SearchBrowseAboutContactDonate
Page Preview
Page 1421
Loading...
Download File
Download File
Page Text
________________ भरह 1413 - अमिधानराजेन्द्रः - भाग 5 भरह नवद्भिर्विराजमानाशोभमाना या सा तथा। "अट्टालयचरियदारगोपुरतो- | रणउण्णयसुविभत्तरायमग्गा / " अट्टालकाः-प्राकारोपरिवाश्रयविशेषाः, चरिका-अष्टहस्तप्रमाणा नमरप्राकारान्तरालमार्गाः, द्वाराणिप्राकारद्वारिकाः, गोपुराणि-पुरद्वाराणि, तोरणानिप्रतीतानि. उद्मतानिगुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ताः-विविक्ता राजमार्गा यस्यां सातथा, ततः पद-द्वयस्य कर्मधारयः। 'छेयायरियरइयदढफलिहइंदकीला।' छेकेननिपुणेनाऽऽचार्येणशिल्पिना रचितो दृढो-बलवान् परिधः-अर्गला इन्द्रकीलश्चगोपुरावयाविशेषो यस्यां सा तथा। मूलम्-"विवणिवणिच्छेत्त सिप्पियाइण्णणिव्वुयसुहा सिंघाडगतिगचउक्कचचरपणियावणविविहवत्थुपरिमंडिया सुरम्मा नरवइपविइण्णमहिवइपहा अणेगवरतुरगमत्तकुंजररहपहकरसीयसदमाणीयाइण्ण - जाणजुग्गा विमउलणवणलिणिसोभियजलापंडुरवरभवणसण्णिमहिया उत्ताणणयणपेच्छणिज्जा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा // " (सूत्र-१) अस्य व्याख्या- "विवणिवणिच्छेत्तसिप्पियाइण्णणिवुयसुहा।" विपणीनां-वणिक्पथानां हट्टमार्गाणां, वणिजां च वाणिजकानां च, क्षेत्रस्थानं या सा तथा, शिल्पिभिः-कुम्भकाराऽऽदिभिराकीर्णा, अत एव जनप्रयोजनसिद्धेर्जनानां निर्वृतत्वेन सुखितत्वेन च निर्वृतसुखा च या सा तथा। वाचनान्तरे छेत्तशब्दस्य स्थाने छेयशब्दोऽधीयते, तत्र च छेकशिल्पिकाऽऽकीर्णेति व्याख्येयम्। 'सिंघाडगतिगचउकचचरपणियावणविविहवत्थुपरिमंडिया।' शृङ्गाटकंत्रिकोणं स्थानं, त्रिक-यत्र रथ्यात्रयं मिलति, चतुष्करथ्याचतुष्कमेलकं, चत्वरंबहुरथ्यापातस्थानं, पणितानिभाण्डानि तत्प्रधाना आपणाहट्टाः, विविधवस्तूनि-अनेकविधद्रव्याणि एभिःपरिमण्डिता या सा तथा। पुस्तकान्तरेऽधीयते- 'सिंघाडगतिगचउक्कचचरचउम्मुहमहापहपहेसु पणियावणविविहवेसपरिमंडिया। तत्र चतुर्मुखंचतुर देवकुलाऽऽदि. महापथोराजमार्गः, पन्थाः-तदितरः, ततश्च शृङ्गाटकाऽऽदिषु पणिताऽऽपणैः विविधवषेश जनैर्विविधवेश्याभिर्वा परिमण्डिता या सा तथा। 'सुरम्मा' अतिरमणीया। 'नरवइपविइण्णमहिवइपहा।' नरपतिनाराज्ञा प्रविकीोगमनाऽऽगमनाभ्यां व्याप्तो महीपतिपथोराजमार्गो यस्यां सा तथा, अथवा-नरपतिना प्रविकीर्णा विक्षिप्ता निरस्ताऽन्येषां महीपतीनां प्रभा यस्यां सा तथा / अथवा-नरपतिभिः प्रविकीर्णा महीपतेः प्रभा यस्या सा तथा / 'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजुग्गा।'अनेकैर्वस्तुरगैर्मत्तकुञ्जरैः "रहपहकर त्ति' रथनिकरैः शिविकाभिः स्यन्दमानीभिराकीर्णाव्याप्ता यानैर्युग्यैश्च या सा तथा, अथवाअनेके वरतुरगाऽऽदयो यस्याम् आकीर्णानि च गुणवन्ति यानाऽऽदीनि यस्यां सातथा, तत्र शिबिकाः- कूटाऽऽकारेणाच्छादिता जम्पानविशेषाः, स्यन्दमानिकाः पुरुषप्रमाणजम्पानविशेषाः, यानानिशकटाऽऽदीनि, युग्यानिगोलविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति / विमउलणवणलिणिसोभियजला / ' विमुकुलाभिःविकसितकमलाभिर्नवाभिनलिनीमिः-पद्मिनीभिः शाभितानि जलानि यस्यां सा तथा। 'पंडुरवरभवणसण्णिमहिया।' पाण्डुरैः-सुधाधवलैः वरभवनैः-प्रासादैः सम्यक् नितरां महितेव महितापूजिता या सा तथा। "उत्ताणणयणपेच्छणिज्जा।" सौभाग्यातिशयादुत्तानिकैः-अनिमिषितः नयनैः-लोचनैः प्रेक्षणीया या सा तथा। 'पासाइया' चित्तप्रसत्तिकारिणी। 'दरिसणिज्जा।' यां पश्यच्चक्षुः श्रमं न गच्छति। 'अभिरूवा' मनोज्ञरूपा / 'पडिरूवा' द्रष्टारं 2 प्रति रूपं यस्याः सा तथेति॥१॥" (औ०) अथ कियत्पर्यन्तः स ग्राह्य इत्याह- 'पडिरूया' इति / प्रतिरूपाणि प्रतिविशिष्टमसाधारण रूपमाकारो येषां तानि तथा तेषु, णमिति प्राग्वत्। विद्याधरनगरेषु विद्याधरराजानः परिवसन्ति। अत्र समासान्तविधेरनित्यत्वान्नादन्तता। कथंभूतास्ते इत्याह- महाहिमवान् हैमवतक्षेत्रस्योत्तरतः सीमाकारीवर्षधरपर्वतः मलयः पर्वतविशेषः सुप्रतीतो मन्दरो मेरुः माहेन्द्रः पर्वतविशेषः शक्रो वा ते इव साराः प्रधानाः / "रायवण्णओ भाणियव्यो त्ति।" अत्राऽपि सर्वः प्रथमोपाङ्गगतो राजवर्णको भणितव्य इति। जं०१ वक्षन सच इत्थम्"तत्थ णं चंपाए णयरीए कूणिए णामं राया परिवसइ, महयाहिमयंतमहंतमलयमंदरमहिंदसारे अचंतविसुद्धदीहरायकुलवंससु-प्पसूए णिरंतरं रायलक्खणविराइअंगमंगे बहुजणबहुमाणे पूजिए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाहिसित्ते माउपिउसुजाए दयपत्ते सीमंकरे सीमंधरेखेमंकरे खेमंधरे मणुस्सिंदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउकरे केउकरे णरपवरे पुरिसपवरे पुरिससीहे पुरिसवग्घे पुरिसासीविसे पुरिसपुंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते वित्थिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरयते आओगपओगसंपउत्ते विच्छड्डि-अपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूते पडिपुण्णजंतकोसकोडागाराउहागारे बलवंदुब्बलपच्चामित्ते ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकटयं ओहयसत्तुं निहयसत्तुंमलियसत्तुं उद्विअसत्तुं निज्जियसत्तुं पराइयसत्तुं ववगयदुभिक्खं मारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंतडिंबडमरं रज्जं पसासेमाणे विहरइ।" (सूत्र ६।औ०1) "विज्जाहरसेढी णमिति" सूत्रं गतार्थम्। अथात्रैव वर्तमानामाभियोगश्रेणिं निरूपयति- (तासि णमित्यादि) तयोर्विद्याधर श्रेण्योबहुसमरमणीयाभूमिभागाद्वैतादयस्य पर्वतस्योभयोः पार्श्वयोर्दश दश योजनान्यूर्द्धमुत्पत्य अत्र द्वे आ समन्तात् आभिमुख्येन युज्यन्तेप्रेष्यकमणि व्यापार्यन्ते इत्याभियोग्याः शक्रलोकपालप्रेष्यकर्मकारिणो व्यन्तरविशेषास्तेषामावासभूते श्रेण्यौ-आभियोग्यश्रेण्यौ प्रज्ञप्ते / शेषं गतार्थ , नवरम्- “वण्णओ दोण्ह वित्ति।" द्वयोरपि जात्यपेक्षया पद्मवरवेदिकावनखण्डयोर्वर्णको वाच्य इति / (ज०१ वक्ष०) स चायम्"तीसे णं जगतीए उप्पिं बहुमज्झदेसभाए एत्थ णं एगा महई पउमवरवेदिया पण्णत्ता / सा ण पउमवरवेदिया अद्धजोयणं उर्दा उच्चत्तेणं पंच धणुसयाई विक्खंभेणं सव्वरयणामई जगतीसमिया परिक्खेवेणं सव्वरयणामई० तीसेणं पउमवरवेइयाए अयमेयारूवे वण्णावासे पण्णत्ते। तंजहा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy