SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ परिसह 642 - अभिधानराजेन्द्रः - भाग 5 परिसह "ज्ञानमप्रतिघं यस्य, वैराग्य च जगत्पतेः। ऐश्वर्य चैव धर्मश्च, सहसिद्ध चतुष्टयम् / / 1 / / " इति कणादाऽऽदिपरिकल्पितसदाशिववदनाऽऽदिसंसिद्धेन, तस्य देहाऽऽदिविरहात तथाविधप्रयत्नाभावेनाऽऽख्यानायोगात। उक्त च-"वयणं नकायजोगाभावेण य सो अणादिसुद्धस्स।। / गहणम्मि य नो हेतू, सत्थं अत्ताऽऽगमो कह णु?१:1" भगवतंति च समग्रज्ञानश्वर्याऽऽदिसूचकेन सर्वज्ञतागुणयागित्वमाह / तथा च यत् कैश्चिदुध्यते- "हेयोपादेयतत्त्वस्य,साध्योपायस्य वेदकः / यः प्रमाणमसाविष्टो, नतु सर्वस्य वेदकः॥१॥" इति, तद्व्युदरतं भवति, असर्वज्ञा हिन यथावत्सोपायहेयोपादेयतत्वविद्भवति, प्रतिप्राणि भिन्ना हिमावानामुपयोगशक्तयः, तत्र कोऽपि कस्यापि कथमपि क्वाप्युपयोगीति कथं सोपायहेयोपादेयतत्त्ववेदन सर्वज्ञता विना सम्भवतीति, महावीरेणति शक्रकृतनाम्ना घरमतीर्थकरण, 'काश्यपेन' काश्यपगोत्रेण अनेन च नियतदशकालकुलाभिधायिना सकलदेशकालकलाव्यापिपुरुषाद्वैतनिराकरणं कृतं भवति। तत्र हि सर्वस्यैकत्वादयमाख्यालाऽरगै व्यारररोयमित्यादिविभागाभावत आख्यानरयैवाराम्भव इति, प्रविदिताः प्रकर्षण स्वयं साक्षात्कारित्वलक्षणेन ज्ञाताः, अनेन बुद्धिव्यवहितार्थपरिच्छेदवादः परिक्षिप्तो भवति, स्वयमसाक्षात्कारी हि प्रदीपहस्तान्धपुरुषव व्यतिरिक्तबुद्धियोगोऽपि कथ कञ्चनार्थ परिच्छेत्तुं क्षमः स्याद् ? एवं चैतदुक्तं भवति-नान्यतः धुरुषविशेषादेतेऽवगताः, स्वयं सम्बुद्धत्वादगवतः, नाप्यपौरुपेयाऽऽगमात् तस्यैवासम्भवाद, अपौरुषेयत्वं ह्यागमस्य स्वरूपापेक्षमर्थप्रत्यायनापेक्षं वा?, तत्र यदि स्वरुपापेक्षं तदा ताल्वादिकरणव्यापार विनवास्य सदोपलम्भप्रसङ्गः न चाऽऽवृतत्वात नोपलम्भ इति वाच्य, तरय सर्वथा नित्यत्वे आवरणस्याकिञ्चत्करत्वात, किञ्चित्करत्वे वा कथञ्चिद-नित्यत्वप्रसङ्गाद् अथार्थप्रत्यायनापेक्षम्, एवं कृतसङ्केता बालाऽऽदयोऽपि ततोऽर्थ प्रतिपद्येरन्निति नापौरुषेयाऽऽगमसम्भव इति। ते च कीदृशा इत्याह-यानिति परीपहान 'भिक्षुः' उक्तनिरुक्तः श्रुत्वा' आकर्ण्य, गुर्वन्तिक इति गम्यते। ज्ञात्वा' यथावदवबुद्ध्य, जिल्वा पुनः पुनरभ्यारोन परिचितान कृत्वा अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षाश्चर्या विहितक्रियासेवन भिक्षुचर्या, तया 'परिव्रजन्' समन्ताद्विहरन स्पृष्ट आश्लिष्टः, प्रक्रमात्परीपहरव, 'नो' व 'विनिहन्येत' विविधैः प्रकारैः संयमशरीरोधधातेन विनाश प्राप्नुयात्। पठन्ति च--'भिक्खायरियाए परिष्वयंता ति। भिक्षाचर्यायां-- भिक्षाऽटने परिव्रजन, उदीर्यन्ते हि भिक्षाऽटने प्रायः परीषहाः। उक्तं हि-- "भिक्खायरियाए वावीसं परीराहा उदीरिजंति।" इति, शेष प्राग्वत्॥ इत्युक्तउद्देशः। पृच्छामाहकयरे ते खलु वावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे मिक्खू सुच्चा नचा जिच्चा अभिभूय भिक्खायरियाए परिटायंतो पुट्ठो नो विनिहन्नेजा / / (कयरे) किं नामानः 'ते' अनन्तरसूत्राद्दिष्टाः 'खलुः वाक्यालङ्कार, शेष प्राग्वदिति। निर्देशमाह इमे खलु ते वावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सुच्चा नच्चा जिचा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विनिहन्नेजा। 'इमे' अनन्तर वक्ष्यमाणत्वाद् हदि विपरिवर्त्तमानतया प्रत्यक्षा इमे 'ने इति ये त्वया पृष्टाः, शेष पूर्ववत्॥ तं जहा-दिगिंछापरीसहे१, पिवासापरीसहे 2, सीयपरीसहे 3, उसिणपरीसहे 4, दंसमसगपरीसहे 5, अचेलपरीसहे 6, अरइपरीसहे 7, इत्थीपरीसहे 8, चरियापरीसहे 6 निसीहियापरीसहे 10, सिजापरीसहे 11, अक्कोसपरीसहे 12, वहपरीसहे 13, जायणापरीसहे 14, अलाभपरिसहे 15, रोगपरीसहे 16, तणफासपरीसहे 17, जल्लपरीसहे 18, सकारपुरकारपरीसहे 16, पण्णापरीसहे 20, अन्नाणपरीसहे 21, सम्मत्तपरीसहे 22 तथेत्युदाहरणोपन्यासार्थः, दिगिञ्छापरीषहः 1, पिपासापरीषहः 2, शीतपरीपहः 3, उष्णपरीषहः 4. देशमशकपरषिहः 5, अचेलपरीषहः 6, अरतिपरीषहः 7, स्वीपरीषहः 8, चर्यापरीषहः 6, नैषेधिकीपरीवहः 10, शय्यापरीषहः 11, आक्रोशपरीषहः१२, वधपरीषह:१३, याचनापरीषहः 14, अलाभपरीषहः 15. रोगपरीषहः 16, तृणस्पर्श-परीषहः 17, जल्लपरीषहः 18, सत्कारपुरस्कारपरीषह:१६, प्रज्ञापरीषहः 20, अज्ञानपरीषहः 21, दर्शनपरीषहः 22 / इह च-दिगिछति' देशीवचनेन बुभुक्षोच्यते, सेवात्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतथा आहारपरिपाकाऽऽदिवाञ्छाविनिवर्तनेन परीतिसर्वप्रकारं सह्यत इति परीषहः दिगिञ्छापरीषहः१, एवं पातुमिच्छा पिपासा, सैव परीषहः पिपासापरीषहः 2, 'श्यैड्' गतावित्यस्य गत्यर्थत्वात्कर्तरिक्तः, तता "द्रवमूर्तिस्पर्शयोःश्यः" (पा०६-१-२४) इति संप्रसारणे स्पर्शवाचित्वाच "स्योऽस्पर्श" (पा०८२-७) इति नत्वाभावे शीतं शिशिरः स्पर्शः तदेव परीषहः शीतपरीषहः 3, 'उष' दाहे इत्यस्यौणाऽऽदिकनकप्रत्ययान्तस्य उष्णं निदाघाऽऽदितापाऽऽत्मक तदेव परीपहः उष्णपरीषहः 4, दशन्तीति दंशाः पचाऽदित्वादध, मारायेतुं शक्नुवन्ति मशकाः, दंशाश्च मशकाश्च दंशमशकाः; यूकाऽऽद्युपलक्षणं चैतत् त एव परीषहो देशमशकपरीषहः 5; अचेलं चेलाभायो जिनकल्पिकाऽऽदीनाम, अन्येषां तु भिन्नमल्पमूल्य च चेलमप्यचेलमेव, अवस्त्राशीलाऽऽदीवत्, तदेव परीषहोऽचेलपरीषहः 6, रमणं रतिः संयमविषया धृतिः, तद्विपरीता त्वरतिः, सैव परीषहः अरतिपरीषहः 7. स्स्यायतेः स्तृणोतेर्वा टि टित्वाच डीपि स्त्री, सैव तद्गतरागहेतुगतिविभ्रमनिताऽऽकारविलोकनेऽपि "त्वगुधिरमांसमेद-स्नाय्वस्थिशिरावणैः सुदुर्गन्धम्। कुचनयनजघनवदनो-रूमूर्छितो मन्यते रूपम्॥१॥" तथा"निष्ठीवतं जुगुप्स-त्यधरस्थं पिबति मोहितः प्रसभम्। कुचजधनपरिश्रावं, नेच्छति तन्मोहितो भजते / / 2 / / "
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy