________________ पचक्खाण 103 - अभिधानराजेन्द्रः - भाग 5 पञ्चक्खाण पानकाऽऽदि वर्जने उदकापरित्यागे शेषाणामाहारभेदाना, निवृत्तिर्न कृता भवतीति वाक्यशेषः। ततः का नो हानिरितिचेव? भवति विशेषविवेकः, अस्ति च शेषाऽऽहारभेदपरित्यागः, न्यायोपपन्नत्वात् प्रेक्षापूर्वेणेत्यर्द्धकु क्कुट्याः पठ्यते अर्द्ध प्रसपीय कल्पत इत्यपरिणतानां श्राद्धानां च न जायते (2) एवं सामान्यविशेषभेदनिरुपणया सुखावसेयं सुखश्रद्धेयं च भवति / इति गाथार्थः // 36 // तथा चाऽऽहअसणं पाणगं चेव, खाइमं साइमं तहा। एवं परुविअम्मी, सद्दहिउं जं सुहो होइ॥४०|| अशनं पानक चैव खादिम स्वादिम तथा, एवं प्ररुपिते सामान्यविशेषभादनाख्याते तथ्यावबोधात् श्रद्धातुं सुखं भवति-सुखेन श्रद्धा प्रवर्तते, उपलक्षणार्थत्वाद्दीयते, पाल्यते च सुखम्। इति गाथार्थः / / 4 / / आह-मनसाऽन्यथा संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागग्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र कः प्रगागम् ? उच्यते-शिष्यस्य मनोगतो भाव इति। आह चअन्नत्थ निविडए वं-जणम्मि जो खलु मणोगओ भावो। तं खलु परक्खाणं, न पमाणं वंजणं छलणा // 41 / / अन्यत्र निपतिते व्यञ्जने त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्यवमादौ निपतिते शब्दे यः खलु मनोगतो भावः प्रत्याख्यापयितुः, खलुशब्दो विशेषणे / अधिकतरसंयमयोगकरणं क्षिप्तचेतसोऽन्यत्र निपतिते, न तु तथाविधप्रमादात्यो मनागतो भावः तत्खलु प्रत्याख्यानं न प्रभाणन्, अनेनापान्तरालगतसूक्ष्मविवक्षाऽन्तरप्रतिषेधमाह / आद्याया एव प्रवर्तकत्वाद् व्यवहारदर्शनस्य पाधिकृतत्वात्, अतो न प्रमाण व्य-जनं तच्छिक्षाऽऽचार्यवचनम्, किमिति ? छलनाऽसौ / व्वजनमात्र, तदन्यथाभावसभावात्। इति गाथार्थः // 41 / / इदं च प्रत्याख्यानं प्रधानं निर्जराकारणमिति विधवदनुपालनीयम्, तथा चाऽऽहफासिअंपालिअंचेव, सोहिअंतीरिअंतहा। कित्तिअमाराहिअंचेव, एरिसम्मि पयइअव्वं / / 4 / / स्पृष्ट प्रत्याख्यानग्रहणकाले विधिना प्राप्त, पालितं चैव पुनः पुनरुप- | योगप्रतिजागरणेन रक्षितं, शोभितं गुर्वदिप्रदत्तशेषभोजनाऽऽसेवनेन, तीरित तथा-पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन, कीर्तित भोजनवेलायामनुकं प्रत्याख्यानं तत्पूर्णमधुना भोक्ष्ये, इत्युच्चारणे, आराधितं चैव-एभिरेव प्रकारैः संपूर्णैर्निष्ठा नीतं, यस्मादेवंभूतमेतदाज्ञापालनादप्रमादाच महत्कर्मक्षयकारणं तस्मात् अस्मिन् प्रयतितव्यमिति एवंभूत एव प्रत्याख्याने यतः कर्तव्य इति गाथार्थः // 42 // उचिए काले विहिणा, जंपत्तं फासिअंतयं भणियं / तह पालिअंच असई, सम्म उवओगपडिअरिअं॥४३|| गुरुदत्तसेसभोअण-सेवणयाए असोहिअंजाण / / पुन्ने वि थोवकाला-वत्थाणा तीरिअं होइ।।४४।। मोअणकाले अमुगं, पच्चक्खायं ति सरइ किट्टीअं / आराहियं पयारेहिँ, सममेएहि निट्ठविअं॥४५॥ गाथात्रयमन्यकर्तृकम्। साम्प्रतमनन्तरं, पारम्पर्येण च प्रत्याख्यानगुणानाहपचक्खाणम्मि कए, आसवदाराई हुंति पिहिआई। आसववुच्छेएण य, तम्हा वुच्छे अणं होइ॥४६|| प्रत्याख्याने कृते सम्यक् निवृत्तौ कृताया किमाअवद्वाराणि भवन्ति पिहितानि तद्विष्यप्रतिवद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्राप्रवृत्तेराश्रवव्यच्छेदेन च कर्मबन्धद्वारस्थगनेन, संवरणेन चेत्यर्थः। किम् ? तझ्यवच्छेदनं भवति तद्विषयाभिलाषनिवृत्तिर्भवति / इति गाथार्थः // 46 / / तम्हा वुच्छेएण य, अउलोवसमो भवे मणुसाणं। अउलोवसमेण पुणो, पचक्खाणं हवइ सुद्धं / / 47 / / तहावच्छेन च तद्विषयाभिलाषनिवृत्त्या च अतुलः अनन्यसदृश उपशमः माध्यस्थ्यपरिणाओ भवति मनुष्याणां पुरुषाणां जायते। पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थ मनुष्यग्रहणम्, अन्यथा स्त्रीणामपि भवत्येव / अतुलोपशमेन पुनरनन्यसदृशमाध्यस्थ्यपरिणामेन, पुनः प्रत्याख्यानमुक्तलक्षणं भवति शुद्धंजायते निष्फलङ्कम्। इतिगाथार्थः / / 47 / / तत्तो चरित्तधम्मो, कम्मविवेगो तओ अपुव्वं च। तत्तो केवलनाणं, तत्तो मुक्खो सया सुक्खो।।४८|| ततः प्रत्याख्यानात् शुद्धाचारित्रधर्मः, स्फु रतीति वाक्यशेषः / कर्मविवेक कर्मनिर्जरा, ततश्व चारित्रधर्मात्, ततश्चेति द्विरावर्तते, ततश्च तस्माच कर्मविवेकात् अपूर्वमिति क्रमेणापूर्वकरणं भवति / ततः अपूर्वकरणाच्छ्रे णिक्रमेण केवलज्ञानम, ततश्च केवलज्ञानद्भवोपग्राहिकर्मक्षयेणः मोक्षः सदा सौख्यः अपचर्मो नित्यसुखो भवत्येवमिदं प्रत्याख्यानं सकलकल्पैककारणमतो यनेन कर्तव्यमिति गाथार्थः / / 48|| आ० व०६ अ० धo1 एवमपि शुद्ध्यमानेन प्रत्याख्यान कार्यमतस्तत्फलं प्रश्नपूर्व कमाद्दपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ?| पञ्चक्खाणेणं आसवदाराई निरुंभइ, पचक्खाणेणं इच्छानिरोहं जणयइ, इच्छानिरोहं गए णं जीवे सव्वदवेसु विणीयतएहे सीयलभूए विहरइ||१३|| हे भदन्त ! प्रत्याख्यानेन मूलगुणोत्तरगुणप्रत्याख्यानरुपेण जीवः किं जनयति? गुरुराह-हे शिष्य ! प्रत्याख्यानेन आश्रवद्वाराणि निरुणद्धि अतिशयेव आवृणोति / अत्र प्रत्यन्तरे कुत्रचित् अयं प्रश्रोऽस्ति- हे स्वामिन् ! प्रत्याख्यानेन जीवः किं जनयति ? अत्रोत्तरम्-हे शिष्य ! प्रत्याख्यानेनच्छानिरोधमाहाराऽऽदिवाच्छाया निरोधं जनयति, इच्छानिरोध प्राप्तो जीवः सर्वद्रव्येषु विनीतृष्णो भवति-सुतरामतिगयेन विनीता स्फोटिता तृष्णा येन स सुविनोततृष्णः- अत्यन्तवरीकृततृष्णः सन् शीतलीभूतो विहरति ब्राह्माभ्यन्तरसन्तापरहितो विचरति॥१३॥ उत्त० 26 अ०। इदं च प्रत्याख्यानमिहोपाधिभेदाद्दशविधं भवतिः, आकार-समविन्वतं च गृहाते पाल्यते च। अत इदमभिधित्सुराहनमुकारयोरिसीए, पुरिमड्वेगासणेगठाणे अ। आयंबिलि भत्तट्टे, चरमे अ अभिग्गहे विगई ||vel