________________ भरह 1427 - अभिधानराजेन्द्रः - भाग 5 भरह था सुगन्धा:- शोभनचूर्णास्तेषां गन्धो यत्र स तथा, तद्धितलक्षण इकप्रत्ययः / श्वाद्विशेषाणद्वयस्य कर्मधारयस्तस्य, तथा कचग्रहोमैथुनसंरग्भे मुखचुम्बनाऽऽद्यर्थ युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहण तन्न्यायन गृहीतस्तथा तदनन्तरं करतलाद्विप्रमुक्तः सन् प्रभ्रष्टः, प्राकृतत्वात् पदव्यत्ययः, ततः पूर्वपदेन कर्मधारयस्तस्य, दशार्धवर्णस्यपञ्चवर्णस्य कुसुमनिकरस्य-पुष्पराशेः, तत्र चक्ररत्नपरिकरभूमी चित्रम् आश्चर्यकारिणं जानूत्सेधप्रमाणेन जानु यावदुच्चत्वप्रमाणं प्रमाणोपेतपुरुषस्य चतुरड्गुलचरणचतुर्विशत्यङ्गुलजङ्घचत्वमीलनेनाष्टविंशत्यङ्गुलरूपं तेन समाना मात्रा यस्य स तथा तम, अवधिना मर्यादया निकर-विस्तारं कृत्वा चन्द्रप्रभाः चन्द्रकान्ता वज्राणिहीरका वैडूर्याणि - बालवायजानितन्मयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नानां भक्तयोविच्छिायो रचनास्ताभिश्चित्रं कृष्णागुरुः प्रतीतः, कुन्दुरुकाःचीडा, तुरुष्कः-सिल्हकः, तेषां यो धूपो गन्धोत्तमः-सौरभ्योत्कृष्टः अत्र विशेषण, परनिपातः, प्राकृतत्वात्, तेनानुविधा मिश्रा व्याप्तेत्यर्थः / तां, चशब्दो विशेषणसमुचये स च व्यवहितसम्बन्धः, तेन धूमवर्ति चधूमश्रेणि विनिर्मुश्चन्तं, वैडूर्यमयं-केवलवैडूर्यरत्नघटितंस्थालकस्थगनकाऽऽद्यवयवेषु दण्डवचन्द्रकान्ताऽऽदिरत्नमयत्वे तु अङ्गारधूमसंसर्गजनिता विच्छायता प्रादुर्भवत्, 'कडुच्छुकं धूपाऽऽधानकं 'प्रागृह्य' गृहीत्वाप्रयतः' आद्रियमाणो धूपं दहति, धूपं दग्ध्वा च प्रमार्जनाऽऽदिकारणविशेषेण सन्निधीयमानमपि चक्ररत्नम् अत्यासन्नतया मा आशातितं भूयादिति सप्ताष्टपदानि प्रत्यपसर्पति पश्चादपसरति प्रत्यपसर्म्य च वामं जानुम अचति, यावत्करणाद्-'दाहिणं जाणुंधरणिअलसि निहटु करयलपरिगहिअंदसनहं सिरसावत्तं मत्थए अंजलिं कटु' इति संग्रहः, व्याख्या च पूर्ववत्, प्रणाम करोति-समीहितार्थसम्पादकमिहेदामिति बुद्धया प्रीतः प्रणमति, प्रणाम कृत्वा च आयुधगृहशालातः प्रतिनिष्कामतिनिर्गच्छतीति, 'पडिणिक्खमित्ता' इत्यादि, प्रतिनिष्क्रम्य च यत्रैव बाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखः सन्निषीदति-उपविशति, संनिषद्य च अष्टादश श्रेणी:-कुम्भकाराऽऽदिप्रकृतीः प्रश्रेणीस्तदवान्तरभेदान् शब्दयति, शब्दयित्वा चैवमवादीदिति। अष्टादश श्रेणयश्चमाः"कुंभार 1 पट्टइल्ला 2, सुवण्णकारा य 3 सूवकारा य 4 / गंधव्वा 5 कासवगा 6, मालाकारा य 7 कच्छकरा 8 / / 1 / / तंवोलिआईय एए, नवप्पयारा य नारुआ भणिआ। अहणं णवप्पयारे, कारुअवण्णे पवक्खामि // 2 // चम्मय रु १जंतपीलग२ गंछिअ 3 छिपाय 4 कसकारे य५ / सीवग 6 गुआर 7 भिल्ला 8 धीवर ह वण्णाइ अवदस // 3 // " चित्रकाराऽऽदयस्तु एतेष्वेवान्तर्भवन्ति, अथ पौरान प्रति किमवादीदित्याह-(खिप्पामेव त्ति) क्षिप्रमेव भो देवानुप्रियावकरत्नस्याष्टानाम् अहां सभाहारोऽष्टाहं तदस्ति यस्यां महिमाया सा अष्टा ह्निका तां महामहिमां कुरुतेत्यन्वयः, कृत्वा च मम एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयतेति / अथ क्रमेण विशेषणानि व्याकरोति-कीदृशी? उन्मुक्तं शुल्कवितव्यभाण्ड प्रति राजदेयं द्रव्यं यस्यांसा तथा ताम्, एवमुत्कराम् उत्कृष्टां च तत्र करो गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यं, कृष्ट तु-कर्षणं लभ्यग्रहणायाऽऽकषर्णम्, अदेयां विक्रयनिषेधेन अविद्यमानदातव्या, न केनापि कस्यापि देयमित्यर्थः, अमेयांक्रयविक्रयनिषेधादेव अविद्यमानमातव्याम् अभटप्रवेशाम् अविद्यमानो भटानाराजपुरुषाणामाज्ञादायिना प्रवेशः कुटुम्बिगृहेषु यस्यां सा तथा तां, दण्डलभ्यं द्रव्यं दण्डः कुदण्डेन निर्वृत्तं कुदण्डिम-राजद्रव्यं तन्नास्ति यस्यां सा तथा तांतत्र दण्डो यथापराधं राजगाहा द्रव्यं कुदण्डस्तु कारणिकानां प्रज्ञाऽऽद्यपराधात् महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्य द्रव्यम्, अधरिम-न विद्यते धरिभम-ऋणद्रव्यं यस्य सा तथा ताम्, उत्तमर्णाऽधमाभ्यां परस्पर तणार्थ न विवदनीयं किन्तु अस्मत्पार्श्वे द्युम्नं गृहीत्वा ऋणं मुत्कलनीयमित्यर्थः, गणिकावरैः-विलासिनीप्रधानैर्नाटकीयैः नाटकप्रतिबद्धपात्रैः कलिता या सा तथा ताम्, अनेके ये तालाचराः-प्रेक्षाकारिविशेषास्तैरनुचरिताम् आसेविताम्, अनुद्भूताम् आनुरूप्येण यथा मार्दङ्गि कविधि उधूतावादनार्थमुत्क्षिप्ता मृदङ्गा यस्यां सा तथा ताम्, अम्लानानि माल्यदामानिपुष्पमाला यस्यां सा तथा तां, म्लानाः पुष्पमाला उत्सार्य नवा नवा आरोपणीया इत्यर्थः,प्रमुदिताहृष्टाः प्रक्रीडिताः प्रक्रीडितुमारब्धाः सपुरजना-अयोध्यावासिजनसहिताः जनपदाः कोशलदेशवासिनो जना यत्र सा तथा ता, विजयवैजयिकीम्-अतिशयेन विजयो विजयविजयः स प्रयोजनं यस्यां सा तथा ताम्, इदमायुधरत्न सम्यगारा धितं गदभिप्रेत महाविजय साधयतीत्यर्थः, 'प्रत्यये डीवा' (श्रीसिद्ध० अ०८ पा०३सू० 31) इति प्राकृत-सूत्रेण डीविकल्पस्तेन 'विजयवेजइयमिति पाठः, क्वचिद् विजयवेजयन्तचक्करयणस्स त्ति' पाठस्तत्र विजयसूचिका वैजयन्तीति विजयवैजयन्ती, साऽस्यास्तीति विजयवैजयन्तं विजयग्रहणे किमपि परं न मत्त उत्कृष्टमिति ध्वजबन्धं विधत्ते इत्यर्थः / एतादृशं यच्चक्ररत्नं यस्याष्टाहिकामिति प्राग्वदिति। अथ श्रेणिप्रश्रेणयो यच्चकुस्तदाह- 'तए ण' इत्यादि सर्व पाटसिद्धम्। अथाष्टाहिकामहामहिमापरिसमाप्त्यनन्तरं किमभूदित्याहतएणं से दिव्वे चक्करयणे अट्ठाहिआए महामहिमाए निव्वत्ताए समाणीएआउहघरसालाओ पडिणिक्खमइ, पडिणिक्ख-मित्ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिव्वतुडिअसद्दसण्णिणाएणं आपूरेते चेव अंबरतलं विणीआए रायहाणीए मज्झं मज्झेणं णिग्गच्छइ, णिग्गच्छित्ता गंगाए महाणईए दाहिणिले णं कूले णं पुरच्छिमं दिसिंमागहतित्थाभिमुहे पयाते आवि होत्था। तए णं से भरहे राया तं दिव्वं चक्करयणं गंगाए महाणईए दाहिणिल्ले णं कूले णं पुरच्छिमं दिसिं मागहतित्थाभिमुहं पयासतं पासइ, पासित्ता हट्ठतुट्ठ०जाव हियए कोडं विअपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्यामेव भो देवाणुप्पिआ।