SearchBrowseAboutContactDonate
Page Preview
Page 1482
Loading...
Download File
Download File
Page Text
________________ भरह 1474 - अभिधानराजेन्द्रः - भाग 5 भरह जन्माभिषेकप्रकरणे व्याख्यास्यते तत्रास्य साक्षाद्दर्शितत्वात, वाक्यसङ्गत्यर्थ च करणक्रियाविभागो दय॑ते, उक्तविशेषण विशिष्टः कलशैः सर्वोदकसर्वमृत्सौषधिप्रभृतिवस्तुभिर्महता २-गरीयसी 2 राज्याभिषेकेणाभिषिञ्चन्ति, अभिषेको यथा विजयस्य जीवाभिगमोपाने उक्तस्तथाऽत्र बोद्धव्यः, अभिषिच्य च प्रत्येक 2 प्रतिनृपं, यावत्पदात् 'करयलपरिगहि सिरसावत्तं मत्थए' इति ग्राह्यं, अञ्जलिं कृत्वा ताभिरिष्टाभिः अत्रापि 'कंताहि०जाव वगूहिं अभिणंदंताय अभिथुणता य एवं वयासीजय जय णंदा जय जय भद्दा ! भद्द ते अजिअं जिणहि' इत्यादिको ग्रन्थस्तथा ग्राह्यो यथा विनीतां प्रविशतो भरतस्यार्थिप्रमुखयाचकजनैराशीरित्यर्थाद् गम्यं भणिता कियत्पर्यन्तमित्याह- यावद्विहरेति- / कृत्वा जयर शब्दं प्रयुञ्जन्ति, नन्वत्र सूत्रेऽभिषेकसूत्रं जीवाभिममगतविजयदेवाभिषेकसूत्रातिदेशेनोक्त, साम्प्रतीनतदीयाऽऽदर्शषु च' अट्ठसएणं सोवण्णिअकलसाणं इत्यादि दृश्यते, अत्र च वृत्तौ- 'अट्ठसहस्सेणं सोवण्णिअकलसाण' इत्यादि दर्शितं तत्कथमनयोन विरोधः? उच्यतेजीवभिगमवृत्तौ तानेव विभागतो दर्शयति, अष्टसहस्रेण सौवर्णिकानां कलशानामष्टसहस्रेण रूप्यमयानां कलशानाम् अष्टसहस्रेण मणिमयानाभित्यादिपाठाऽऽशयेनात्र लिखितत्वान्न दोषः, यदि चात्र कलशानामष्टोत्तरशतसङ्ख्या स्यात्तदा तत्रैव सर्वसङ्ख्या अष्टभिः सहस्ररित्युत्तरग्रन्थोऽपि नोपपद्येत, किं चदृश्यमानतत्सूत्रे विकुर्वणाधिकारे 'अट्टसहस्सं सोवपिणअकलसाणं०जाव भोमेज्जाणं' इत्यादि, अभिषेकक्षणे तु 'अहसएणंसोवण्णिअकलसाणं इत्यादीत्यपि विचार्यम्। अथ शेषपरिच्छदाभिषेकवक्तव्यतामाह- 'तएणं' इत्यादि, ततो- द्वात्रिंशद्राजसहस्राभिषेकानन्तरं भरतं राजान सेनापतिरत्न, यावत्पदात् 'गाहावइरयणे बड्डइरयणे इतिग्राह्य, गृहपतिवर्द्धकिपुरोहितरत्नानि त्रीणि च षष्टानिषष्ट्यधिकानि सूपशतानि अष्टादश श्रेणिप्रश्रेणयः, अन्ये च बहवो यावच्छब्दात् राजेश्वराऽऽदिपरिग्रहः, ततो राजेश्वरतलवरमाडम्बियकौडुम्बिकेभ्यः श्रेष्ठिसेनापतिसार्थवाहप्रभृतय एवमेवराजान इवाभिषिशन्ति, तैर्वरकमलप्रतिष्ठानैस्तथैव कलशविशेषणाऽऽदिक ज्ञेयं, यावदभिनन्दन्ति अभिष्टुवन्ति च, ततः षोडश-देवसहस्रा एवमेव-उक्तन्यायेनाभिषिञ्चन्ति, यत्तु आभियोगिकसुराणां चरमोऽभिषेकः तदरतस्य मनुष्येन्द्रत्वेन मनुष्याधिकारान्मनुष्यकृताभिषेकानन्तरभावित्वेनेति बोध्यं, यद्वा-देवानां चिन्तितमात्रतदात्वसिद्धिकारकत्वेन पर्यन्ते तथाविधोत्कृष्टाभिषेक-विधानार्थमिति, ऋषभचरित्राऽऽदौ तु पूर्वमपि देवानामभिषेकोऽभिहित इति / अत्र यो विशेषस्तमाह- ‘णवरं, इति, अयं विशेषः- आभियोगिकसुराणा मपरेभ्योऽभिषेचकेभ्यः पक्ष्मलयापक्ष्मवत्या सुकुमारया च, अत्र यावत्पदग्राह्यमिदं गंधकासाइआए गायाई लूहॅति, सरसगौसीसचंदणेणं गायाईअणुलिपति, अणुलिंपित्ता नाणीसासवायवोज्झं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवाइरेगं धवलं कणगखइअंतकम्मं आगासफलिहसरिसप्प अहयं दिव्वं देवदूसजुअलं णिअंसाति, णिसावेत्ता हारं पिणद्वेति, पिणवेत्ता एवं अरहारं एगावलिं मुत्तावलिं रयणावलिं पालम्ब अंगयाइं तुडिआई कडयाइंदसमुद्दिआणतगं कडिसुत्तगं वेअच्छासुत्तगं मुरवि कंठ मुरवि कुंडलाइंचूडामणिं चित्तरयणुकडं ति।" अत्र व्याख्यागन्धकाषायिक्या सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकया इति गम्य, गात्राणिभरतशरीरावयवान् रूक्षयन्ति, रूक्षयित्वा च सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पन्ति अनुलिप्य च देवदूष्ययुगल निवासयन्तिपरिधापयन्तीति योगः, कथम्भूतमित्याह- नासिकानिःश्वासवातेन बाह्यंदूरापनेयं श्लक्ष्णतरमित्यर्थः, अयमर्थः- आस्तां महावातः नासावातोऽपि स्वबलेन तद्वस्रयुगलम् अन्यत्र प्रापयति, चक्षुर्हर रूपातिशयत्वात्, अथवा चक्षुर्द्धरं चक्षुरोधकं घनत्वात्, अतिशायिना वर्णेन स्पर्शेन च युक्तं हयलालाअश्वमुखजलं तस्मादपि पेलवंकोमलमतिरकेण अतिशयेन अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, धवलं प्रतीत, कनकेन खचितानि विच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत् तथा आकाशस्फटिको नाम अतिस्वच्छस्फटिकविशेषस्तत्सदृशप्रभम् अहतं दिव्यं निवास्य च हारं पिनह्यन्ति-ते देवाश्चक्रिणः कण्ठपीठे बध्नन्ति, 'एवं' इति एतेनाभिलापेनार्द्धहाराऽऽदीनि वाच्यानि यावन्मुकुटमिति, तत्र हारार्द्धहारौ प्रतीतो, एकावली प्राग्वत्, मुक्तावलीमुक्ताफलमयी कनकावलीकनकमणिमयी रत्नावलीरत्नमयी प्रासम्बः- तपनीयमयो विचित्रमणिरलभवितचित्र आत्मप्रमाण आभरणविशेषः, अङ्गदेबुटिके च प्राग्वत्, कटके प्रसिद्ध दशमुद्रिकानन्तरकंहस्ताङ्गुलिमुद्रादशकं कटिसूत्रक पुरुषकण्ठ्याऽऽभरणं वैकक्ष्यसूत्रकम् - उत्तरासङ्गं परिधानीयंशृद्धलकं मुरवी-मृदङ्गाऽऽकारमाभरण कण्ठमुरवीकण्ठाऽऽसन्नं तदेव कुण्डलेव्यक्ते चूडामणिः प्राग्वत्, चित्ररत्नोत्कटविचित्ररत्नोपेतं मुकुट व्यक्तम् / 'तयणंतरं चणं दद्दरमलय' इत्यादि, तदनन्तरं दर्दरमलयसम्बन्धिनो ये सुगन्धाः- शोभनवासास्तेषां गन्धः-शुभपरिमलो येषु ते तथा तैर्गन्धैःकाश्मीरकर्पूर कस्तूरीप्रभृतिगन्धवद्रव्यैः प्रकरणाद्रसभावमापादितैरभ्युक्षन्तिसिञ्चन्तिते देवा भरतं, कोऽर्थः? अनेकसुरभिद्रव्यमिश्रधुसृणरसच्छटकान् कुर्वन्ति, भरतवाससीति भावः / क्वचित्, 'सुगंधगंधिएहिं गंधेहिं भुकुडं ति' इति पाठस्तत्र भूकडन्तीति-उधूलयन्ति, गन्धैः सुरभिचूर्ण :- सुरभिचूर्ण भरतोपरि क्षिपन्ति दिव्यं, चः समुच्चये, सुमनोदामकुसुममालां पिनह्यन्ति, किंबहुना? उक्तेनेति गम्यं, 'गढिमवेढिम' यावत्पदात् 'पूरिमसंघाइमेणं चउव्यिहेणं मल्लेणं कप्परुक्खयं पिव समलंकिय त्ति' ग्राह्यम्, अत्र व्याख्या-ग्रन्थनं ग्रन्थस्तेन निवृत्तं ग्रन्थिम, भावादिमप्रत्ययः, यत्सूत्राऽऽदिना गृथ्यते तद्ग्रन्थिममिति भावः,ग्रथित सद्वेष्ट्यते यत्तद् वेष्टिमं, यथा पुष्पलम्बूसको गेन्दुकइत्यर्थः, पूरिम येन वंशशलाकाऽऽदिमयपञ्जराऽदि पूर्यतेसंघातिमयत्परस्परतोनालंसंघात्यते, एवंविधन चतुर्विधेन माल्येन कल्पवृक्षमिवालकृतविभूषितं भरतचक्रिण कुर्वन्ति ते देवाः। अथ कृताभिषेको यच्चक्रेतदाह-'तएणं' इत्यादि, ततः स भरतो राजा महता महता अतिशायिना राज्याभिषेकेणाभिषिक्तः सन् कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा चैवमवादीत्, तदेवाऽऽह क्षिप्रमेव
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy