________________ परिहार 663 - अभिधानराजेन्द्रः - भाग 5 परिहार युष्माभिरप्येष सूत्रार्थाऽऽदौ न प्रष्टव्यः, तथा युष्माभिः सह नैष सूत्रमर्थ वा परिवर्तयिष्यति नाऽपि युष्माभिरनेन सह सूत्राऽऽदि परिवर्तनीयम् / तथैष कालवेलाऽऽदिषु युष्मान्नोत्थापयिष्यति युष्माभिरप्येष नोत्थापयितव्यः / तथा न वन्दनं युष्माकमेष करिष्यति, नापि युष्माभिरेतस्य कर्तव्यम् / तथा उचारप्रश्रवणखेलमात्रकाण्येष युष्मभ्यं नदास्यति नापि युष्माभिरेतस्मै दातव्यम् / तथा-न किञ्चिदुपकरणमेष युष्माकं प्रतिलेखयिष्यति नापि युष्माभिरूपकरणमेतस्य प्रतिलेखनीयम् / तथा नैष युष्माकं संघाटकभावं यास्यति न च युष्माभितरेतस्य संघाटकैर्भवितव्यम् / तथा न युष्मभ्यमेष भक्तं पानं वा आनीय दास्यति न च युष्माभिरेतस्याऽऽनीय दातव्यम् / तथा नायं युष्माभिः सह भोक्ष्यते नापि युष्माभिरेतेन सह भोक्तव्यम्, तथा कल्पसमाचारात् / तस्मात् आलापने प्रतिप्रच्छन्ने परिवर्तन उत्थापने वन्दनदापने मात्र उचारप्रश्रवणखेलमात्रकानयने प्रतिलेखने संघाटके संघाटककरणे भक्तदाने संभोजने च सहभोजनविषये व्याघातो न कर्तव्य इति सबन्धः, आलापनाऽऽदिभियाघातो न कार्य इत्यर्थः / एवमेतैर्दशभिः पदैर्गच्छेन सपरिहतः सोऽपि गच्छमेतैः पदैः परिहरति / (7) यदिपुनर्गच्छवासी एतानि पदान्यतिचरति तत इदं प्रायश्चित्तम्। संघाडगो उ जाव य, लहुओ मासो दसण्ह उ पयाणं। लहुगा य भत्तपाणे, भुंजाणे होतऽणुग्धाया // 365 / / दशानां पदानां मध्ये आलापनपदादारभ्य यावदष्टमं पदं संघाटकरूपं तावदकैकस्मिन्पदेऽतिचर्यमाणे लघुको मासः प्रायश्चितम्। यदि पुनर्भक्तं पानं च गच्छवासिनः प्रयच्छन्ति ततो भक्तदाने भक्तपानदानविषये लघुकाश्चत्वारो लघुमासाः प्रायश्चितम्। संभोजने सहभोजने भवन्त्यनुद्धाताः, चत्वारो गुरुमासा इत्यर्थः। साम्प्रतमेतेष्वेव पदेषु परिहारिणः प्रायश्चित्तमाहसंघाडगो उ जाव य, गुरुगो मासो दसण्ह उपयाणं। भत्तप्पयाणे संभुं-जणे य परिहारिगे गुरुगा // 366 / / दशानां पदानामालापनपदादारभ्य यावत्संघाटकः संघाटकपदं तावदेतेषु पदेष्वतिचर्यमाणेषु प्रत्येकं पारिहारिके गुरुको मासः, यदि पुनर्गच्छवासिभ्यो भक्तप्रदानं करोति, तैः सह भक्ते वा तदा प्रत्येक भक्तदाने संभोजने च प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः। यः पुनः कल्पस्थितः स इदं करोतिकितिकम्मं च पडिच्छा, परिण्ण पडिपुच्छयं पि से देइ।। सो वि य गुरुमुवइट्ठइ, उदंतमवि पुच्छितो कहए॥३६७ // कृतिकर्म वन्दनकं तत् यदि पारिहारिको ददाति तदा गुरुः प्रतीच्छति / उनलक्षणमेतत्-आलोचनमपि प्रतीच्छती। (परिण्ण त्ति) प्रत्युषसि अपराण्हे च परिज्ञा प्रत्याख्यानं तस्मै ददाति / तथा सूत्रे अर्थे वा यदि पृच्छति ततः प्रतिपृच्छांच ददाति। सोऽपि च परिहारिको गुरुमाचार्यमागच्छन्तमभ्युत्थानाऽऽदिना विनयेनोपतिष्ठते / उदन्तः शरीरस्य वार्त्तमानिकी वार्ता, तामपि गुरुणा पृष्टः सन् कथयति। एवं स्थापनाया स्थापितायां भीतस्य च पूर्वोक्तप्रकारेणाऽऽश्वासनायां च कृताया स पारिहारिकः तपो वोढुं प्रवर्तते, तपो वहश्च क्लमं गतो वीर्याऽऽचारमनिगूहयन् यद्यन्तरां क्रिया कर्तुमसमर्थो भवति तदा तु पारिहारिक: करोति। तथा चाऽऽहउद्विज निसीएज्जा, भिक्खं हिंडिज मंडयं पेहे। कुवियपियबंधवस्स व, करेइ इयरो वितुसिणीओ॥३६५॥ यद्युत्थातुं न शक्रोति ततो ब्रूते-उतिष्ठामि तदनन्तरमनुपारिहारिकः समागत्योत्थापयेत्। तथा यदि निषीदनं कर्तुमसमर्थस्तदा निषीदामीति वचनान्तरं सत्वरमागत्य निषीदयेत्। यच भिक्षां गतः सन् कर्तुं न शक्नोति तदपि भिक्षाग्रहणाऽऽदिकं करोति। अथ ब्रूतेभिक्षामेव हिण्डितुमसमर्थः तदा भिक्षामनुपारिहारिकः केवलो हिण्डेत ! एवं भण्डकप्रत्युपेक्षणेऽपि साहाय्य करोति, समस्तं वा भण्डक प्रत्युपेक्षते / कथमेतत् सर्व करोतीत्यत आह-(कुवियेत्यादि) यथा कोऽपि कुपितप्रियबान्धवस्य यत्करणीयं तत्सर्व तूष्णीकः करोति / एवमितरोऽप्यनुपारिहारिकस्तस्य पारिहारिकस्य तूष्णीकः सन् सर्व करोति। अत्र पर आहअवसो व रायदंडो, न एव एवं तु होइ पच्छित्तं। सक्करसरिसवसगडे-मंडववत्थेण दिटुंतो॥३६६ / / 'अवसो' इत्यत्र प्रथमा तृतीयाऽर्थे, आर्षत्वात् / ततोऽयमर्थः-यथा राजदण्डोऽवश्यवशेनापि वोढव्यः, किमेवमध्यवसानं कृत्वा प्रायश्चित्तं वोढव्यम्, उतान्यदालम्बनं कृत्वा? सूरिराह-नवरं राजदण्डन्यायेन वोढव्यं, किंतु चरणविशुद्धिनिमित्तमेतत् प्रायश्चित्तमित्येवमध्यवसायेन भवति प्रायश्चित्तं वोढव्यम्।अथवा यथा राजदण्डोऽवश्यमवशेनाप्युह्यते यदि पुनर्नेति नोह्यते ततः शरीरविनाशो भवति। एवशब्द एवंशब्दात्परतो द्रष्टव्यः। एवमेव राजदण्डन्यायेनैव प्रायश्चित्तमप्यवश्यं भवति वोढव्यम्, तद्वहनाभावे चारित्रशरीरविनाशाऽऽपत्तेः। पुनरप्याह-प्रभूतं प्रायश्चित्तस्थानमापन्नमुह्यतां किं स्तोकमापन्नमुह्यते, न खलु किमपि तावता प्रायश्चित्तस्थानेनाऽऽपन्नेन भवति? अत्राऽऽचार्यः प्राऽऽह-"संकरेत्यादि पश्चार्द्धम् / सर्करस्तृणाऽऽद्यवस्करः, तेन, तथा सर्षपाः प्रतीताः, सर्षपग्रहणं पाषाणोपलक्षणम् / ततोऽयमर्थशकटे पाषाणेन, मण्डपे सर्षपेण, वस्त्रेण चात्र दृष्टान्तः / तथाहि-यथा सारण्या क्षेत्रे पाप्यमाने सारणीस्रोतसि तृणशूकमेकं तिर्यग्लग्नं, तैर्नाऽपनीतं, तन्निश्रया अन्यान्यपितृणशूकानि लग्नानि, तन्निःश्रया प्रभूतः पङ्को लग्नः। तत एवं तस्मिन् स्रोतसिरुद्ध क्षेत्रं समस्तमपिशुष्कम्। एवं स्तोकेनाऽऽपन्नेन पडेनाशोध्यमानेन चरणकुल्यानिरोधचरणक्षेत्रविनाशो भवति, तत एवं ज्ञात्वा स्तोकमपि प्रायश्चित्तस्थानमापन्नं वोढव्यमिति।शकटदृष्टान्तो यथा-एकः पाषाणः शकटे प्रक्षिप्तः सनापनीतः अन्यः प्रक्षिप्तः, सोऽपिनापनीतः, एवं प्रक्षिप्यमाणेषु भविष्यति स कोऽपि गरीयान् पाषाणो यस्मिन् प्रक्षिप्ते तच्छकट भक्ष्यति। एवं स्तोकेन स्तोकेन समापन्नेन प्रायश्चित्तस्थानेन शोध्यमानेचरणक्रमेण चारित्रशकटभज्यते। अथवाऽन्यथा शकटदृष्टान्तभावनाशक्टेएकं दारु भग्न तन्न संस्थापितमेवमन्यदन्यत्भग्रंनस्थापित