SearchBrowseAboutContactDonate
Page Preview
Page 1619
Loading...
Download File
Download File
Page Text
________________ भोयण 1611 - अभिधानराजेन्द्रः - भाग 5 भोयण जनावसरविषयम्। नियमादवश्यन्तया। किंभूतमित्याह-गुरूणां मातापितृधाऽऽचार्यदेवतालक्षणानां, प्रतिपत्तिरुचितपूजाप्रमुखाद्या यस्य परिवारग्लानप्रतिचारणाऽऽदेः, स तथा तम्। अनेन च शोभितत्वं प्रत्याख्यानस्योक्तम् / यदाह-- "गुरुदाणसेस-भोयणसेवणयाए उ सोहियं जाण। तथा-मङ्गलपाठाऽऽदिकं चैव पञ्चनमस्कारपठनप्रभृतिकमेव च, आदिशब्दाशर्ममङ्गलाऽऽदिप्रशस्तश्रुतपरिग्रहः / इति गाथाऽर्थः / / 37 / / तथासरिऊण विसेसेणं, पच्चक्खायं इमं मए पच्छा। तह संदिसाविऊणं, विहिणा मुंजंति धम्मरया / / 38|| स्मृत्वा-- अनुचिन्त्य, विशेषेण भोजनकालात्प्राचीन-सामान्यस्मरणापेक्षया विशेषतः / कि तदित्याह- प्रत्याख्यातमभ्युपगतम्, इदं नमस्कारसहिताऽऽदिकम्, मयेत्यात्मनिर्देश / कदा प्रत्याख्यातमित्याह - पश्चात्पूर्वकाले भोजनकालापेक्षया, अनेन चास्य कीर्तितत्वमुक्तम्। आह च- "भोयणकाले अमुगं,पच्चक्खायति भुंज किट्टिययं / ' तथेति क्रियान्तरसमुच्चये / संदेश्य संदिशन्तमनुजानन्तमाचार्यमनु प्रयुज्य संदिशत यूयं मां येन पारयामीत्येवमनुज्ञाप्येत्यर्थः / विधिनाऽनेनैवोक्तरूपेण भोजनविधिना वा स्थानविशेषाऽऽश्रयणाऽऽदिना / ताशा.. "ठाण दिसिं पगासणया, भायण पक्खेवणा य गुरु भावे / सतविही आलोओ, सया वि जयणा सुविहियाणं / / 1 // " भुञ्जतेऽश्रन्ति, धर्मरताश्चारित्रधर्माऽऽसक्तचित्ता इति गाथाऽर्थः / / 38|| उक्त भोगद्वाम् / पञ्चा० 5 विव०तथा-काले बुभुक्षोदयावसरलक्षणे सात्म्यात् 'पानाऽऽहाराऽऽदेथा यस्याऽविरुद्धाः प्रकृतेरपि / सुखित्वाय च कल्प्यन्ते तत्सात्म्यमिति गीयते॥१॥" इत्येवं लक्षणादलौल्यतश्च, चकारो गम्यः, आकाङ्क्षातिरेकादधिकभोजनलक्षणलौल्यत्यागात् भुक्ति जनम् / अयमभिप्रायः-आजन्मसात्म्येन भुक्तं विषमपि पथ्यं भवति, परमासाम्यमपि पथ्यं सेवेतन पुनः सात्म्यप्राप्तमप्यपथ्यं, सर्व बलवतः पथ्यमिति मन्वानः कालकूट खादन् सुशिलितो हि विषतन्त्रज्ञो मियत एव कदाचिद्विषात, सात्म्यमपि च लौल्यपरिहारेण यथाग्निबलमेव भुजीत, अतिरिक्तभोजनं हि वमनविरेचनमरणादिना न साधु भवति, "यो हि मितं भुक्ते स बहु भुक्त।" अक्षुधितेन ह्यमृतमपि भुक्तं भवति विष, तथा क्षुत्कालातिक्रमादन्नद्वेषो देहसादश्च भवति, वि ध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति।।१७।। (10 श्लोक) ध०१ अधिवा (आहारग्रहणस्य संपूर्णोऽधिकारः 'गोयरचरिया, शब्दे तृतीयभागे 1003 पृष्ठे गतः) इह तत आगतस्य भोजनविधिः / इदानीं स्थानविशोधि व्याख्यानयन्नाहउवरि हेवा य पमजिऊण लढेि ठवेज्ज सट्ठाणे। पट्ट उवहिस्सुवरिं, भायणवत्थाइँ भाणेसु // 264 / / उपरि कुड्यस्थाने अधस्ताच भुवं प्रमृज्य पुनश्च स्वस्थाने यष्टिं स्थापयेत्, पुनश्च पट्टकं चोलपट्टकम् उपधेरुपरि स्थापयेत्, मुञ्चति भाजनवस्त्राणि च, पटलानि भाजनेषु पात्रोपरि स्थापयति जइ पुंण पासवणं से, हवेज तो उग्गहं सपच्छागं। दाउं अन्नस्स स चोलपट्टओ काइयं णिसिरे।।२३५|| यदि पुनस्तस्य साधोः प्रश्रवण कायिकाऽऽदिर्भवति ततश्च अवग्रह पतद्ग्रह संपच्छागं सपटलं दातुं समर्च अन्यस्य साधोः पुनश्च सह चोलपट्टकेन चोलपट्टकद्वितीयः कायिकां व्युत्सृजति, कायिका व्युत्सृज्य कायोत्सर्ग करोति। तत्र च को विधिरित्यत आहचउरंगुलमुहपोत्ती, उज्जुयए वामहत्थिरयहरणं / वोसट्ठचत्तदेहो, काउंस्सगं करेज्जाहि।।५१०॥ चतुर्भिरड्गुलर्जानुनोरुपरि चोलपट्टकं करोति नाभेश्व अधश्चतुर्भिरगुलैः पादयोश्चान्तरं चतुरङ्गुलं कर्तव्यं, तथा मुखवस्त्रिकामुज्जुगे दक्षिणहस्तेन गृह्णाति वामहस्तेन च रजोहरण गृह्णाति, पुनरसी व्युत्सृष्टदेहः प्रलम्बितबाहुस्त्यक्तदेहः सर्पाऽऽद्युपद्रवेऽपि नोत्सारयति कायोत्सगम्, अथवा-- व्युत्सृष्टदेहः दिव्योपसर्गेष्वपि न कायोत्सर्गभङ्गं करोति, त्यक्तदेहः अक्षिमलदूषिकामपि नाऽपनयति, स एवं-विधः कायोत्सर्ग कुर्यात्। इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयन्नाहचउरंगुलमप्पत्तं, जाणुगहेट्ठा छिवोवरिं णाभिं। उमओ कोप्परधरियं, करेन्ज पट्टं च पडलं वा // 266|| चतुर्भिरगुलैरधोजानुनी अप्राप्तः चोलपट्टको यथा भवति तथा नाभि च उपरि च तुर्भिरङ्गुलैर्यथा न स्पृशति, उभयतो बाहुकूपराभ्यां धृतं करोति, पट्टकंचोलपट्टकं पडलं वा उभयकूर्परधृतं करोति, यदा चोलपट्टकः सच्छिद्रो भवति तदा पटलं गृह्णाति। पुवुद्दिष्टे ठाणे, ठाउं चउरंगुलंतरं काउं। मुहपोत्ति उज्जुहत्थे, वामम्मि य पादपुंछणयं / / 511 / / पूर्वोद्दिष्टमेव कायोत्सर्गस्थानं तस्मिन् स्थित्वा तथा पादस्य चान्तरं चतुरडगुलं कृत्वा मुखवस्त्रिका च दक्षिणहस्ते कृत्वा वामहस्ते पादपुञ्छनकरजोहरणं कृत्वा कायोत्सर्गेण तिष्ठति। काउस्सग्गम्मि ठिओ, चिंते समुयाणिए अईयारे। जा णिग्गमप्पवेसो, तत्थ उ दोसे मणे कुजा॥५१२॥ पुनश्च कायोत्सर्गेण व्यवस्थितः चिन्तयेत् 'सामुदानिकानतीचारान' भिक्षातिचारानित्यर्थः / कस्मादारभ्य चिन्तयत्य-तिचारान्? निर्गमादारभ्य यावत्प्रवेशो वसतौ जातः, अस्मिन्नन्तराले तत्र दोषा ये जातास्तान मनसि करोति स्थापयति चेतसि। ते उ पडिसेवणाए, अणुलोमा होति वियडगाए य। पडिसेववियडणाए, एत्थनु चउरो भवे भंगा / / 513 / / तांश्वातिचारान् प्रतिसेवनाऽनुलोम्येन यथैव प्रतिसेविता स्तेनै - वानुक्रमेण कदाचिचिन्तयति, तथा (वियडणाए त्ति) विकटना आलोचना तस्यां चानुलोमानेव चिन्तयति। एतदुक्तं भवति- “पढम लहुओ दोसो पडिसेविओ पुणो वड्डो वड्डुतरो, चिंतेइ एवमेव" ततश्च प्रतिसेवनाया अनुकूलम्, आलोचनायामपि अनुकूलमेव, यतः प्रथम लघुको दोषः आलोच्यते पुनर्बहत्तरः पुनर्बहत्तम इति एष
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy