SearchBrowseAboutContactDonate
Page Preview
Page 1281
Loading...
Download File
Download File
Page Text
________________ बंभदत्त 1273 - अभिधानराजेन्द्रः - भाग 5 बंभदत्त ति तामसौ परिणाय्यते, कार्यते चैतच्छयनाय जतुगृहम् एतच्च तन्मन्त्रितमशेषमपि तथैवान्तः पुररक्षिकया निवेदितंधनोः, तेनापि विनष्टमेतदिति पर्यालोच्य कुमारसंरक्षणाय प्रयक्षः कर्तु मुपचक्रमे , तथाहि-पृष्टोऽरगवनेन दीर्घपृष्ठो यथा वयमिदानी वृद्धास्तत् किमिदानीमपरेण? युष्माभिरनुज्ञाता धर्ममवैतत्कालोचितं कुर्मः, तेनाऽऽलोचितम् यथैष दुरात्मा दूरस्थो न सुन्दर इति, उक्तश्च-यथैतत्वद्रहितमखिलमपि राज्य विनश्यत्यत इहैव स्थितो जपहोमदानाऽऽदिभिर्धर्म मुपचिनु / तेन चोक्तम्-यदादिशन्ति भवन्तः इत्युक्तवा च गतः स्वगृह, कारितं चानेन भागीरथ्यास्तटे स्वनिवासस्थान, निरूपितं तत्रा सत्रां, खानिता च तत्र प्रत्ययिकपुरुषैर्जतुगृहं यावत् सुरङ्गा, ज्ञापिताऽसौ वरधनोः इतश्च गणितं तत् परिणयनलग्नं, निष्पन्नं च जतुगृह, प्रेषिता च मन्त्रिवचनतोऽन्यव कन्यका मातुलेन, समागतो लग्नदिनः, कृतं सर्वसमृद्धचोपयमन, शायितश्च रजन्यां जतुगृहे, कुमारः, प्रदीपितं च द्वार एव सुप्तजनायां रजन्या, ज्ञातं चाऽऽसन्नस्थितेन वरधनुना, उत्थापितः कुमारः, दृष्ट च सर्वतः प्रदीप्तमेतेन, उक्तश्च वरधनुः मित्र ! किमिदानीं क्रियता मिति, तेनोक्तममा भैषीः, यतः प्रतिविहितमा तातेन, अत्रान्तरे चाऽऽगतं नागकुमारद्वयानुकारि भुवनमुद्भिद्य पुरुषद्वयम्, अभ्यधाच तत्मा भैष्टाम्, आवां हि धनोर्गृहजातौ दासचेडकौ, तत् क्रियता प्रसादां, निर्गम्यता सुरङ्गामार्गेण, इत्युक्तौ च तो गतौ सुरङ्गाद्वार, दृष्ट चतत्रा प्रधानमश्वद्वयम्। उक्तं च ताभ्यां चेटकाभ्यामेतावारुह्य देशान्तरापक्रमेणाऽऽत्मानं रक्षतां दीर्घपृष्ठाद्भवन्तौ यावत्कवचिदवसरः शुभो भवति, ततस्तद्वचनमाकर्ण्य किं किमेतत्? इत्याकुलितचेतसो ब्रह्मदत्तस्य कथितः सर्वोऽपि वरधनु ना चुलनीवृत्तान्तः, अभिहितं च-यथैदमेवेदानीं प्राप्तकाल मिति, विनिर्गतौ च तत्प्रधानमश्वयुग लमारुह्येति तृतीय गाथातात्पर्यार्थः / एवं च प्राप्तावसरा ब्रह्मदत्तहिण्डी। ततस्तत्र ये कन्यालाभा ये च तत्पितरस्तदुपदर्शनाय गाथापञ्चकमाहचित्ते य विजुमाला, विजुमई चित्तसेणओ भद्दा। पंथग णागजसा पुण, कित्तिमई कित्तिसेणो य॥३३६॥ देवी य नागदत्ता, जसवइ रयणवइ जक्खहरिलो य। वच्छीय चारुदत्तो, उसभो कच्चाइणीय सिला।। 340 // धणदेवे वसुमित्ते, सुदंसणे दारुए य नियडिल्ले / पोत्थी पिंगल पोए, सागरदत्ते य दीवसिहा / / 341 / / कंपिल्ले मलयवई वणराई सिंधुदत्त सोमाय / तह सिंधुसेण पञ्जु-ण्णसेण वाणीर पइगा य / / 342 / / हरिएसा गोदत्ता, कणेरुदत्ता कणेरुपइगा य। कुंजरकणेरुसेणा, इसिवुड्डी कुरुमई देवी।। 343 / इदं च सोपस्कारतया व्याख्याते-चित्रश्च चित्रनामा जनक स्तदुहितरौ विद्युन्माला विद्युन्मती च / तथा-चित्रासेनकः पिता, भद्रा च तददुहिता / तथा पन्थकः पिता, नागयशाः कन्यका / पुनः समुचये, तथा कीर्तिमती कन्या, कीर्तिसेनश्च तत्पिता। तथा-देवी च नागदत्ता यशोमती रत्नवती च, पिता च सर्वासामपि यक्षहरिलः / चः समुच्चये, वच्छी च कन्या, चारुदत्तः पिता, तथा वृषभो जनकः कात्यायनसगोत्रा तत्सुता शिला नाम। तथा धन (ण) देवो नाम वणिक, अपरश्च वसुमित्रः, अन्यश्च सुदर्शनो दारुकश्च निकृतिमान् मायापरः, चत्वारोऽमी कुक्कुटयुद्धव्यतिकरे मिलिताः, तत्राच पुस्ती नाम कन्यका, तथा पिङ्गला नाम कन्या, पोतश्च तत्पिता, सागरदत्तश्च वणिक् तदङ्गजा च दीपशिखा। तथा-काम्पिल्यः पिता, मलयवती दुहिता, तथा धनराजी नाम कन्या, तजनकश्च सिन्धुदत्तः तथा तस्यैवान्या सोमा च नाम कन्या, तथा सिन्धुसेनप्रद्युम्नसेनयोर्यथाक्रमं वानीरनाम्नी प्रतिकाभिधान चेति / पठ्यते च-प्रतिभा वेति / द्वे दुहितरौ, तथा हरिकेशा गोदत्ता करेणुदत्ता करेणुपदिका च, (कुंजरकणेरुसेण त्ति) सेनाशब्दस्य प्रत्येकमभिरसम्बन्धात् कुञ्जरसेना करेणुसेना च, ऋषिवृद्धिः कुरुमती च देवी सकलान्तः पुरप्रधाना अष्टौ, कुरुमती च स्त्रीरत्नं ब्रह्मदत्तेनावाप्तेति सर्वत्र शेषः / अतिप्रसिद्धत्वाच तदेतजनकनाम्नामनभिधानमिति गाथापञ्चकाऽर्थः / अधुना येषु स्थानेषु असौ (ब्रह्मदत्तः) भ्रान्तस्तान्यभिधातुमाहकंपिल्लं गिरितडगं, चंपा इत्थिणपुरं च साएयं / समकडगं नंदोसा, वंसीपासाय समकडगं // 344 / / समकडगाओ अडवी, तण्हा वडपायवम्मि संकेओ। गहणं वरघणुअस्स य, बंधणमक्कोसणं चेव / / 345 / / सो हम्मई अमचो, देहि कुमार कहिं तु मे नीओ ? | गुलियविरेयणपीओ, कवडमओ छड्डिओ तेहिं / / 346 / / तं सोऊण कुमारो, भीओ अह उप्पहं पलाइत्था। काऊण थेररूवं, देवो वाहेसि य कुमारं / / 347 // वडपुडग बंभथलयं, वडथलगं चेव होइ कोसंबी। वाणारसि रायगिह, गिरिपुर महुरा य अहिछत्ता / / 348 // वणहत्थी य कुमार, जणयइ आहारण वसण गुणलुद्धो। वच्चंतो वडपुरओ, अहिछत्तं अंतरा गामो // 346 / / गहणं नईकुडंगं, गहणतरागाणि पुरिसहिययाणि / देहाणि पुण्णपत्तं, पियं खु णो दारओ जाओ / / 350 / / सुपइटे कुसकुंडिं, भिकुंडिवित्तासियम्मि जियसत्तू। महुराओ अहिछत्तं, वच्चंतो अंतरा लभइ / / 351 / / इंदुपुरे रुद्द (भद्द) पुरे, सिवदत्तविसाहदत्तधूयाओ। बडुअत्तणेण लभई, कन्नाओ दोन्नि रज्जं च / / 352 / / रायगिहमिहिलहत्थिण-पुरं च चंपा तहेव सावत्थी। एसा उनगरहिंडी, वोधव्वा बंभदत्तस्स / / 353 / / रयणुप्पया य विजओ, बोधव्वो दीहरोसमुक्खे य / संभरण नलिणिगुम्म, जाईइ पगासणं चेव / / 354 / /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy