SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पच्छित्त 131 - अभिधानराजेन्द्रः - भाग 5 - पच्छित्त त्ति) विवेचनात्तस्यैव पारिष्ठापनाद्विवेकाभिधानभावचिकित्सारूपच्छोणितनिगालनकल्पात, चतुर्थेऽतिचारशल्यविशेषे, शुद्ध्यतीति प्रकृतमिते॥१७॥ उस्सग्गेण विसुज्झति, अइयारो कोइ कोइ उ तवेणं / तह वि य असुज्झमाणे, छेयविसेसा विसोहंति॥१८॥ उत्सर्गेणापि कायोत्सर्गाभिधभावचिकित्साविशेषेणाऽपि चेष्टानिरोधकल्पेन, न केवलं विवेकेन, शुद्ध्यत्यपैति, अतिचारोऽतिक्रमः, पञ्चमशल्यकल्पः। कोऽपि कश्चिद् दुष्टस्वप्नाऽऽदिः, न तु सर्वोऽपि / तथा कोऽपिएकश्चित् पुनरतिचारः पृथिवीसंघट्टनाऽऽदिषष्ठशल्यकल्पः। तपसा निर्विकृति काऽऽदिना षण्मासावसानेन भावचिकित्साविशेषण हितमितभोजनाभोजनकल्पेन, तथाऽपि च तेनापि च प्रकारेण तपोरूपेण, अशुद्ध्ययनपगच्छत्यतिचारशल्येऽतिचारशल्यजनिते वा भावव्रणे, छदविशेषाः श्रामण्यपर्यायच्छेदप्रकाराः पञ्चरात्रिंऽऽदिवाऽऽदयो भावचिकित्साविशेषाः पूतिमांसास्यिच्छेदकल्याः, विशोधपन्त्यतिचारशल्यमपनयन्ति,तज्जन्यभावव्रणं वा नीरूजयन्ति, छेद-विशेषाद्वा विशोधयन्त्याचार्याः / इति गाथात्रयार्थः॥१८॥ कथं पुनश्छेदविशेषभ्योऽपराधशद्धिर्भवठीत्यत आहछिज्जति दूसियभावो, तहोमरायणियभावकिरियाए। संवेगादिपभावा, सुज्झइ णाता तहाऽऽझाओ।।१६।। छिद्याले पनीयते। (दूसियभावो) दूषिताध्यवमायः, साधोः, तथा तेन प्रकारेण रात्रिन्दिवपञ्चकच्छेदाऽऽदिना / अवमो लघुः, स चाऽसौ रात्निकश्व गुणरत्नव्यवहारी, तस्य भावोऽवमरात्निकभावो न्यूनपर्यायता, तस्य या क्रिया करणं सा तथा तथा अवमरात्निकभावक्रियया, लघुवाऽऽपादनेनत्यर्थः / ततश्वसंवेगाऽऽदिप्रभावत् लघुताकरणजन्यसंवेगनिदाऽऽदिगुणसामर्थ्यात्, शुद्ध्यति शुद्धिमनुभवति, अपरामलविगमेन। कोऽसावित्याह-ज्ञाता बुद्धिमान्। अथवा-न्यायत् साधुजनव्यवहारात्, तथेति समुच्चये। आज्ञातं आप्तोपदेशाद्, इष्टो ह्ययमुपायो भगवद्धिस्तथाविधापराधशुद्धो / यदाह- "उक्कोस तवभूमी, समतीनो सावसं सचरणो य / छेयं पणगाईयं, पावइ जा धरइ परियाओ॥१॥" इति गाथार्थः // 16 // एवं तावदालोचनाऽऽदीनि सप्त प्रायश्चित्तानि निरूपितानि। अथ शेषनिरूपणप्रस्तावनार्थमाहमूलाऽऽदिसु पुण अहिगतपुरिसाभावेण णत्थि वणचिंता। एतेसि पि सरूवं, वोच्छामि अहाणुपुव्वीए।।२०।। मूलाऽऽदिषु मूलानवस्थाप्यपाराश्चिकेषु, पुनःशब्दो विशेषणार्थः। तद्रावना चेवम्-आलोचनाऽऽदीनि ब्रणोदाहरणेन चिन्तितानि, मूलाऽऽदिषु पुनः, अधिकृतपुरूषाभावेन प्रस्तुतचरणरूपनरासद्भावेन हेतुमा, नास्ति न विद्यते, बणचिन्ता क्षतिनिरूपणा, मूलाऽऽदीनि हि चरणाभाव एव भवन्ति, तत्र चातिचारासंभवान्न व्रणचिन्तोपपद्यते, ततो व्रणचिन्ताविरूहेग तत्स्वरूपप्रतिपादनाय प्रस्तावययन्नाह एतेषामपि मूलाऽऽदीनामपि, आलोचनाऽऽदीनां तूतमेव, स्वरूपं स्वभावम्, वदयामि मणिष्यामि, यथानुपूर्वि अनुपूर्व्यनतिक्रमेण / इति गाथाऽर्थः // 20 // तत्र मूलस्वरूपमाहपाणातिवातपभितिसु, संकप्पकएसु चरणविगमम्मि। आउटे परिहारा, पुण वयठवणं तु मूलं ति॥२१।। प्राणातिपातप्रभृतिषु प्राणिबधमृवावादाऽऽदिष्वपराधेषु, संकल्पकृतेष्वाकुट्टिकाऽऽदिविहितेषु, चरणविगमे चारित्राभावे सति, आवृत्ते आवृत्तपरिणामे साधौ, कथं? परिहारदोषपरिहारमाश्रित्य। पुनव्रतस्थापनमुत्तरकालं महाव्रतन्यासम्, तुशब्दः पुनरर्थः / मूलामितिमूलाभिधानं प्रायश्चित्तमेतत् / इति गाथार्थः // 21 / / अनवस्थाप्यमाहसाहम्मिगादितेया-दितो तहा चरणविगमसंकेसे। णो चिय तवेऽकयम्मी, ठविञ्जति वएसु अणवट्ठो।२२।। साधम्मिकाऽऽदयः साधुप्रभृतयः, आदिशब्दादन्यसाधर्मिकग्रहः। तत्संबन्धिद्रव्यस्योत्कृष्टस्य सवित्ताऽऽदेर्यत् स्तेयं चौर्यं तत्तया, तदादिर्यस्य तत्तया तस्मात्साधर्मिकाऽऽदिस्तेयाऽऽदितः। आदिशब्दाद्धस्तताडनाऽऽदिग्रहः / हस्तताडनं चाऽस्थिमुष्टियष्ट्यादिभिर्मरणनिरपेक्षतयाऽऽत्मनः परस्य वा स्वपक्षगतस्य पपरक्षगतस्य वा घोरपरिणामतः प्रहरणम् / आहच- "उक्कोस बहुसो वा, पउट्ठचित्तो य तेणियं कुणइय / पहरइ जो सइ पक्खे, निरवेक्खो घोरपरिणामो॥१॥" कथं यत्सामिकाऽऽदिस्तेयायऽऽदीत्याह-तथा तेनाऽऽगमोक्त प्रकारेण "उको सं' इत्यादिनोक्तरूपेण / किमित्याह-चरणविगमसंक्लेशे चारित्राभावहेतुदुष्टाध्यवसाये जाते सति, न चोचिततपसि तदवस्थायोग्याऽऽगमोक्ततपसि, अकृतेऽनासेविते, स्थाप्यत आरोप्यते, व्रतेषु महाव्रतेषु यः सोऽयमेवंविधोऽनवस्थाप्यः। तदभेदोपचारात्प्रायश्चित्तमपि तथोच्यते / इति गाथाऽर्थः // 22 // अथ सविषयं पाराश्चिकमाहअण्णोण्णमूढदुट्ठा-इकरणतो तिव्वसंकिलेसम्मि। तवसाऽतियारपारं, अंचति दिक्खिज्जइततो य॥२३|| अन्योन्यम्य मूढस्य दुष्टम्य च यदतिकरणं तथाविधक्रियासु पौनः पुन्यप्रवृत्तिरतत्तथा ततोऽन्योन्यमूढदुष्टातिकरणतः। तत्राऽन्योन्यस्याऽतिकरणं परस्परेण पुरूषयोर्वेदविकारकरणम्, मूढातिकरण पञ्चमनिद्रायशविवर्त्तनम्। दुष्टातिकरणं तु द्विविधम्-कपायतो, विपयतश्च / तत्र स्वपक्षे कषायतो लिङ्गिघातः, विषयतस्तु लिङ्गिनीप्रतिषेवा। परपक्षे तु-कषायतो राजवधः, विषयतस्तु राजदारसेवेति। अथवा-अन्योन्यमूढदुष्टाऽऽदिकरणतइति व्याख्येयम् / तत्र चाऽऽदिशब्दात्तीर्थकराऽऽद्याशातनाकरणपरिग्रहः। तीव्रसंक्लेश उत्कृष्टदुष्टपरिणामे सति, तपसा चतुर्थाऽऽदिना समयोक्तने, कालतः षण्मासाऽऽदिना द्वादशवर्षान्तेन, अतिचारपारमपराधान्तम्, अञ्चति गच्छामि। (ततो य त्ति) ततश्चातिचारपारगमनानन्तरं दीक्ष्यते प्रब्राज्यते, नान्यथेति / य एवंविधः स पाराश्चिकः, तदभेदात् प्रायश्चित्तमपि पाराश्चिकम्। इति गाथार्थः।।२३।। इहैव मतान्तरमाहअण्णेसिं पुण तब्भव-तदण्णऽवेक्खाएँ जे अजोग त्ति। चरणस्स ते इमे खलु, सलिंगचितिभेदमादीहिं॥२४||
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy