SearchBrowseAboutContactDonate
Page Preview
Page 1445
Loading...
Download File
Download File
Page Text
________________ भरह 1437 - अभिधानराजेन्द्रः - भाग 5 भरह ये, तथा वासगृहेषु-शयनग्रहेषु विभागकुशलंयथौचित्येन विभाजक,चः समुच्चये, तथा छेद्यछेदनाह काष्ठाऽऽदि वेध्यं-वेधनार्ह तदेव चः समुच्चये दातकर्मअङ्कनार्थ गिरिकरक्तसूत्रेण रेखादानं तत्र प्रधानबुद्धिः, तथा जलगानां जलगतानां भूमिकानां जलोत्तरणार्थकपद्याकरणाय भाजनयथौचित्येन विभाजकं, चः समुच्चये, उन्मग्नानिमग्नानद्याद्युत्तरे तस्यैतादृशसामर्थ्यस्य सुप्रतीतत्वात्, जलस्थलयोः सम्बन्धिनीषु गुहारिवव गुहासु-सुरङ्गास्वित्यर्थः / तथा यन्त्रेषु घटीयन्त्राऽऽदिषु परिखासु प्रतीतासु चःपूर्ववत् कालज्ञानेचिकीर्षितवास्तुप्रशस्ताप्रशस्तलक्षणपरिज्ञाने, "वैशाखे श्रावणे मार्गे , फाल्गुने क्रियते गृहम्। शेषमासेषु न पुनः, पौषो वाराहसम्मतः॥१॥' इत्यादिके, तथैवेति वाच्यान्तरसंग्रहे शब्देशब्दशास्त्रे सर्वकलाव्युत्पत्तेरेतन्मूलकत्वात् वास्तुप्रदेशेगृहक्षेत्रैकदेशे "ऐशान्यां देवऽगृहं, महानसं चापि कार्यमाग्नेय्याम्। नैऋत्यां भाण्डोपस्करोऽर्थधान्यानि मारुत्याम्॥१॥" इत्यादिगृहावयवविभागे शास्त्रोक्तविधिविधाने प्रधानमुख्यं गर्भिण्यो जातगर्भा डोलकिता वल्ल्यः फलाभिमुखवल्ल्य इत्यर्थः, कन्या इव कन्या:-अफला, अथवा-दूरफला वा वल्ल्यः वृक्षाश्च वास्तुक्षेत्रप्ररूढा वल्लिवेष्टितानिभावे क्तप्रत्ययविधानात् वल्लिवेष्टनानिवास्तुक्षेत्रोद्रवृक्षेष्वारोहणानि, एतेषां ये गुणदोषाः स्तेषां विज्ञायकंविशेषज्ञ, ते चेमे- ''गर्भिणी वल्लिर्वास्तुप्ररूढा आसन्नफलदा, कन्या च सा तत्रैव नाऽऽसन्नफला, वृक्षाश्च प्लक्षवटाश्वत्थोदुम्बराः प्रशस्ताः आसन्नाः कण्टकिनो रिपुभयदा' इत्यादि, प्रशस्तद्रुमकाष्ठं वा गृहाऽऽदि प्रशस्तं, वल्लिवेष्टितानि प्रशस्तवल्लिसम्बन्धीनि प्रशस्तानि गृहमहीषुन चाप्रशस्तवल्लिसम्बन्धीनि। एनमेवार्थमाह वराहः- ''शस्त्रौषधिदुमलतामधुरा सुगन्धा, स्निग्धा समा न शुषिरा च मही नृपाणाम् / अप्य-ध्वनि श्रमविनोदमुपागतानां, धत्ते श्रियं किमुत शाश्वतमन्दिरेषु? // 1 // " पुनस्तदेव विशेषयन्नाह- गुणाऽढ्यः-प्रज्ञाधारणाबुद्धिहस्तलाघवाऽऽदिगुणवान् षोडश प्रासादाः-सान्तनस्वस्तिकाऽऽ-दयो भूपतिगृहाणि तेषा करणे कुशलः, चतुःषष्टिविकल्पाः गृहाणां वास्तुप्रसिद्धाः तत्र विस्तृता-अमूढा मतिर्यस्य स तथा, विकल्पानां चतुःषष्टिरेवप्रमोदविजयाऽऽदीनिषोडश गृहाणि पूर्वद्वाराणि, स्वस्तनाऽऽदीनि षोडश दक्षिणद्वाराणि, धनदाऽऽदीनि षोडश उत्तरद्वाराणि, दुर्भगाऽऽदीनि षोडश पश्चिमद्वाराणि, सर्वमीलने चतुःषष्टिरिति, नन्द्यावर्त्तगृहविशेषे एवमग्रेतनविशेषणेष्वपि, चःसमुच्चये, वर्द्धमाने स्वस्तिके रुचके तथा सर्वतोभद्रसन्निवेशे च बहुर्विशेषः- प्रकारो ज्ञेयतया कर्त्तव्यतया च यस्य तत् तथा, सूत्रे च क्वचित् सप्तमीलोपः प्राकृतत्वात्, नन्द्यावर्ताऽऽदिगृहविशेषस्त्वयं वराहोक्तः"नन्द्यावर्त्तमलिन्दैः, शालाकुड्यात् प्रदक्षिणान्तगतैः। द्वार पश्चिममस्मिन्, विहाय शेषाणि कार्याणि / / 1 / / द्वारालिन्दोऽन्तगतः, प्रदक्षिणोऽन्यः शुभस्ततश्चान्यः / तद्वच्च वर्द्धमाने, द्वारं तु न दक्षिण कार्यम् / / 2 / / अपरान्तगतोऽलिन्तः, प्रागन्तगतौ तदुत्थितौ चान्यौ। तदवधिविधृतश्चान्यः, प्रारद्वारं स्वस्तिकं शुभदम्।।३।। अप्रतिषिद्धालिन्द, समन्ततो वास्तु सर्वतोभद्रम्। नृपविबुधसमूहाना, कार्य द्वारेश्चतुर्भिरपि // 4" पुनस्तदेव विशिनष्टिःऊर्ध्वदण्डे भव उद्दण्डिकः, भयार्थः इकः अर्थात् ध्वजः, देवाः-इन्द्राऽऽदिप्रतिमाः, कोष्टः-उपरितनगृहं धान्यकोष्ठो वा, दारूणि वास्तूचितकाष्ठानि गिरयो दुर्गाऽऽदिक-रणार्थ जनावासयोग्याः पर्वताः, खातानिपुष्करिण्यादिकानि वाहनानि शिविकाऽऽदीनि एतेषां विभागे कुशल , ध्वजविभागस्त्वेवम्- "दण्डः प्रकाशे प्रासादे, प्रासादकरसङ्ख्यया। सान्धकारे पुनः कार्या, मध्यप्रासादमानतः।।१॥" शेष तत्तद्ग्रन्थेभ्योऽवसेयम्, इत्युक्तप्रकारेण बहुगुणाढ्यं तस्य नरेन्द्रचन्द्रस्य भरतचक्रिणः स्थपतिरत्नंवर्द्धकिरत्नम्। तपः संयमाभ्यां करणभूताभ्या निर्विष्ट लब्धमिति, किं करवाणीत्यादि तु प्राग्योजित-मेव। अथोपस्थितः सन्वर्द्धकिर्यदकरोत्तदाह- 'सो देव' इत्यादि, सः-वर्द्धकिः देवकर्मविधिना देवकृत्यप्रकारेण चिन्तित-मात्रकार्यकरणरूपेणेत्यर्थः, स्कन्धावार नरेन्द्रवचनेन आवासा-राज्ञां गृहाणि भवनानीतरेषां तैः कलितं करोति सर्व मुहूर्तेन निर्विलम्बमित्यर्थः, कृत्वा च प्रवरपौषधगृह करोति, कृत्वा च भरतो राजा यावत्पदात्तेणेव उवागच्छइ, उवागच्छित्ता इति ग्राह्यम्, एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयति, 'सेसं तहेव' इत्यादि, सर्व प्राग्वत्। 'उवागच्छित्ता' उपागत्य च। तते णं तं धरणितलगमणलहुं ततो बहुलक्खणपसत्थं हिमवंतकंदरंतरणिवायसंवद्धिअचित्ततिणिमदलिअं जंबूणयसुकयकूवरं कणयदंडियारं पुलयवरिंदणीलसासगपबालफलिहवररयणलेठुमणिविडुमबिभूसिअं अडयालीसाररइयतवणिज्जपट्टसंगहिअजुत्ततुंवं पघसिअपसिअनिम्मिअनवपट्टपुट्ठपरिणिट्ठिअं विसिट्ठलट्ठणवलोहबद्धकम्मं हरिपहरणरयणसरिसचक्कं कक्केयणइंदणीलसासगसुसमाहिअबद्धजालकडगं पसत्थविच्छिण्णसमधुरं पुरवरं च गुत्तं सुकिरणतवणिजजुत्तकलिअं कंकव्यणिजुत्तकप्पणं पहरणाणुजायं खेडगकणगधणुमंडलग्गवरसत्तिकोंततोमरसरसयबत्तीसतोणपरिमंडिअंकणगरयणचित्तं जुत्तं हलीमुहबलागगयदंत चंदमोत्ति अतणसोल्लिअकुंदकुडयवरसिंदुवारंकंदलवरफेणणिगरहारकासप्पगासधवले हिं अमरमणपवणजइणचवलसिग्धगामीहिं चाहिं चामराकणगविभूसिअंगेहिं तुरगेहिं सच्छत्तं सज्झयं सघंट सपडागं सुकयसंधिकम्मं सुसमाहिअसमरकणयगंभीरतुल्लघोसं वर प्परं सुचक्कं वरनेमीमंडलं वरधारातोंडं वरवइरबद्धतुंबं वरकंचणभूसिअं वरायरिअणिम्मिअंवरतुरगसंपउत्तंवरसारहिसुसंपग्गहिवरपुरिसे वरमहारहं दुरूढे आरूढे पवररयणपरिमंडिअंकणयखिंखिणीजालसोमिअं अउज्झं सोआमणिकणगतविअपंकयजासुअणजलणजलिअसुअतों डरागंगुंजद्धबंधुजीवगरत्तहिंगुलगणिगरसिंदूररुइलकुंकुमपारेवयचलणणयणकोइलदसणावरणरहताऽति
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy