SearchBrowseAboutContactDonate
Page Preview
Page 1193
Loading...
Download File
Download File
Page Text
________________ बंध 1155 - अभिधानराजेन्द्रः - भाग 5 बंध सर्वा प्रथमतृतीयभड़ो, यतस्तत उद्वृत्तामानन्तर्येण सत्य पि मानुषत्वे निर्वाणाऽभावस्तस्मादवश्यं पुनस्तेषामायुषो बन्ध इति / यदुक्तम्विकलेन्द्रियाणां सर्वा प्रथमतृतीयभङ्गाविति, तदपवादमाह - (नवरं संमत्ते इत्यादि) सम्यक्तवे ज्ञाने आभिनिबोधिके श्रुते च विकलेन्द्रियाणां तृतीय एव, यतः सम्यक्त्वाऽऽदीनि तेषां सासादनभावेनापर्याप्तकावस्थायामेव तेषु चापगतेष्वायुषो बन्ध इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाऽऽद्यवस्थायां न बध्नन्ति, तदनन्तरञ्च भत्स्यतीति तृतीय इति / (पंचिदियतिरिक्खेत्यादि) पञ्चेन्द्रियतिरश्या कृष्णपाक्षिकपदे प्रथमतृतीया कृष्णपाक्षिको हि आयुर्बद्धवा अबद्धवा वा तदबन्धकोऽनन्तरमेव न भवति तस्य सिद्धिगमना ऽयोग्यत्वादिति। (सम्मामिच्छते तइयचउत्थि ति) सम्यग्मिथ्यादृष्ट रायुषो बन्धभावात् तृतीयचतुर्थावेव, भावित तत् प्रागेवेति / (संमत्ते इत्यादि) पञ्चेन्दियतिरश्चा सम्यक्त्वाऽऽदिषु पञ्चसु द्वितीय वर्जा भङ्गा भवन्ति / कथम? यदा सम्यग्दृष्ट्यादिः पञ्चेन्द्रियतिर्थडायुर्बध्नाति तदा देवेष्वेव, स च पुनरपि भत्स्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौ तु प्रतीतावेन, चतुर्थः पुनरेवम्-यदा मनुष्येषु बदाऽऽयुरसौ सम्यक्त्वाऽऽदि प्रतिपद्यतेऽनन्तरं च प्राप्तव्यचरमभवस्तदैवेति (मणुस्साणं जहा जीवाणं ति) इति विशेषमाह (नवरमित्यादि) सम्यक्त्वसामान्यज्ञानाऽऽदिषु पञ्चसु पदेषु मनुष्या द्वितीयविहीनाः। भावना चेह पञ्चेन्द्रियतिर्यकसूत्रावदव सेयेति। भ०२६श०१ उ०। प्रथमोद्देशके जीवाऽऽदिद्वारकादशकप्रतिबद्धन्वभिः पापकर्माऽऽदिप्रकरणैर्जीवाऽऽदीनि पञ्चविंशतिजीवस्थानानि निरूपितानि, द्वितीयऽपि तथैव तानि चतुर्विशतिर्निरूप्यन्ते, इत्येवं संबद्धस्याऽस्येदमादिसूत्रम्अणंतरोववण्णाए णं भंते! णेरइए पावं कम्मं किं बंधी पुच्छा तहेव? गोयमा! अत्थेगइए बंधी पढमवितिया भंगा / सलेस्से णं भंते अणंतरोववण्णे णेरइए पावं कम्मं किं बंधी पुच्छा? गोयमा ! पढमवितिया भंगा, एवं खलु सव्वत्थ पढमवितिया भंगा, णवरं सम्मामिच्छत्तं मणजोगो वइजोगो य ण पुच्छिज्जइ, एवं० जाय थणियकुमारा / बेइदियतेइंदियचउरिं दियाणं वइजोगो ण भण्णइ / पंचिंदियतिरिक्खजोणियाणं पि सम्मामिच्छत्तं ओहिणाणं विभंगणाणं मणजोगो वइजोगो एयाणि पंच ण भण्णंति / मणुस्साणं अलेस्सासम्मा मिच्छित्तमणपज्जव णाणकेवल णाणविभंगणाणणोसण्णोवउत्ते अवेदगअकसायी मणजोगी वइजोगी अजोगी एयाणि एक्कारस पयाणि ण भण्णंति। वाणमंतरजोइसियवेमाणिया जहा णेरइयाणं तहेव तिण्णि ण भण्णति, सव्वेसिं याणि सेसाणि ठाणाणि सव्वत्थ पढमवितिया भंगा। एगिदिया सव्वत्थ पढमवितिया जहा पाये। एवं णाणावर णिज्जेण वि दंडओ, एवं आउयवजेसुजाव अंतराइए दंडओ। अणंतरोववण्णए णं भंते! णेरइए आउयं कम्मं किं बंधी पुच्छा? गोयमा ! बंधी, ण बंधइ, बंधिस्सइ / सलेस्से णं भंते! अणंतरोववण्णाए णेरइए आउयं कम्मं किं बंधी?, एवं चेव ततिओ भंगो। एवं जाव अणागारोवउत्ते सव्वत्थ विततिओ भंगो / एवं मणुस्सवजं० जाव वेमाणिया / मणुस्साणं सव्वत्थ ततिओ चउत्थो भंगो, णवरं कण्हपक्खिएसु ततिओ भंगो सव्वेसिं णाणत्ताई चेव। सेव भंते! भंते! त्ति। (अणंतरोववण्णाए णमित्यादि) इहाऽऽद्यावेव भङ्गो, अनन्तरोत्पन्ननारकस्य मोहलक्षणपापकर्माबन्धकत्वासम्भवा त्तद्धि सूक्ष्मसम्परायाऽऽदिषु भवति, तानि च तस्य न संभवन्तीति (सव्वत्थ त्ति) लेश्याऽऽदिपदेषु, एतेषु च लेश्याऽऽदिपदेषु सामन्यतो नारकाऽऽदीनां सम्भवन्त्यपि, यानि पदान्यनन्तरोत्पन्ननारकाऽऽदीनामपर्याप्तकत्वेन सन्ति, तानि तेषां न प्रच्छनीयानीति दर्शपन्नाह -(नवरमित्यादि) अत्रसम्यगमिथ्यात्वाऽऽक्तत्रयं यद्यपि नारकाणामस्ति तथाऽपीहा नन्तरोत्पन्न तया तेषां तन्नास्तीति न प्रच्छनीयमेवमुत्तरत्रापि। आयु:-कर्मदण्डके - (मणुरसाणं सव्वत्थ तइयचउत्थ त्ति) यतोऽनन्तरोत्पन्नो मनुष्यो नायुर्बध्नाति, भन्स्यति पुनश्चरमशरीरस्त्वसौ न बध्नाति, न च भन्स्यतीति (कण्हपक्खिएसु तइओ त्ति) कृष्णपाक्षिक्त्वेन न भन्त्स्यंतीत्येतस्य पदस्याऽसम्भवात् तृतीय एव। (सव्वेसि नाणत्ताई ताई चेव त्ति) सर्वेषां नारकाऽऽदिजीवानां यानि पापकर्मदण्डकेऽभिहितानि नानत्वानि तान्येवाऽऽयुदण्डकेऽ पीति / भ० 26 श०२ उ०। परंपरोववणाए णं भंते! णेरइए पावं कम्मं किं बंधी पुच्छा? गोयमा ! अत्थेगइए पढमवित्तिओ एवं जहेव पढमओ उद्देसओ तहे व परंपरोववण्णएहिं विइओ उद्देसओ भाणियंटवो / णेरइयादीओ तहेवणावदंडगसंगहिओ अट्ठाण्ह वि कम्मपगडीणं जा जस्स कम्मस्स वत्तव्वया सातस्स अहीणमतिरित्ता णेयव्वा० जाव वेमाणिया, अणागारोवउत्ता सेवं भंते! भंते! त्ति। (परंपरोक्वण्णाए णमित्यादि) (जहेव पढमो उद्देसओत्ति) जीवनारकाऽऽदिविषयः केवलं तत्र जीवनारकाऽऽदिपञ्चविंशतिः पदान्यभिहितानि, इह तु नारकाऽऽदीनि चतुर्विशतिरेवेत्येतदेवा ऽऽह-(णेरइओश्रोत्ति) नारकाऽऽदयोऽत्रा वाच्या इत्यर्थः / (तहेव नवदंडगसंगहिओ त्ति) पापकर्मज्ञानाऽऽवरणाऽऽदिप्रतिबद्धा ये नव दण्डकाः प्रागुत्कास्तैः संगृहीतोयुक्तो य उद्देशकः स तथा / भ०२६श०३ उ०। एवं चतुर्थाऽऽदय एकादशाऽनन्ता:अणंतरोवगाढए णं भंते! णेरइए णं पावं कम्मं किं बंधी पुच्छा? गोयमा ! अत्थे गइए एवं जहेव अणंतरोववण्णएहिं
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy