SearchBrowseAboutContactDonate
Page Preview
Page 1177
Loading...
Download File
Download File
Page Text
________________ बंध 1166 - अभिधानराजेन्द्रः - भाग 5 बंध कगत्थोः सर्वस्तोक, स्वस्थाने तु द्वयोरपि तुल्यम्, ततो मनुजगतो विशेषाधिकं, ततस्तिर्यग्नता विशेषाधिकम्। तथा जातौ चतुर्णा द्वीन्द्रियाऽऽदिजातिनाम्रामुत्कृष्टपद प्रदेशाऽग्रसर्वस्तोकं, स्वस्थानेतुतेषां परस्पर तुल्यं, तत एकेन्द्रियजातेर्विशेषाधिकम् / तथा शरीरनानि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमाहारकशरीरस्य, ततो वैक्रियशरीरस्य विशषाधिकं, तत औदारिकशरीरस्य विशेषाधिक, ततस्तैजसशरीरस्य विशेषाधिकं ततः कार्मणशरीरस्य विशेषाधिकम्। एवं संघातनाम्रोऽपि द्रष्टव्यम्। तथा बन्धननामि सर्वस्तोकमुत्कृष्टपदे प्रदेशागमाहारकाऽऽहारकबन्धननाम्रः, तत आहारकतैज सबन्धननाम्रो विशेषाधिकम्। तत आहारककार्मणबन्धननाम्नो विशेषाधिक. तत आहारकतैजसकार्मणवन्धननाम्नो विशेषाधिक, ततो वैक्रियवैक्रियबन्धननाम्नो विशेषाधकं, ततो वक्रियतजसबन्धननाम्रो विशेषाधिकं, ततो वैक्रियकार्मणयन्धनना नो विशेषाधिकं, ततो वैक्रियतैजसकार्मणबन्धननाम्नो विशेषाधिकं, तत औदारिकौदारिबन्धननाम्नो विशेषाधिक तत औदारिकतैजसम्बन्धननाम्नो विशेषाधिक, तत औदारिकंकामणबन्धननाम्रो विशेषाधिकं, तत औदारिकतैजसकार्मणबन्धननाम्रो विशेषाधिकं, ततत्तैजसतैजसबन्धननाम्रो विशेषाधिक, ततस्तैजसकार्मणबन्धननाम्रो विशेषाधिक, ततः कार्मणकार्मणबन्धननानो विशेषाधिकम्। तथा संस्थाननानि संस्थानानामाद्यन्तवर्जानां चतुर्णामुत्कृष्ट पदे प्रदेशाग्रं सर्व स्तोक, स्यस्थाने तु तेषां परस्परं तुल्य, ततः समचतुर ससंस्थानस्य विशेषाधिक, ततो हुण्डसंस्थानस्य विशेषाधिक, तथाऽङ्गापाङ्गनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशागमाहार काङ्गोपाङ्गनाम्नः ततो वैक्रियाङ्गोपाङ्गनाभ्रो विशेषाधिकं, ततोऽप्यौदारिकाङ्गोपाङ्गनाम्रो विशेषाधिकम् / तथा संहनननानि सर्वस्तोकमाद्यानां पञ्चानां संहननानामुत्कृष्टपदे प्रदेशाग, स्वस्थाने तु तेषां परस्परंतुल्यं, ततः सेवार्तसंहननस्य विशेषाधिकम्। तथा वर्णनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं कृष्णवर्णनाम्नः, ततो नीलवर्णनाम्नो विशेषाधिक, ततोलोहित वर्णनाम्नो विशेषाधिकं,ततो हारिद्रवर्णनाम्नो विशेषाधिकं, ततः शुक्लवर्णनाम्नो विशेषाधिकम्। तथा गन्धनाम्नि सर्वस्तोक सुरभिगन्धनाम्नः, तता दुरभिगन्धनाम्नो विशेषाधिकम् / तथा रसनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशागं कटुरसनाम्नः, ततस्तिक्तरसनाम्नो विशेषाधिकं, ततः काषायरसनाम्नो विशेषाधिकं, ततोऽम्लरसनाम्नो विशेषाधिक, ततो मधुरसनाम्नो विशेषाधिकम् / तथा स्पर्शनाम्नि सर्वस्तोकमुत्कृष्ट पदे प्रदेशाग्रं कर्कशगुरुस्पर्शनाम्नोः, स्वस्थानं द्वयोरपि परस्परं तुल्यं, ततः स्निग्धोष्णस्पर्शनाम्नोर्विशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् / तथाऽऽनुपूर्वी नाम्नि | सर्वतॊकमुत्कृष्टपदे प्रदेशाग्र देवगतिनरकगव्यानुपूर्योः, स्वस्थाने तु द्वयोरपि परस्परं तुल्यं, ततो मनुजगत्यानुपूा विशेषाधिक, ततस्तिर्यग्गत्यानुपूा विशेषाधिकम्। तथा विहायोगतिनानम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्र प्रशस्तविहायोगतिनाम्नः, ततोऽप्रशस्तविहायोगतिनाम्नो विशषाधिकम्।तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रंासनाम्नः, ततो विशेषाधिक स्थावरनाम्नः / एवं बादरसूक्ष्मयोः पर्याप्तापर्याप्तयोः प्रत्येकसाधारणयोः स्थिरास्थिरयोः शुभाशुभयोः सुभगदुर्भगयोः सुस्वरदुःस्वरयोरादेयाना देययोर्यशः कीर्त्ययशः कीयोर्याच्यम्। आत पोदद्योतयोरुत्कृष्टपदे प्रदेशागं सर्वस्तोक, स्वस्थाने तुद्वयोरपि तुल्यम्। निर्माणोंच्छावासपराघातोपघानागुरुलघुतीर्थकराणां त्वल्पबहुत्वं नास्ति, यत इदमल्पबहुत्वं सजातीयप्रकृत्य पेक्षया प्रतिपक्ष प्रकृत्यपेक्षया वा चिन्त्यते, यथा कृष्णाऽऽदिवर्णनाम्नः शेषवर्णोपेक्षया, प्रतिपक्षप्रकृत्यपेक्षया वा यथा सुभगदुर्भगयोः, न चैताः परस्परं सजातीया अभिन्नैकमूलपिण्डप्रकृत्यभावात्, नापि विरुद्धा युगपदपिबन्धसंभवात्। तथा गोोसर्वस्तोक मुत्कृष्टपदे प्रदेशाग्रं नीचैर्गोत्रस्य, तत उच्चैर्गोत्रस्य विशेषाधिकम् / तथाऽऽन्तरायकर्मणि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं दानान्तरायस्य, ततो लाभान्तरानस्य विशेषाधिकं, ततो भोगान्तरायस्य विशेषाधिकं, तत उपभोगाऽन्तरायस्य विशेषाधिकं ततो वीर्यान्तरायस्य विशेषाधिकम् / तदेवमुक्तमुत्तरप्रकृतीनामुत्कृष्टपदे प्रदेशाग्राल्पबहुत्व, संप्रति जघन्यपदे तदभिधीयते-तत्रा सर्वस्तोक जघन्यपदे प्रदेशाग्र केवलज्ञानाऽऽवरणस्य, ततो मनःपर्यवज्ञानाऽऽवरणस्यानन्तगुणं ततोऽवधिज्ञानाऽऽवरणस्य विशेषाधिकं ततः श्रुतज्ञानाऽऽवरणस्य विशेषाधिकं, ततो मतिज्ञानाऽऽवरणस्य विशेषाधिकम्। तथा दर्शनाऽऽवरणस्य सर्वस्तोक जघन्यपदे प्रदेशाग्रं निद्रायाः, ततः प्रचलाया विशेषाधिकं, ततो निद्रानिद्राया विशेषाधिकं, ततः प्रचलाप्रचलाया विशेषाधिकं, ततः स्त्यानर्द्ध विशेषाधिकं, ततः केवलदर्शनाऽऽवरणस्य विशेषाधिकं, ततोऽवधिदर्शनाऽऽवरणस्यानन्तरगुणं ततोऽच क्षुर्दर्शनाऽऽवरणस्य विशेषाधिक, ततश्चक्षुर्दर्शनाऽऽवरणस्य विशेषाधिकम्। तथा मोहनीयं सर्वस्तोकं जघन्यपदे प्रदेशाग्रमप्रत्याख्यानाऽवरणामानस्य, ततोऽप्रत्याख्यानाऽ वरणक्रोधस्य विशेषाधिकं, ततोऽप्रत्याख्यानाऽऽवरणमाया विशेषाधिक, ततोऽप्रत्याख्याना ऽऽवरणलोभस्य विशेषाधिकम् / तत एवमेव प्रत्याख्यानाऽऽवरण मानक्रोधमायालोभानन्तानु वन्धिमानक्रोधमायालोभाना यथोत्तरं विशेषाधिक वक्तव्यम् / ततो मिथ्यात्वस्य विशेषाधिकम्। ततो जुगुप्साया अनन्तगुणम्। ततो भयस्य विशेषाधिकम् / ततो हास्य-शोकयोर्विशेषाधकं, स्वस्थाने तु द्वयोरपि परस्परतुल्यम्। ततो रत्यरत्योर्विशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम्। ततोऽन्यतरवेदस्य विशेषाधिकम्। ततः संज्वलनमानक्रोधमायालोभानां यथोत्तरं विशषाधिकम्। तथाऽऽयुपि सर्वस्तोक जघन्यपदे प्रदेशाग्रंतिर्यडमनुष्याऽऽयुषोः, स्वस्थाने तु परस्परं तुल्यं, ततो देवनारकाऽऽयुषारसंख्येयगुणं स्वस्थाने तु परस्परं तुल्यम्। तथा नामकर्मणि गती (सर्वस्तोक) जघन्यपदे प्रदेशागंतिर्यगतेः ततो मनुजगतेर्विशेषा-धिकं, ततो देवगतेरसंख्येयगुणं, ततो नरकगतेरसंख्येयगुणम् / तथा जातौ सर्वस्तोकं जघन्यपदे प्रदेशाग्रं चतुर्णी द्वीन्द्रियाऽऽदिजातिनाम्ना, तत एकेन्द्रियजाते विशेषाधिकम्। तथा शरीरनानि सर्वस्तोकमौदारिकशरीरनामः, ततस्तैजसशरीरानाम्नो विशेषाधिक, ततः कार्मणशरीरनाम्नो विशेषाधिकम, ततो वैक्रियशरीरनाम्नोऽसङ्ख्येयगुणम्। ततोऽप्याहारशरीरनाम्नोऽसंख्येयगुणम्। एवं सघातनाम्नोऽपि वाच्यम् / अङ्गोपाङ्गनाम्नि सर्वस्तोक जघ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy