________________ पारंचिय 858 - अभिधानराजेन्द्रः - भाग 5 पारंचिय एकेक्कम्मि य भयणा, सचरित्ते चेव अचरित्ते / / 4 / / पाराशिक:समासेन द्विविधः। तद्यथा-आशातनापाराशिकः, | प्रतिसेविपाराश्चिकश्च / पुनरेकैकस्मिन् द्विविधा भजना कर्तव्या।। कथमित्याह-द्वावप्येतौ सचारित्रिणी अचारित्रिणौ वा। कथं पुनरेषा भजनेत्याहसव्वचरितं भस्सति, केणइ पडिसेवितेण तु पदेणं। कत्थ वि चिट्ठति देसो,परिणामऽवराहमासज्ज / / 65|| केनचिदपराधपदेन पाराश्चिकः प्रतिपत्तियोग्येन प्रतिसेवितेन सर्वमपि | चारित्रं भ्रस्यति, कुत्राऽपि पुनश्चारित्रस्य देशोऽवतिष्ठते / कुत इत्याहपरिणामं तीव्रमन्दाऽऽदिरूपमपराधं चोत्कृष्टमध्यमजघन्यरूपमासाद्य चारित्रं भवेता, नवा। इदमेव भावयतितुलम्मि वि अवराहे, परिणामवसेण होइ णाणत्तं / कत्थ वि परिणामम्मि वि, तुल्ले अवराहें णाणत्तं / / 66|| तुल्येऽप्यपरार्धे परिणामवशेन तीवमन्दाऽऽद्यध्यवसायवैचित्र्यबलाचारित्रपरिभ्रशाऽऽदौ नानात्वं भवति। कुत्रचित्पुनः परिणामे तुल्येsप्यपराधे नानात्वं प्रतिसेवनावैचित्र्यं भवति। अथाऽऽशासनापाराञ्चिकं व्याचिख्यासुराहतित्थकरपवयणसुए, आयरिए गणहरे महिड्डीए। एते आसार्यते, पच्छित्ते मग्गणा होइ ||7| तीर्थकरप्रवचनं श्रुतम्, आचार्यान्, गणधरान्, महर्धिकांश्च एतान्, | आशातयति तस्य प्रायश्चित्ते वक्ष्यमाणलक्षणा मार्गणा भवति। तत्र तीर्थङ्करं यथाऽऽशातयति तथाऽभिधीयतेपाहुडियं अणुमण्णति, जाणतो किं च भुंजती भोगे। थीतित्थं पि य वुचति, अतिकक्खडदेसणा यावि६८ प्राभृतिकां सुरविरचित समवसरणमहाप्रातिहार्याऽऽदिपूजालक्षणामर्हन् यदनुमन्यते, तन्नसुन्दरम्। ज्ञानत्रयप्रमाणेन च भवस्वरूपं जानन् विपाकदारुणान् भोगान् किमिति भुङ्क्ते? मल्लिनाथाऽऽदेश्च स्त्रियाया अपि यत्तीर्थमुच्यते। तदतीवासमीचीनम्। अतीव कर्कशा अतीव दुरनुचरा तीर्थकरः सर्वो पायकुशलैरपि या देशना कृता, साऽप्ययुक्ता। अण्णं च एवामदी, अवि पडिमासु वि तिलोगमहिताणं। पडिरूवमकुव्वंतो, पावति पारंचियं ठाणं / / 6EIN अन्यमप्येवमादिकं तीर्थकृतामवर्ण यो भाषते। तथा अपीत्यभ्युच्चये। त्रिलोकमहितानां भगवतां याः प्रतिमास्तास्वपि यद्येवमवर्ण भाषते न तासां पाषाणाऽऽदिमयीनां माल्यालङ्काराऽऽदिपूजा क्रियते, एवं बुवन् प्रतिरूपं वा विनयवन्दनस्तुतिस्तवाऽऽदिक तासामेवावज्ञाबुद्ध्या अकुर्वन् पाराशिकं स्थान प्राप्नोति। अथ प्रवचनं सङ्घस्तस्याऽऽशातनामाहअक्कोसतज्जणादिसु, संघमहिक्खिवति सव्वपडिणीओ। अण्णे वि अत्थि संघा, सियालमंतिक्कढंकाणं / / 100 / / यः सङ्ग प्रत्यनीकः स (अक्कोसणतज्जणाइसु त्ति) विभक्ते यंत्ययात् | आक्रोशतर्जनाऽऽदिभिः सङ्कमधिक्षिपति। यथा सन्त्यन्येऽपि शृगालानां तिकढङ्कप्रभृतीनां सङ्घाः, यादृशास्ते तादृशोऽयमपि इति भावः / एष आक्रोश उच्यते / तर्जना तु हुं हुं जातं भवदीयं स त्वमित्यादिका। अथ श्रुताऽऽशातनामाहकाया वता य ते चिय, ते चेव पमायमप्पमादाय / मोक्खाहिकारियाणं, जोतिसविज्जासु किं च पुणे / / 101 / / दशवैकालिकोत्तराऽध्ययनाऽऽदौ यत्त एव षटकायाः, तान्येव व्रतानि, तावेव प्रमादाप्रमादौ भूयो भूय उपवर्ण्यन्ते तदेतदयुक्तम्। मोक्षाधिकारिणां च साधूनां ज्योतिष्ज्ञविद्यासु पुनः किं नाम कार्य , येन श्रुते ताः प्रतिपाद्यन्ते। अथाऽऽचार्याऽऽशातनामाहइडिरससातगुरुगा, परोवदेसुज्जाया जहा मंखा। अत्तट्ठपोसणरया, पोसंति दिया व अप्पाणं / / 102 / / आचार्याः स्वभावादेव ऋद्धिरससातगुरुकास्तथा मङ्खा इव परोपदेशोधताः,लोकाऽऽवर्जनप्रसक्ता इति भावः / (मङ्खस्वरूप मख' शब्दे) आत्मार्थ पोषणरताः स्वोदरभरणैकचेतसः। इदमेव व्याचष्टेद्विजा इवाऽऽत्मानममी पोषयन्ति। गणधराऽऽशातनामाहअब्भुजय विहारं, देसंति परेसि सयमुदासीणा। उवजीवंति य रिद्धि, निस्संगा मो त्तिय भणंति / / 103 / / गणधरा गौतमाऽऽदयोऽभ्युद्यतं विहारं जिनकल्पप्रभृतिकं परेषामुपदिशन्ति, स्वयं पुनरुदासीनास्तं न प्रतिपद्यन्ते / ऋद्धिं चाक्षीणमहानसिकाचारणाऽऽदिकलब्धिमुपजीवन्ति, निःसंगा वयमिति च भणन्ति / अथ महर्द्धिकपदं व्याख्यानयन्तिगणधर एव महिड्डी, महातवस्सीव वादिमादी वा। तित्थगरपढमसिस्सा, आदिग्गहणेण गहिया वा।।१०४।। इह गणधर एव सर्वलब्धिसंपन्नतया महर्द्धिक उच्यते / यद्वामहर्द्धिको महातपस्वी वा वादिविद्यासिद्धप्रभृतिको वा भण्यते / तस्य यदवर्णवादाऽऽदिकरण सा महर्द्धिकाऽऽशातना / गणधरास्तु तीर्थकरप्रथमशिष्या उच्यन्ते, आदिग्रहणेन वा ते गृहीता मन्तव्याः। अर्थतेषामाशातनायां प्रायश्चित्तमार्गणामाहपढमबितिएसु चरिमं, सेसे एकेक चउगुरू होति। सव्वे आसादिंते, पावति पारंचियं ठाणं / / 10 / / अथ प्रथमस्तीर्थकरो द्वितीयः सङ्घस्तयोर्देशतः सर्वतो वा आशातनाया पाराशिकं शेषेषु श्रुताऽऽदिषु एकैकस्मिन् देशतआशात्यमाने चतुर्गुरुकाः प्रायश्चित्तं भवति; अथ सर्वतस्तान्याशातयति,ततस्तेष्वपि पाराश्चिक स्थान प्राप्नोति। तित्थयरपढमसिस्सं, एकं पासाऽऽदयं तु पारंची। अत्थस्सेव जिणिंदो, पभवो सो जेण सुत्तस्स / / 106 / / तीर्थकरप्रथमशिष्यं गणधरमेकमप्याशातयन् पाराञ्चिको भवति / कुत इत्याह-जिनेन्द्रस्तीर्थकरः, सकेवलस्यैवाऽर्थस्य प्रभवः प्रथमतउत्पत्तिहेतुः / सूत्रस्य पुनः स एव गणधरो येन कारणेन प्रभवः प्रथमतः प्रणेता.ततस्तमे