SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण 262 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमम प्रतिनिवृत्तौ, उत्त० 26 अ०। स्था० / प्रा०। मिथ्यादुष्कृतदाने, ग०१ अधि० स्था० / पं०सू० / व्य० / पञ्चा०। प्रव० / भ० / प्रतिक्रामकप्रतिक्रान्तव्यौ / प्रतिक्रामकव्याख्या- "थुइमंगल'' स्तुतित्रयम्। (1) इह च यथा करणात् कर्मकोंः सिद्धिः तद्व्यतिरेकेण करणत्वानुपपत्तेः, एवं प्रतिक्रमणादपि प्रतिक्रामकप्रतिक्रान्तव्यसिद्धिरित्यतस्त्रितयमप्यभिधित्सुराह नियुक्तिकारः - पडिकमणं पडिकमओ, पडिकमिअव्वं च आणुपुव्वीए। तीए पच्चुप्पन्ने, अणागए चेव कालम्मि।।१।। प्रतिक्रमणं निरूपितशब्दार्थम्, तत्र प्रतिक्रमयतीति प्रतिक्रामकः कर्ता, प्रतिक्रमितव्यं च कर्म अशुभयोगलक्षणमानुपूर्व्या परिपाट्या अतीते अतिक्रान्ते प्रत्युत्पन्ने वर्तमानेऽनागते चैव एष्यते, काले प्रतिक्रमणाऽऽदि योज्यमिति वाक्यशेषः / आह-प्रतिक्रमणमतीतविषयम् / यत उक्तम्"अतीतं पडिक्षमामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि।" इति। तत्कथमिह कालत्रये योज्यते इति ? / उच्यते-प्रतिक्रमणशब्दो ह्यशुभयोगविनिवृत्तिमात्रार्थः सामान्यशब्दः परिगृह्यते, तथा च सत्यतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाऽशुभयोगविनिवृत्तिरेव प्रत्युत्पन्न विषयमपि संवरद्वारेणाऽशुभयोगनिवृत्तिरेव अनागतविषयमपि प्रत्याख्यानद्वारेणाऽशुभयोगनिवृत्तिरेवेति न दोष इति गाथाऽक्षरार्थः / / 2 / / __साम्प्रतं प्रतिक्रामकस्वरूपप्रतिपादनायाऽऽहजीवो उ पडिक्कमओ, असुहाणं पावकम्मजोगाणं / झाणपसत्था जोगा, जो तेन पडिक्कमे साहू ||2|| जीवः प्राइनिरूपितशब्दार्थः / तत्र प्रतिक्रामतीति क्रामकः, तुशब्दो विशेषणार्थः। न सर्व एव जीवः प्रतिक्रामकः, किं तर्हि सम्यग्दृष्टिरुपयुक्तः / केषां प्रतिक्रामकः ? अशुभानां पापयोगानामसुन्दराणां पापकर्मव्या-. पाराणामित्यर्थः / आह-पापकर्मयोगा अशुभा एव भवन्तीति विशेषणानर्थक्यम्, न, स्वरूपान्वाख्यानपरत्वादस्य, प्रशस्तौ चतौ योगौ च ध्यान च प्रशस्तयोगौ च ध्यानप्रशस्तयोगा ये तानधिकृत्य न प्रतिक्रमेत न प्रतीपं वर्तेत साधुः, अपितुतान् सेवेत, मनोयोगप्राधान्यख्यापनार्थ पृथग् ध्यानग्रहणं, प्रशस्तयोगोपादानाच ध्यानमपि धर्मशुक्लभेदं प्रशस्तभवगन्तव्यम् / आह- "यथोद्देश निर्देशः' इति न्यायमुल्लङ्घय किमिति प्रतिक्रमणमनभिधीय प्रतिक्रामक उक्तः ? / तथाऽऽद्यगाथागतमानुपूर्वीग्रहणं चातिरिच्यत इति ? / उच्यते-प्रतिक्रामकस्याल्पवक्तव्यता तत्कञधीनत्वाच क्रियाया इत्यदोषः। इत्थमेवोपन्यासः कन्मान्न क्रियत इति चेत् ? प्रतिक्रमणाध्ययनावामनिष्पन्ननिक्षेपप्रधानत्वात्तस्येत्यलं विस्तरेणेति गाथार्थः / उक्तः प्रतिक्रामकः। साम्प्रतं प्रतिक्रमणस्यावसरस्तच्छब्दार्थ पर्यायैयाचिख्यासु निमित्तं वा उपयुक्तस्य निवस्य पुस्तकाऽऽदिन्यस्तं वा क्षेत्रप्रतिक यस्मिन क्षेत्रे व्यावय॑ते क्रियते वा, यतो वा प्रतिक्रम्यते खलाऽऽदेरिने कालप्रतिक्रमण द्वेधा ध्रुवम, अध्रुवं च। तत्र धुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेष्वपराधो भवतु यानाः ध्रुवमुभयकालं प्रतिक्रम्यते। मध्यमतीर्थकरतीर्थेषु तु अध्रुवं कारराज प्रतिक्रमणमिति। भावप्रतिक्रमणं द्वेधाप्रशस्तं, चाप्रशस्तं च। अन्धन मिथ्यात्वाऽऽदेः, प्रशस्तं सम्यक्ता ऽऽदेरिति / अथवौधत एवौषयुक्तक सम्यग्दृष्टेरिति प्रशस्तेनात्राऽधिकारः / प्रतिचरणा व्याख्यायते- 'उः गतिभक्षणयोरित्यस्य प्रतिपूर्वस्य ल्युडन्तस्य प्रतिचरणेति भी प्रतीतेषु तेष्वर्थेषु चरणं गमनं तेन तेनाऽऽसेवनाप्रकारेणेति ! आदः। अ०। आ०म०। (प्रतिचरणाऽऽदीनां व्याख्या स्वस्वस्थाने सम्प्रति विनेयानुग्रहाय प्रतिक्रमणाऽऽदिपदानां यथाक्रमं दृष्टान्त प्रतिपादयन्नाहअद्धाणे पासाए, दुद्धकाए विसभोअण तलाए। दो कन्नाओ पइमारि-आ य वत्थं अ अगए अ॥१२॥ अध्वानःप्रासाद दुग्धकायःविषभोजनतडाग द्वे कन्ये पतिमारिक वस्त्रं चागदश्च। आव०४ अ०। तत्र प्रतिक्रमणेऽध्वदृष्टान्तः"पुरे क्वाऽपि नृपः कोऽपि, सौधं कर्तुमना बहिः। सूत्रमाच्छोटयद्भव्ये, दिने न्यास्थ चव रक्षकान् // 1 // ऊचे च यदि कोऽप्यत्र, प्रविशेन्मार्य एव सः। अपसर्पत्पदैस्तैश्वे-तैरेव मोच्यः पुमानसौ।।२।। व्याक्षिप्तानां च तेषां द्वौ, ग्राम्यौ प्राविशतां नरौ / रक्षकैर्दूरगर्दृष्टा-वुक्तौ तौ कम्पितासिभिः / / 3 / / अरे! प्रविष्टौ किमिह, धृष्ट एकोऽवदत्तयोः / दोषः कोऽत्रेति निस्त्रिशै-नश्यंस्तत्र हतः स तैः / / 4 / / भीतो द्वितीयस्तेष्वेव, पदेष्वस्थाद्वभाण तान। अजानन प्राविश मा मा, हतस्वाऽऽदेशकारिणम / / 5 / / उक्तस्तैर्यदि तैरेव, पदैस्त्वमपसर्पसि। तन्मुक्तिस्तेऽय भीतोऽसौ, तथाऽकार्षीदमोचि तैः / / 6 / / भोगभोगी स संजज्ञे-ऽनाभोगी च परोऽभवत्। इयं द्रव्यप्रतिक्रान्ति-भवि चोपनयः पुनः / / 7 / / राजा तीर्थकरोऽध्वा च, संयमो रक्ष्य इत्यवक्। ग्राम्येणेव व्यतिक्रान्तः, स एकेन कुसाधुना।।८।। सहतो रक्षकै राग-द्वेषाऽऽधैः सुचिरं भवे। लप्सते दुर्मतिर्जन्म-मरणानि पुनः पुनः // 6 // यस्तु प्रमाददोषेण, जात्वतिक्रान्तसंयमः। प्रतिक्रामति संसार-भीरुस्तैरेव दण्डकैः / / 10 / / स निर्वाणसुखाऽऽभोगी, जायते मुनिपुङ्गवः / असौ प्रतिक्रमणायां, दृष्टान्तो दर्शितोऽधुना / / 11 / / आ०क०४ अ०1 साम्प्रतं प्रत्यहं यथा श्रमणेनेयं शुद्धिः कर्तव्या तथा मा आकलन चेतसि निधाय प्रतिपादयन्नाहआलोअणमालुंचण-विअडीकरणं च भावसोही / राह पडिक्रमणं पडिचरणा, परिहरणा चारणा निअत्ती / निंदा गरिहा सोही, पडिक्रमणं अट्ठहा हाइ॥३॥ प्रतिक्रमणं तत्त्वतो निरूपितमेवाधुना भेदतो निरूप्यते, तत्- | पुनर्नामाऽऽदिभेदतः षोडा भवति / तथा चाऽऽहनामं ठवणा दविए, खित्ते काले तहेव भावे अ। एसो पडिकमणस्सय, निक्खेवो छव्विहो होइ।।४।। तत्र नामस्थापने गतार्थे; द्रव्यप्रतिक्रमणमनुपयुक्तसम्यग् दृष्टलष्ट्यादि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy