SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ पडिबद्धसिज्जा 330 - अभिधानराजेन्द्रः - भाग 5 पडिबद्धसिज्जा अथ तृतीयभङ्ग माहउभओ पडिबद्धाए, भयणा पन्नरसियाएँ कायव्वा / दव्वे पासवणम्मिय , ठाणे रूवे य सद्दे य / / 476 / / उभयतो-द्रव्यतो, भावतश्चया प्रतिबद्धा वसतिः तस्यां पञ्चदशि-कायां | भजना भङ्गकरचना कर्तव्या / तद्यथा-द्रव्यतः प्रतिबद्धा, भावे च प्रस्रवणस्थानरूपैः प्रतिबद्धा न शब्देन / द्रव्यतः प्रतिबद्धा, भावतः प्रस्रवणस्थानशब्दः प्रतिबद्धा, नरूपेण / द्रव्यतः प्रतिबद्धा, भावे च प्रस्रवणस्थानाभ्यां प्रतिबद्धा। द्रव्यतः प्रतिबद्धा, भावतः प्रस्रवणरूपशब्दाभ्याम् 4 / एते चत्वारो भङ्गाः स्थानप्रतिबद्धयदेनापि च लभ्यन्ते, जाता अष्टौ भङ्गाः / एते प्रस्रवणप्रतिबद्धपदेन लब्धाः / एवं प्ररत्रवणाप्रतिबद्धपदेऽप्यष्टौ लभ्यन्ते, जाताः षोडश भङ्गाः। अत्र च षोडशो भगो द्रव्येण प्रतिबद्धः, भावतः पुनः प्रस्रवणाऽऽदिभिरित्येवलक्षणो नाधिक्रियते, उभयतः प्रतिबद्धाया अधिकारादत्र च भने भावतः प्रतिबद्धाया भावात् / ततो ये आद्या पञ्चदश भङ्गकाः तेषु तिष्ठतो दोषानाहउमओ पडिबद्धाए, ठायंते आणमाइणो दोसा। ते चेव पुव्वभाणिया, तं चेव य होइ वितियपयं / 477 / उभयतः प्रतिबद्धायां वसतौ तिष्ठतामाज्ञाऽऽदयश्च दोषाः / ये च प्रथमद्वितीयभङ्गयोः पूर्वं शब्दकरणाऽऽदय आत्मपरोभयसमुत्थाऽs - दयश्च दोषा भणिताः त एवाऽत्राऽपि समुदिता वक्तव्याः। यच्च प्रथमद्वितीयभड्गयोर्द्वितीयपदमुक्तं तदेवात्राऽपि ज्ञातव्यम् / गतस्तृतीयो भड्गः / चतुर्थस्तु भड्गो न द्रव्यतः प्रतिबद्धो, नापि भावतः इत्येवंलक्षणः / स चोभयथाऽपि निर्दोष इति न काचित्तदीया विवरणा। निर्ग्रन्थीनां प्रतिबद्धशय्यायां वासनिषेधः''नो कप्पइ निग्गंथीणं पडिबद्धसिज्जाए वत्थए।" अत्र भाष्यमएसेव कमो नियमा, निग्गंथीणं पि नवरि चउलहुगा। सुत्तनिवाओ निद्दो-सपडिबद्धे असइ उसदोसे // 47|| एष एव क्रमो द्रव्यभावोभयप्रतिबद्धव्याख्यापरिपाटिरूपो नियमाद निर्ग्रन्थीनामपि वक्तव्यः, नवरं प्रतिबद्धे तिष्ठन्तीना तासां चतुलघुकाः। नोदकः प्राऽऽह-यद्येवं तर्हि सूत्रं निरर्थकम् ? / आचार्यः प्राऽऽहसूत्रनिपातो निर्दोषप्रतिश्रये सति प्रायश्चित्तं सदोषप्रतिबद्धे द्रष्टव्यम्। अथ निर्दोषप्रतिबद्धो न प्राप्यतेऽतस्त-स्यासत्यभावे सदोषप्रतिबद्धेऽपि स्थातव्यम्। आऊजोयणमादी, दव्वम्मि तहेव संजईणं पि। नाणत्तं पुण इत्थी, नऽयासन्ने न दूरे य॥४७६॥ द्रव्यप्रतिबद्धे संयतीनामप्कायशकटयोजनाऽऽदयस्तथैव भवन्ति, परं तासां सागारिकनिश्रये तिष्ठन्तीनां न दोषः। (नाणत्तं पुण इत्थि त्ति) स पुनः प्रतिबद्धः स्त्रीभिरेव वसन्तीभितिव्यो, न पुरुषैः / एतन्निन्थेभ्यो निर्ग्रन्थीनां नानात्वं, स च संयतीना प्रतिश्रयः सागारिकगृहस्य नाऽत्यासन्ने, न चाऽतिदूरे भवति। तद्यथा अज्जियमादी भगिणी,जा यन्न सगोर अब्भरहियाउ। विहवा वसंति सागा-रियस्स पासे अदूरम्मि॥४८०।। आर्यिका पितामही वा, आदिशब्दाज्जनन्यादिपरिग्रहः / भगिनी प्रतीता, याश्वान्या अपि भ्रातृजायाप्रभृतयः सागारिकस्य शय्यातरस्याभयर्हिताः पूज्या विधवाः सागारिकगृहस्थपाचे अ दूरे वसन्ति, ताभिर्द्रव्यतः प्रतिबद्ध प्रतिश्रये वस्तव्यमिति। आह च - एयारिसगेहम्मी, वसंति वाणीउदव्वपडिबद्धे। पासवणादी य पया, ताहिँ समं होति जयणाए।।४८१।। एतादृशे गेहे स्त्रीमिर्द्रव्यतः प्रतिबद्धे वतिन्यो वसन्ति, तत्र च स्थताः प्रस्रवणाऽऽदीनि पदानि यतनया वारकग्रहणाऽऽदिरूपया ताभिः, सम कुर्वन्ति, एतन्निर्दोषं द्रव्यप्रतिबद्धमुच्यते। नोदकःप्राऽऽहयद्यत्राप्यप्कायशकटयोजनाऽऽदीन्यधिकरणानि भवन्ति ततः कशं निर्दोष भवतीत्युच्यतेकामं अहिगरणादी, दोसा वयणीण इत्यियासुं पि। ते पुण हवंति सज्झा, अणिस्सियाणं असज्झा उ॥४२॥ काममनुमतमस्माकं यदधिकरणाऽऽदयो दोषा व्रतिनीनां स्त्रीप्रतिबद्धे भवन्ति, परं ते पुनः दोषाः साध्याः। "आपुच्छण आवासिय, आसज्ज निसीहि वा य जयणाए। (452)" इत्यादि-गाथोक्तया यतनया तेषां परिहर्तुं शक्यत्वात् / ये तु तासामनिः श्रितानां तरुणाऽऽदिसमुत्थिता दोषा भवन्ति ते असाध्याः / असाध्यदोषपरिहारेण च साध्यदोषानाद्रियमाणाना यतनया च तत्परिहारं कुर्वतीनां न कश्चिद्दोषः उक्तो द्रव्यप्रतिबद्ध विधिः। अथ भावप्रतिबद्धे विधिमाहपासवणठाणरूव-सदा य पुमं समस्सिया जे उ। भावनिबंधो तासिं, दोसा ते तं च विइयपदं॥४५३।। ये च प्रस्रवणस्थानरूपशब्दाः पुमासं पुरुषमाश्रितास्तैः, प्रतिबद्धा या शय्या तस्यां, तासां साध्वीनां भावनिबन्धः, सा भावप्रतिबद्धेति भावः। अथ च दोषास्त एव पूर्वोक्ताः , द्वितीयपदमपि तदेव मन्तव्यम्। यस्तु विशेषस्तमुपदर्शयतिविइयपयकारणम्मी, भावे चिटुंति पूवलियखाए। तत्तो ठाणे रूवे, काइयसविकार सद्दे य॥४८४।। द्वितीयपदे कारणे अध्वनिर्गमनाऽऽदौ निर्दोषोपाश्रयस्याप्राप्तौ भावप्रतिबद्धे तिष्ठत्यः प्रथमं पूपलिकाखादस्य वक्ष्यमाणशब्दस्य प्रतिबद्धे तिष्ठन्ति, ततस्तस्यैव स्थानप्रतिबद्ध रुपप्रतिबद्धे कायिक्या वायुकायस्य वायोर्युत्सृजतः शब्दो भवति, तेन सविकारे सदोष तथैव प्रस्रवणप्रतिबद्धे तिष्ठन्ति। पूपलिकाखादकस्य स्वरूपमाहनउइ-सयाऊओ वा, खट्टामल्लो अजंगमो थेरो। अन्नेण उट्ठविजइ, भोइज्जइ सो य अन्नेणं / / 485|| यः स्थविरो नवतिवार्षिको वा शताऽऽयुष्को वा, संपन्न - शतवर्ष इत्यर्थः / खट्टामलो नामप्रबलजराजर्जरितदे हतया यःखटाया उत्थातुं न शक्नोति, अत एवाऽसावजङ्गमः अन्येन
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy