SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 266 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण इतिवृत्वा तमुवसंपन्न इत्यादि पूर्ववदिति / (समाधि भेदाः 'समाहि शब्दे वक्ष्यन्ते! पंचेव य कामगुणे, पंचेव य अण्हवे महादोसे। परिवज्जतो गुत्तो, रक्खामि महव्वए पंच // 10 // पथेट मनोज्ञशब्दरूपरसगन्धस्पर्शभेदाःपञ्चसंख्या एव, चशशब्दोऽर्थान्तराभिधानसमुच्चयार्थः / के इत्याह-काम्यन्ते रागाऽऽतुरेः प्राणिभिरभिकाड्यन्त इति कामा अभिलषणीयपदार्थाः, त एवाऽऽत्मसंयमनकहेतुत्वाद् गुणाःसूत्रतन्तवः, आत्मगुणोपघातकारणत्वाद्वा गुणाः कामगुणाः / अथवा-कामस्य मदनस्थाभिलाषामात्रस्य वा संपादका गुणा धर्माः पुद्रलाना कामगुणाः, ते चानर्थहेतवः। (पा०) (तेषामनर्थहेतुत्व 'कामगुण' शब्दे तृतीयभागे 434 पृष्ठे दर्शितम्) तान् कामगुणान् परिवर्जयन्निति योगः। तथा-पञ्चैव प्राणितिपातमृषावादादत्ताऽऽदानमैथुनपरिगहभेदात्पञ्चसंख्या एवं, चः समुच्चये। केइत्याह-आस्नात्यादत्ते कम्र यस्ते अस्नवा आसवा इत्यर्थस्तान, किंविधानित्याह-महान्तश्च ते दोषाश्च महादोषाः, दारुणदुःखहेतुत्वात्प्रकृष्टदूषणानि तान् / शेष पूर्ववदितिः तथापंचिंदियसंयरणं, तहेव पंचविहमेव सज्झायं / उवसंपन्नो जुत्तो, रक्खामि महव्वएपंच / / 11 / / तत्र इन्दनादिन्द्रो जीवः सर्वविषयोपलब्धिभोगलक्षणपर-मैश्वर्ययोगात्, तस्य लिङ्ग मिति इन्द्रियं श्रोत्राऽऽदि / तच्च द्विविधम् द्रव्येन्द्रियम, भावेन्द्रियं च / (पा०) (इन्द्रियस्य सर्वोऽप्यधिकारः,तद्भेदाश्च 'इदिय' शब्दे द्वितीयभागे 548 पृष्ठे गताः) पञ्च च तानीन्द्रियाणि, तेषां संवरणं इष्टानिष्टविषयेषु रागद्वेषाभ्यां प्रवर्तमानानां निग्रहणं पञ्चेन्द्रियसंवरणं तदुपर पन्नः / (तहेव त्ति) तथैव तेनैव प्रकारेण पञ्चविधमेव वाचनाप्रच्छन्नापरिवतर्नाऽनुप्रेक्षाधर्मकथाभेदात्पञ्चप्रकारमपि, तर वक्ति शिष्यस्त पति गुरोः प्रयोजकभावो वाचना, पाठनमित्यर्थः / गृहीतवाचनेनापि संशयाऽऽद्युत्पत्तौ पुनः प्रष्टव्यमिति पूर्वाधीतस्य सूत्राऽऽदेः शङ्कि-ताऽऽदौ प्रश्नः प्रच्छनेति। प्रच्छनाविशोधितस्य मा भूद्विस्मरणमिति परिवर्तना, सूत्रस्य गुणनमित्यर्थः / सूत्रयदर्थेऽपि संभवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्तनिकेत्यर्थः / एवमभ्यस्तश्रुतेन धर्मकथा विधेयेति धर्मस्य श्रुतरूपस्य कथा व्याख्या धर्मकथेति / एवं पञ्चविध किमित्याह- (सज्झायं ति) शोभनमा मर्यादयाऽध्ययनं श्रुतस्याधिकमनुसरणं स्वाध्या-यस्तमुपसंपन्न इत्यादि पूर्ववदिति। तथाछज्जीवनिकायवह, छप्पि य भासाउ अप्पसत्थाउ। परिवज्जतो गुत्तो, रक्खामि महव्वए पंच ||12|| षड्जीवनिकायानां पृथ्वीकायाऽप्कायतेजः कायवायुकायवनस्पतिकायत्रसकायलक्षणषद्विधप्राणिगणाना वधो विनाश षड्जीवनिकायवधरतं, तथा षडपिच अलीकाऽऽदिभेदात् षट्सङ्ख्याः अपि च / काः? इत्याह-भाष्यन्ते प्रोव्यन्ते इति भाषाः वचनानीत्यर्थः / ताः किंविशिष्टा इत्याह-अप्रशस्ता गुरुकर्मबन्धहेतुत्वादसुन्दराः / (पा०) भाषाभेदाः 'भासा' शब्द] शेषं प्राग्वदिति। तथाछव्विहमडिभतरयं, बज्झं पि य छव्विहं तवोकम्म। उवसपन्नो जुत्तो, रक्खामि महव्वए पंच॥१३॥ षद्धिधं प्रायश्चित्तविनयवैयावृत्यस्वाध्यायध्यानोत्सगभेदात्षट् - प्रकारम् / (अडिभतरय ति) लौकिकैरनभिलक्ष्यत्वात्तन्त्रान्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाचाऽऽभ्यन्तरं, तदेवाऽऽभ्यन्तरक, तपःकर्मेति योगः / (पा०) (बज्झं पि य छविहं तवो कम्मभिति) बाह्यमित्यासेव्यमानस्य लौककैरपि तपस्तया ज्ञायमानत्वात्प्रायो बहिः शरीरतापकत्वाद्वेति बाह्यमपि चेतिसमुच्चये, षड्डिधमनशनाऽवमादरिकावृत्तिसङ्के परसपरित्यागकायक्लेशप्रतिसंलीनताभेदात्षट्प्रकारम् / किं तदित्याह-तपति दुनोति शरीरकर्माणीति तपस्तस्य कर्म क्रिया तपः कर्म, तपोऽनुष्ठानमित्यर्थः / तत्रानशनमभोजनमाहार त्याग इत्यर्थः / (पा०)। तपःकर्मविषये 'तवोकम्म' शब्दः चतुर्थभागे 2211 पृष्टान्तर्गती द्रष्टव्यः) "उवसंन्नो" इत्यादि पूर्ववदिति / तथासत्त भयहाणाई, सत्तविहं चेव नाणविन्भंग। परिवज्जंतो गुत्तो, रक्खामि महव्वए पंच॥१४|| सप्तेहलोकाऽऽदिभयभेदात्सप्तसंख्यानि, भयं मोहनीयप्रकृति-समुत्थ आत्मपरिणाम: तस्य स्थानान्याश्रया भयस्थानानि / (पा०) (भयस्थानभेदवक्तव्यता 'भयट्टाण' शब्दे वक्ष्यते) तथा-सप्तविधमेव सप्तप्रकारमेव (नाणविभंगति) पूर्वापरनिपातनाद्विभङ्गज्ञानं, तत्र विरुद्धो वितथो वा, अयथावस्तुविकल्पो यस्मिस्तद्विभङ्ग, तच तज्ज्ञानं च साकारत्वादिति विभङ्ग ज्ञान, मिथ्यात्वसहितावधिरित्यर्थः / (पा०) विभङ्ग ज्ञानवक्तव्यता 'विभंगणाण' शब्दे) (परिवज्जतो त्ति) विभङ्गज्ञानोपलब्धार्थ-प्ररूपणां परिहरन्नित्यर्थः / “गुत्तो'' इत्यादि पूर्ववदिति। तथापिंडेसण पाणेसण, उग्गह सत्तिक्कया महज्झयणा। उवसंपन्नो जुत्तो, रक्खामि महव्वए पंच ||15|| पिण्डःसमयभाषया भक्तं, तस्यैषणा ग्रहणप्रकाराः पिण्डषणाः। (पा०) (पिण्डेषणाविस्तरः 'पिडसणा' शब्दादवगन्तव्यः) पानैषणा अप्येता एव, नवर चतुर्थ्या नानात्व, तर ह्यायामसौवीरकाऽऽदि निर्लेपं विज्ञेयमिति। (पानैषणाविषयः पाणेसणा' शब्दादवगन्तव्यः) (उग्गह त्ति) सूचकत्वादवग्रहप्रतिमा-अवगृहात इत्यवग्रहो वसतिः तत्प्रतिमा अभिग्रहा अवः हप्रतिमाः। (पा०) [सत्तिक्कय ति सप्त सप्तैकका अनुद्देशकत्यैकसरत्वेनैकका अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपाः, ते चे समुदायतः सप्तेति कृत्वा सप्तैकक अभिधीयन्ते, तेषामेकोऽपि सप्तै कक इति व्यपदिश्यते, तथैनामत्वात् (पा०) | सप्तककानां वक्तव्यता ‘सत्तिक्कय' शब्द वक्ष्यते] पमहज्झयण त्ति] सूत्रकृताङ्ग स्य द्वितीय श्रुतस्कन्महान्ति प्रथमश्रुतस्कधाध्य-यनेभ्यः सकाशाद्ग्रन्थतो बृहन्त्यध्ययनानि (पा०)[अत्र विस्तरः सूयगड' शब्दे "उवसंपन्नो जुत्तो' इत्यादि सूत्रं तु प्राग्वदिति। अट्ठ मयट्ठाणाई, अट्ठ य कम्माई तेसि बंधं च / परिवज्जंतो गुत्तो, रक्खामि महव्वए पंच / / 16||
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy