SearchBrowseAboutContactDonate
Page Preview
Page 1179
Loading...
Download File
Download File
Page Text
________________ 1171 - अभिधानराजेन्द्रः - भाग 5 बंध त्कृष्ट प्रदेशबन्धमुपकल्पयन्ति। सम्यग्मिथ्यादृष्टिरपूर्वकरणाऽऽदयश्चाऽऽमुने बध्नन्तीतिनेह गृहीताः। सास्वादनस्तायुबंधनात्येव स किमित नगृहीतः? इति चेदुष्यते तन्नोत्कृष्ट-प्रदेशभिबन्धनोत्कृष्टयोगाऽभावात्। तथाहि अनन्तानुबन्धिनामुत्कृष्टोऽनुत्कृष्टश्च प्रदेशबन्धा मिथ्यादृष्टी साद्यधुवएच भणिष्यते, यदि तुसास्वादनेऽप्युत्कृष्टयोमोलभ्यते तदाऽसावप्यनन्तानुबन्धिनो बध्नात्येव, अतो यथाऽविरताऽऽदिष्वप्रत्याख्यानाऽऽवरणाऽऽदिप्रकृतीनामुत्कृष्ट प्रदेशबन्धसद्भावतोऽनुत्कृष्टः / प्रदेशबन्धः साऽऽद्याऽऽदि चतुर्विकल्पोऽप्यभिधास्यते तथैवानन्तानुबन्धिनां मिथ्यात्वभागलाभात् सास्वादने उत्कृष्टप्रदेशबन्धसद्भावतोऽनुत्कृष्टः प्रदेशबन्धः साद्याऽऽदिचतुर्विकल्पोऽपिस्यात्, न चैवं निर्हिश्यते, तस्माज्ज्ञायतेऽल्पकालभावित्वेन तथाविधप्रयत्नाभावादन्यतो वा कुतश्चित्कारणात्सास्वादनस्योत्कृष्टयोगो नास्ति / किंच-अनन्तरमेवोत्तरप्रकृतिस्वामित्त्वे मतिज्ञानाऽऽवरणाऽऽदि प्रकृतीना प्रत्येक सूक्ष्मसंपरायाऽऽदिषत्कृष्ट प्रदेशबन्धमभिधाय भणितशेषप्रकृतीनां मिथ्यादृष्टिमेवोत्कृष्ट प्रदेशबन्धस्वामिनं निर्देक्ष्यति न सास्वादनं, यद्वक्ष्यति -- "सेसा उक्कोसपएसगा मिच्छो।" बृहच्छतकेऽप्युत्कम्"सेसपएसुक्कंड (कोस) मिच्छो त्ति। अतोऽपिज्ञायते 'नास्ति सास्वादनस्योत्कृष्ट योगसंभवः / अतो ये सास्वादनमप्यायुष उत्कृष्टप्रदेशस्वामिन मिच्छन्ति सन्मतमुपेक्षणीयमिति स्थितम्। (वितिगुणविणु मोहि सत्त मिच्छा इति) मोहनीयस्योत्कृष्टप्रदेशबन्धस्वामित्वे द्वितीय तृतीयगुणौ विना सास्वादनसम्यग्दृष्टि सम्यग्मिथ्यादृष्टि गुणस्थानके च वर्जयित्वा शेषाणि मिथ्यादृष्टयादीनि अनिवृत्तिबादरान्तानि सप्त गुणस्थानकान्यधिक्रियन्ते। इदमत्र हृदयम्-मिथ्यादृष्टयविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणा निवृत्तिबादरगुणस्थानकवर्तिनः सप्त जना उत्कृष्टयोगे वर्तमानाः सप्तविधबन्धका मोहस्योत्कृष्ट प्रदेशबन्धं कुर्वन्ति / अन्ये तु - सास्वादनमिश्रावपि संगृह्य 'मोहस्स नव उ ठाणाणि त्ति" पठन्ति, तच न युक्तियुक्तं, यतः सास्वादनस्योत्कृष्टयोगो न लभ्यते इत्युक्तमेव, मिश्रेऽप्युकृष्टयोगो न लभ्यते। तथाहि-द्वितीयकषायाणामुत्कृष्टप्रदेशबन्धस्वामिनमविरतमेव निर्देष्यति "अजया देसा वितिकसाए'' इति वचनात् / यदि तु मिश्रे अप्युत्कृष्टयोगो लभ्यते तदा सोऽपि तत्स्वामितया निर्दिश्यत, न च वक्तव्य मिथादल्पतरप्रकृतिबन्धकोऽविरत इत्ययमेव गृहीतो, यतोऽविरतोऽपि मूलप्रकृतीनां सप्तविधबन्धकस्तत्रा गृहीष्यते, मिओऽपि सप्तविधबन्धक एव, उत्तरप्रकृतीरपि मोहनीयस्य सप्तदशाविरतो बध्नाति, मिश्रेऽप्येतावतीरेव, तस्मादुत्कृष्टयोगभावं विहाय नापरं तत्परित्यागे कारणं सभीक्षामहेइति। मिश्रेऽप्युत्कृष्टयोगा भावात्सप्तैव मोहोत्कृष्टप्रदेशबन्ध का इति स्थितम्। 'छह सत्तरस सुहुम त्ति / ' मूलप्रकृतीनां षण्णां ज्ञानाऽऽवरणदर्शना ऽऽवरणवेदनीयनामगोत्रान्तराय लक्षणानाम्। सूचकत्वात्सूत्रस्य सूक्ष्मसंपराय उत्कृष्टयोगे वर्तमान उत्कृष्ट प्रदेशबन्धं विदधाति, सूक्ष्मसंपरायो हि मोहायुषी न बध्नात्यतस्तद्भागोऽधिकोलभ्यत इत्यस्यैव ग्रहणमिति। तथा सप्तदशाना ज्ञानाऽऽवरणपञ्चकदर्शनाऽऽवरण | चतुष्टय सात्रवेदनीययश: कीयुकच्चैर्गोत्रान्तरायपञ्चलक्षणानामुत्तर प्रकृतीनां सूक्ष्मसंपराय उत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशबन्ध विदधाति, मोहाऽऽयुषी असौ नबध्नातीत्यव तद्भागोऽधिको लभ्यते। अपरं च-दर्शनाऽऽवरणभागो नामभागश्च सर्वोऽपीह यथासंख्यं दशर्नाऽऽवरणचतुष्कस्वयशः कीर्तेश्चैकस्या भवतीति सूक्ष्मसंपरायस्यैव ग्रहणम् / (अजया देसा वितिकसाए त्ति) अयता अचिरतसम्यग् दृष्टयः सप्तविधबन्धका उत्कृष्टयो गे वर्तमाना द्वितीयकषायान् प्रत्याख्यानाऽऽषरणानुत्कृष्टप्रदेश बन्धान विदधति, मिथ्यात्वमनन्तानुबधिनश्चैते नबध्यन्त्यतस्तद्भागद्रव्यमधिकं लभ्यत इत्यमीषामेव ग्रहणमा तथा देशा-देशविरताः सप्तविधविधवम्यका उत्कृष्टयोगे वर्तमानास्तृतीय कषायान् प्रत्याख्यानाऽऽवरणाऽऽख्यानुत्कृष्ट प्रदेशबन्धात् कुर्वते, प्रत्याख्यानाऽऽवरणानामप्यमी अबन्धका अतस्तद्भागोऽधिको लभ्यत इति कृत्या / / 60|| पण अनियट्टी सुखगइ, नराउसुरसुभगतिग विउव्विदुर्ग। समचउरंसमसायं, वइरं मिच्छो व सम्मो वा / / 11 || (पण त्ति) पञ्च प्रकृतीः पुरुषवेदसंज्वलनत्ततुष्टलक्षणा, अनिवृत्तिबादरः सर्वोत्कृष्टयोगे वर्तमान उत्कृष्ट प्रदेशबन्धः करोति / तत्र पुरुषवेदस्य पुंवेदसंज्वलनचतुष्टयाऽऽत्मकं पञ्चविध बधन्नसावुत्कृष्ट प्रदेशबन्ध करोति, हास्यरतिभय जुगुप्साभागो लभ्यत इत्यस्यैव ग्रहणम् / संज्वलनक्रोधस्य निवृत्तिबादरः पुंवेदबन्धे व्यवच्छिन्ने संज्वलक्रोधाऽऽदिचतुष्टयं बन्धन्नुत्कृष्टयोगे वर्तमान उत्कृष्ट प्रदेशवन्धं विदधाति, मिथ्यात्वाऽऽद्यकषायद्वादशकभागः सर्वनोषायभागश्च लभ्यत इति कृत्वा / संज्वलनमानस्य स एव कोधबन्धे व्यवच्छिन्नं संज्वलनमानाऽऽदित्रयं बध्नन्नुकृष्टप्रदेशबन्धं मानस्य करोतिक्रोधभागो लभ्यत इति कृत्वा। स एव मानबन्धे व्यवच्छिन्ने मायालोभौ बध्नन् मायाया उत्कृष्ट प्रदेशबन्धं करोति मानभागोऽपि लभ्यत इति कृत्वा / स एवं मायाबन्धे व्यवच्छिन्ने लोभमेक बध्नस्तस्यैवोत्कृष्ट प्रदेशबन्धं करोति एकं द्वौ समयौ, एतच्च विशेषणं प्रागपि द्रष्टव्यं समस्तमोहनीय भागस्तत्रा लभ्यत इति लोभबन्धकस्यैव ग्रहणमिति / तथा सुखगतिः प्रशस्तविहयोगतिः, नरायुः, त्रिकशब्दस्य प्रत्येकं संबन्धात् सुरत्रिकं सुरगतिसुरानुपूर्वीसुराऽऽयुर्लक्षणं, सुभगत्रिकं सुभगसुस्वराऽऽदेयस्वरूपम, वैकियद्विकम्वैकियशरीरवैकियाङ्गोपाङ्ग लक्षणं, समचतुरस्र संस्थानम्, असातवेदनीयम्, (वइरं ति) वजऋषभनाराचसंहननम्, इत्येतास्त्रयोदश प्रकृतीमिध्यादृष्टिः सम्यग्दृष्टिा उत्कृष्टप्रदेशाः करोति। तथाहि-असातं यथा मिथ्यादृष्टिः सप्तविधबन्धको बध्नाति, तथा सम्यग्दृष्टिरपि सप्तविधबन्धक एवैतद्वध्नात्यतः प्रकृतिलाघवाऽऽदिविशेषाभावादुत्कृष्टयोगे वर्तमानौ द्वावप्यसातमुत्कृष्ट प्रदेशबन्धं कुरुतः देवमनुष्याऽऽयु षोरप्यष्टावध बन्धकावुत्कृष्टयोगे वर्तमानौ द्वावप्यविशेषे गोत्कृष्टप्रदेशबन्धं कुरुतः / देवगतिदेवानुपूर्वी वैकियशरीर वैकियाङ्गोपाङ्ग समचतुरससंस्थान प्रशस्तविहायोगति सुभगसुस्वराऽऽदेयलक्षणा नवनामप्रकृतयो नाम्नोऽटाविंशति बन्धकाले एव बन्धमागच्छन्ति, नाधस्तनेषु पूर्वोकृरूपेषु अयो
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy