अथ दिग्द्वारमाहमहल्ल पुर गामे वो, वस्सा वाडग साधिओ। इहरा दुविभागाओ, कुग्गामे सुविभाविया / / 434 // यत्र महापुरस्य महानगरस्य, महाग्रामस्य वा महत्येन दिग्विभागो दुःखेन विभाव्यते, तत उपाश्रयाद्, वाटकात. साहेवा दिग्विभागः परिभावनीयः, इतरथा दुर्विभागा भवेयुः, कुनामे तु सुविभागा दिशः। ताः पुनरिमा दिशःदिस अवरदक्खिणाद-क्खिणा य अवरा य दक्खिणापुवा अवरुत्तरा य पुव्वा, उत्तर पुव्वुत्तरा चेव // 435|| दिक् प्रथमतोऽपरदक्षिणा नैर्ऋती निरीक्षणीया, तदभावे दक्षिणा, तस्या अभावे अपरा पश्चिमा, तस्या अप्यभावे दक्षिणपूर्वा, आग्रेयी इत्यर्थः / तस्या अभावे अपरोत्तरा वायव्यीति भावः / तस्या अलाभे पूर्वा, तस्या अप्यभावे उत्तरपूर्वा / संप्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिष्ठापने दोषमाहसमाही अभत्तपाणे, उवगरऽणज्झायमेव कलहो उ। भेदो गेलण्णं वा, चरिमा पुण कवृते अण्णं // 436 / / अथ प्राप्तायामपरदक्षिणायां परिष्ठापने प्रचुरानपानलाभतः समाधिरुपजायते, तस्यां सत्यां द्वितीयस्यां दक्षिणायां परिष्ठापने अभक्तपानं भक्तपानाऽलाभः, तृतीयस्यामनुपकरणमुपधेरभावः, चतुर्थ्या दक्षिणपूर्वस्यां स्वाध्यायाभावः, पञ्चम्यामपरोत्तरस्यां कलहः, षष्ठ्या पूर्वस्या गच्छभेदता, सप्तम्यामुत्तरस्यांग्लानत्वं, चरमा अष्टमी पूर्वोत्तरा कृतमृतकपरिष्ठापना अन्यं मृतकं कर्षयति, मरणमापादयतीत्यर्थः। एतदेव स्पष्टतरमाहपउरऽण्णपाण पढमा, वितियाए भत्तपाणे न लभंति। ततियाएँ उवहिमादी, नऽत्थि चउत्थीऍ सज्झाओ।।४३७।। पंचमियाएँ असंखड, छट्ठीऍ गणस्स भेयणं नियमा। सत्तमिए गेलण्णं, मरणं पुण अट्ठमी बेंति // 438|| गाथाद्वयमपि व्याख्यातार्थत्वात्सुगम, नवरं 'पउरणपाण पढमा" इत्यत्र प्राकृतत्वात्सप्तम्या लोपः। ततः प्रथमायामिति द्रष्टव्यम्। अष्टमीति अष्टम्यामिति साम्प्रतमुक्तानुक्तद्वारसंग्रहार्थमाहरत्तिदिसा थंडिल्ले, सिल विंवा झामिए य उस्सपणे। छेत्तविभत्ते सीमा, सीसाणे चेव ववहारो॥४३६।। प्रथम रात्रिद्वार, तच्च प्रागेव सप्रपञ्चमुक्तम् / द्वितीयं दिग्द्वार, तच भण्यमानमास्ते, तृतीय स्थण्डिलद्वारं त्रिधा शिलारूपं, बिम्बाऽऽदि वृक्षाऽऽदीनामधो ध्यामितम् / चतुर्थमुत्सन्नद्वारं,पञ्चम क्षेत्रविभक्ते भूमिभागे द्वयोर्गामयोः। सीमायां परिष्ठापनीयमित्येवंलक्षणं, षष्ठं श्मशाने इति द्वारम् / तत्र च व्यवहारो वक्तव्यः / एष द्वारगाथासंक्षेपार्थः। साम्प्रतमेनामेव विवरीषुकामो रात्रिद्वारं किल प्रागेव सप्रपशमुक्तमतो दिग्द्वारस्य वक्तव्यशेषमाहलभमाणे पढमाए, तीए असतीऍवावि वाघाते। ताहे अन्नाए वी, दिसाएँ पेहेज जयणाए।।४४०|| लभ्यमानायां, गाथायां पुंस्त्वं प्राकृतत्यात्, प्रथमायां परिष्ठापनम् प्रथमाया अपरदक्षिणस्या अभावे व्याघाते वा सति तत