SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ परिग्गह 554 - अभिधानराजेन्द्रः - भाग 5 परिग्गह वाणि। (कुविय त्ति) कुप्यानि च गृहोपस्काराः खट्वा तुलाऽदयः, धनानि च गणिमाऽऽदीनि, धान्यपानभोजनाऽऽच्छादनगन्धमाल्यभाजनभ नानि च प्रतीतानि इति द्वन्द्वः / ततस्तेषां विधेः कार्यसाध्यमिति तत्पुरुषः / अतस्तं चैव बहु विधिकमनेकप्रकारं, तथा भरतं क्षेत्रविशेषो, नगाः पर्वताः, नगराणि करवर्जितानि निगमा वणिजां स्थानानि, जनपदा देशाः, पुरवराणि नगरैकदेशभूतानि, द्रोणमुखानि जल स्थलपथोपेतानि, खेटानि धूलीप्राकारोपेतानि, कर्वटानि कुनगराणि, मडम्बानि दूरस्थितसीमान्तराणि, संवाहाः स्थापन्यः पत्तनानि जलस्थलपथयोरन्यतरयुक्तानि, तेषां यानि सहस्राणि तैर्मण्डितं यत्तत्तथा, स्तिमितमेदिनीक निर्भयमेदिनीनिवासिजनम्, एकच्छत्रम् एकराजकमित्यर्थः / ससागरं समुद्रान्तमित्यर्थः / भुक्त्वा परिभुज्य, तथा वसुधां पृथ्वी भरतैकदेशभूतां च भुक्त्वा , एतद्भोगेऽपीत्यर्थः / (अपरिमितमणंततण्हमणुगयमहिच्छासारनिरयमूलो त्ति) अपरिमितानन्ता अत्यन्तानन्ता तृष्णा प्राप्तार्थसंरक्षणरूपा या चानुगता सतती महती चेच्छा अप्रातार्थाभिलाषरूपा ते एव साराणि अक्षय्याणि निरया निर्गतशुभफलानि मूलानि जटा यस्य परिग्रहतरोः / अथवा-अपरिमिता अनन्ततृष्णाया या अन्तुगता महेच्छासारा निरया च नरकहेतुर्विशिष्टवेगा वा सैव मूल यस्य स तथा / इह च मकारौ प्राकृतशैलीप्रभवौ चैवावधसमासश्चेति। लोभः प्रतीतः, कलिःसंग्रामः, कषायक्रोधमानमाया एत एव महान् स्कन्धो यस्य स तथा / इह च कषायग्रहणेऽपि यल्लोभग्रहणं तत्तस्य प्रधानत्वापेक्षम् / तथा चिन्ताश्च चिन्तनानि आयासाश्च मनःप्रभृतीना खेदाः त एव / पाठान्तरेणचिन्ताशतान्येव विनिचिता निरन्तरा विपुला विस्तीर्णा शाला शाखा यस्य स तथा / तथा (गारव त्ति) गौरवाणि ऋद्धयादिनाऽऽदरकरणानि, तान्येव (पविरेलिय ति) विस्तारवत् अग्रविटपं शाखामध्यभागाग्रं विस्तारं ग्रीवा यस्य स तथा। पाठान्तरेगौरवप्रविरेल्लिताग्रशिखरः। तथा (नियडियतया पत्तपल्लवधरो) निकृततयाऽभ्युपचारकरणेन वचनानि मायाकर्माऽऽच्छादनार्थानि वा मायाऽन्तराणि ता एव त्वक्पत्रपल्लवास्तान् धारयति यः स तथा पल्लव स्नेहकोमलं पत्रम् / तथा पुष्पं फलं यस्य (कामभोग त्ति) प्रतीतमेव / तथा (आयासवित्थरेण कलहपकंपियग्गसिहरो) आयासः शरीरखेदः,विसूरणा चित्तखेदः, कलहो वचनभण्डनम् / एत एव प्रकम्पितं प्रकम्पमानभनशिखरं शिखराग्रं यस्य स तथा / नरपतिसंपूजितो, बहुजनस्य हृदयदयित इति प्रतीतम् / अस्य प्रत्यक्षस्य मोक्षवरस्य भावमोक्षस्य मुक्तिरेव निर्लोभतैव मार्ग उपायो मोक्षवरमुक्तिमार्गस्तस्य परिघोपमो, विघातक इति यावत् / चरममधर्मद्वारम्, इति व्यक्तम् / अनेन च यादृश इति द्वारमुक्तम्। यन्नामेत्युच्यतेतस्स यनामाणि इमाणि गोणाणि हुंति तीसं। तं जहा परिग्गहो / 1 संचयो 2 चयो 3 उवचयो 4 निहाणं 5 संभारो ६संकरो / एवं आयारोप पिंडोह दव्वसारो 10 तहा महिच्छा 11 पडिबंधो 12 लोहप्पा 13 महिद्दी 14 उवकरणं 15 संरक्खणा य 16 भारो 17 संपायुप्पायको 18 कलिकरंडो 16 पवित्थरो 20 अणत्थो 21 संथवो 22 अगुत्ती 23 आयासो 24 अविओगो 25 अमुत्ती 26 तण्हा 27 अणत्थको 28 आसत्ती 29 असंतोसे त्ति विय 30 // तस्स एयाणि एवमादीणि नामधेज्जाणि हुंति तीसं॥ तस्य च नामानि गौणानि भवन्ति त्रिंशत् / तद्यथा-परिगृह्यत इति परिग्रहः शरीरोपध्यादिः, परिग्रहणं वा परिग्रहः स्वीकारः 1, संवीयत इति सञ्चयः 2 एवं चयः 3, उपचयो 4, निधानं 5, संभ्रियते धार्यते सम्भरणं वा धारणसंभारः 6, सङ्कीर्यते सम्पिण्ड्यते संकरणं वासम्पिण्डन वा संकरः 7 एवमादरः 8, पिण्डः पिण्डनीय पिण्डनं वा 6, द्रव्यलक्षणः सारः / तथा- महेच्छा अपरिमितवाञ्छा 11, प्रतिबन्धोऽभिष्यङ्ग : 12, लोभाऽऽत्मा लोभस्वभावः 13, महती इच्छा / क्वचित् 'महिद्दी'' इतिपाठास्तत्र- 'अई' गतौ याचने चेति वचनादर्दिर्याचा महती ज्ञानोषम्भाऽऽदिकारणविकलत्वादपरिमाणा अर्दिमहार्दिः 14, उप-करणम् उपधिः 15, संरक्षणाचाभिष्वङ्गवशाच्छरीराऽऽदिरक्षणं 16, भारो गुरुताकारणं 17. संपातानामनर्थमीलकानामुत्पादकःसम्पातोत्पादकः 18, कलीनां कलहानां करण्ड इव भाजनविशेष इव कलिकरण्डम् 16, प्रविस्तरो धनधान्याऽऽदिप्रविस्तारः 20, अनर्थोऽनर्थहतुत्वात् 21, संस्तवः परिचयः, स चाऽभिष्वङ्गहेतुत्वात्परिग्रहः 22, अगुप्तिरिच्छाया अगोपनम् 23, आयासः खेदः, तद्धेतुत्वात्परिग्रहोऽप्यायास उक्तः। आह च- "वहबंधणमाहणगाहा।" 24 अवियोगो धनाऽऽदेरत्यजनम् 25, अमुक्तिः सलोभता 26, तृष्णा धनाऽऽद्याकाङ्क्षा 27. अनर्थकः परमार्थवृत्त्या निरर्थकः 28 आशक्तिर्घनाऽऽदावासङ्गः 26, असन्तोषः 30, इत्यपि च, तस्य परिग्रहस्य एतानि प्रत्यक्षाणि एवमादीनि उक्तप्रकारवन्ति नामधेयानि भवन्ति त्रिशदिति। अथ ये परिग्रहं कुर्वन्ति, तानाहतं च पुण परिग्गहं ममायंति लोभघत्था भवणवर-विमाणवासिणो परिग्गहराई परिग्गहे विविहकरणबुद्धी देवनिकाया य असुरभुयगरारुलविज्जुजलणदीवउदहिदिसिपवणथणिअअणपन्नियपणपन्नियइसिवाइयभूयवाइयकं दियमहाकंदियकुहंडपतंगदेवा पिसायभूयजक्खरक्खसकिंनरकिं पुरिसमहोरगगंधवा य तिरियवासी पंचविहा जोइसिया य देवा बहस्सती चंदसूसुक्कसणिच्छरा राहू धूमकेऊ बुधा य अंगारका य तत्ततवणिज्जकणगवणा जे य गहा जोइसियम्मि चारं चरंति, के ऊ य गतिरतिया अट्ठावीसतिविहा य नक्खत्तदेवगणा णाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंड लगती उवरिचरा उड्डलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाणसणंकु मारमाहिंदबंभलोगलंतकमहासुक्कसहस्सारआणयपाणयआरणच्चुया कप्प
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy