SearchBrowseAboutContactDonate
Page Preview
Page 1123
Loading...
Download File
Download File
Page Text
________________ पोग्गलपरियट्ट 1115 - अभिधानराजेन्द्रः - भाग 5 पोग्गलपरियट्ट न गृह्यन्त एवेति / सूक्ष्मो भावपुद्रलपरावर्त उच्यते--इहकिलाऽनुभागबन्धाध्यवसायस्थानानि बध्यमानकर्मपुद्गलेषु ताद्दशाऽनुभागपलिच्छेदनिर्वर्तकानि असंख्येयलोकाऽऽकाश प्रदेशप्रमाणानि मन्दप्रवृद्धप्रवृद्धतराऽऽदिभेदतो वर्तन्ते, तत्र च सर्वस्तोकानुभागपलिच्छेदजनके कषायोदये वर्तमानः कश्चिजन्तुम॒तः, ततः कदाचित पुनरपि तस्मादनन्तरव्यवास्थते द्वितीयेऽनुभागबन्धावसायस्थाने विशेषाधिकाऽनुभागपलिच्छेदजनके वर्तमानो मृतः पुनरपितस्मात् कदाचिद्विशेषाऽधिकाऽनुभागपलिच्छेदजनके तृतीये, एवं क्रमेण क्रमेण विशेषाधिकाऽनुभागपलिच्छेद जनकाऽध्यवसायस्थानकेषु वर्तमानस्य मरणं तावद्वाच्य यावत्सर्वोत्कृष्टाऽनुभागबन्धाध्यवसायस्थाने म्रियमाणेन जन्तु नाऽनन्तानन्तैमरणैः सर्वाण्यपि स्पृष्टानि भवन्तीति व्यवहितानि पूर्वस्पृष्टानि च न गण्यन्त इति // 18 // व्याख्यातं सप्रपञ्चं पुद्गलपंरावर्तस्वरुपम्। कर्म०५ कर्म०। पोग्गलेपरियट्टो इह, दवाइ चउव्विहो मुणेयव्यो। एकेको पुण दुविहो, बायरसुहुमत्तमेएणं // 35 / / इहास्मिन्-पारमेश्वरे प्रवचने पुद्रलपरावर्तो द्रव्याऽऽदितो द्रव्यक्षेत्रकालभावभेदतश्चतुर्विधः-चतुःप्रकारो ज्ञातव्यः। तद्यथा-द्रव्यपुगलरावर्तः, क्षेत्रपुद्रलपरावर्त्तः, कालपुद्गलपरावतः, भावपुगलपरावर्त्तश्च / 'मुणेयव्यो' इत्यत्र "ज्ञोजाणमुणौ" ||847 / / इति प्राकृतलक्षणाज्जानातेमुण इत्यादेशः, पुनरप्येकैकः पुद्रलपरावर्तो बादरसूक्ष्मत्यभेदेन द्विधा--द्विप्रकारः, तद्यथा-बादरः, सूक्ष्मश्च // 35 // तत्रा बादर-सूक्ष्मद्रव्यपुद्गलपरावर्तावाहसंसारम्मि अडतो, जावय कालेण फुसिय सव्वाणू। इगु जीवु मुयइ बायर, अन्नयरतणुहिओ सुहुमो // 36 // संसरन्ति प्राणिनोऽस्मिन्निति संसारः-चतुर्दशरज्जवात्मक क्षेत्र, तस्मिन् संसारे अटन-परिभ्रमन्नेको जीवः सकलेऽपि संसारे ये केचन परमाणवस्तान् सनिपि यावता कालेन स्पृष्ट्वा मुञ्चति-औदारिकादिरुपतया परिभुज्य परिभुज्य परित्यजति, तावान् कालविशेषो बादरद्रव्य पुद्रलपरावर्त्तः / किमुक्तं भवति?यावता कालेनैकेन जीवेन सर्वे ऽपि जगदर्तिनः परमाणवो यथायोगमौदारिकवैक्रिय तैजसकार्मणभाषाप्राणपानमनस्त्वेन परिभुज्य परित्यक्ता स्तावान् कालविशेषो बादरद्रव्यपुद्रलपरावर्त्तः। सूक्ष्मद्रव्यपुद्गलपरावर्त्तमाह - (अन्नयरतणुडिओ सुहुमो) औदारिकाऽऽदीनां शरीराणामन्यत-मस्यां तनौशरीरे स्थितः सन् यावता कालेनैको जीवः संसारं परिभमन् सर्वानप्यणून स्पृष्ट्वापरिभुज्य मुञ्चति, तावान् कालविशेषः सूक्ष्मद्रव्यपुद्रलपरावतः / इयमत्रा भावना-यावता कालेन सर्वेऽपि लोकाऽऽकाशभाविनः परमाणव औदारिकाऽऽद्यन्यतमैक विवक्षितशरीररुपतया परिभुज्य निष्ठां नीयन्ते, तावान् कालविशेषः सूक्ष्मद्रव्यपुद्गलपरावर्त्तः, पुद्रलानां परमाणूनामौदारिकाऽऽदिरुपतया विवक्षितैकशरीररुपतया वा सामस्त्येन परावर्तः-परिणमनं यावति काले सतावान् कालः पुदलपरा वर्त्तः, इदं च शब्दस्य व्युत्पत्तिनिमित्तम्, अनेन च व्युत्पत्ति निमित्तेन स्वैकार्थसमवायिप्रवृत्तिनिमित्त मनन्तोत्सर्पिण्यवसर्पिणी मानत्वरूपं लक्ष्यते, तेन क्षेत्रापुद्रलपरवाऽऽदौ पुगल परावर्तनाऽभावेऽपि प्रवृत्तिनिमित्तस्याऽनन्तोत्सार्पिण्यव सर्पिणीमानत्वरूपस्य विद्यमानत्वात्पुदलपरावर्त्तशब्दः प्रवर्त्तमानो न विरुद्धयते / यथा गोशब्दः पूर्व गमने व्युत्पादितः, तेन च गमनेनव्युत्पत्तिनिमित्तेन स्वैकार्थसमवायिखुरक कुदलाडगूल सारस्रऽऽदिमत्वरूपं प्रवृतिनिमित्तमुपलक्ष्यते, ततो गमनरहितेऽपि गोपिण्डे प्रवृत्तिनिमित्तसद्भावाद्गोशब्दः प्रवत्तते इति। अस्मिश्च सूक्ष्मे द्रव्यपुरलपरावर्ते विवक्षितेकशरीरव्यतिरेकेणाऽन्यशरीरतया ये परिभुज्य परिभुज्य परित्यज्यन्ते ते न गण्यन्ते, किं तु प्रभूतेऽपि काले गते सति विवक्षितैशरीररुपतया परिणम्यन्ते, ते एव गण्यन्ते। तदेवमुक्तः सूक्ष्मबादरभेदभिन्नो द्रव्यपुद्गलपरावर्त्तः॥३६॥ सम्प्रति बादर-सूक्ष्मभेदभिन्न क्षेत्रपुद्गलपरावर्त्तमाह -- लोगस्स पएसेसु, अणंतरपरंपराविभत्तीहिं। खेत्तम्मि बायरो सो, सुहुमो उ अणंतरमयस्स // 37 // लोकस्यचतुर्दशरज्ज्वात्मकस्याऽनन्तरपरम्परा विभक्तिभ्याम्, अनन्तरप्रकारेण परम्पराप्रकारेण च, सर्वेषु प्रदेशेष्वेकस्य जीवस्य मृतस्य यावान कालविशेषो भवति, स तावान् क्षेत्राविषयो बादरपुद्गलपरावतः। किमुकं भवति? यावता कालेनैकेन जीवेन क्रमेणोत्क्रमेण वा यत्र तत्र म्रियमाणेन सर्वेऽपि लोकाऽऽकाशप्रदेशा भरणसंस्पृष्टाः क्रियन्ते, स तावान्कालविशेषः क्षेत्र बादरपुद्गलपरावर्त्तः। ___सम्प्रति क्षेत्रसूक्ष्मपुद्रलपरावर्त्तमाह'सुहुमोउ अणंतरमयस्स' चतुर्दशरजवात्मकस्य लोकस्य सर्वेषु प्रदेशेष्वनन्तरमृतस्यैकस्य जीवस्य यावान् कालविशेषः स तावान् सूक्ष्मः-सूक्ष्मक्षेत्रपुद्गलपरावर्तो भवति। इयमा भावना-यद्यपिजीवस्याऽवगाहना जघन्याऽपि असंख्येयप्रदेशाऽऽत्मिका भवति, तथाऽपि विवक्षिते कस्मिंश्चिद्देशे नियमाणस्य विवक्षितः कश्चिदेकः प्रदेशोऽवधिभूतो विवक्ष्यते, ततस्तस्मात्प्रदेशादन्यत्र देशान्तरे ये नमः प्रदेशामरणेनाऽवाप्यन्ते, ते न गण्यन्ते, किं त्वनन्तेऽपि काले गते सति विवक्षितात्प्रदेशादनन्तरो यः प्रदेशो मरणेन व्याप्तो भवति, सगण्यते,तस्मादप्यनन्तरो यः प्रदेशो मरणेन व्याप्तः स गण्यते / एवमानन्तर्य्यपरम्परया यावता कालेन सर्वेऽपि लोकाऽऽकाशप्रदेशा मरणेन स्पृष्टा भवन्ति, तावत्कालविशेषः सूक्ष्मक्षेत्रपुद्रलपरावर्त्तः, उक्तो बादरसूक्ष्मभेदभिन्नः क्षेत्रापुद्गलपरावर्तः।।३७ / / सम्प्रति बादर-सूक्ष्मभेदभिन्नं कालपुद्गलपरावर्तमाह -- उस्सप्पिणिसमएसुं, अणंतरपरंपराविभत्तीहिं। कालम्मि बायरो सो, सुहुमो उ अणंतरमयस्स॥३८॥ इहोत्सर्पिणीग्रहणेनाऽवसर्पिण्यप्युपलक्ष्यते। ततोऽयमर्थः-उत्सर्पिण्यवसर्पिणीसमयेषु सर्वेष्वपि अनन्तरपरम्पराविभक्तिभ्याम्अनन्तरप्रकारेण परम्पराप्रकारेण च मृतस्ययावान् कालो भवति, तावान् बादरः कालपुद्गलपरा मर्त्तः / एतदुक्तं भवति-यावता कालनैको जीवः सर्वा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy