SearchBrowseAboutContactDonate
Page Preview
Page 1063
Loading...
Download File
Download File
Page Text
________________ पुरेकम्म 1055- अभिधानराजेन्द्रः - भाग-५ पुरेकम्म संविग्ग, तं गिण्हंतोऽवि संविग्गो ||660 // गीतार्थग्रहणेन कृतेनैतज्झापितं, यदात्मार्थितम्, आदि शब्दात संक्रामित च, तदागमप्रमाणतो गीतार्थ एव गृहाति, नागीतार्थः / संविग्रग्रहणेन तु तदात्मार्थिताऽऽदि गृहनोऽपि गीतार्थः संविनो भवति, नासंविन इत्युक्तं भवति। इत्थं पुनः पुरतः कर्म भवतीति दर्शयतिपुरतो वि हुजं धोयं, अत्तट्ठाए न तं पुरेकम्मं / उद (उ) अल्लं, ससिणि-द्धगं च सुक्के तहिं गहणं / / 961|| यत्पुरतोऽपि साधोरगतोऽप्यात्मार्थ धौतं तत्पुरःकर्म न भवति, किंतु सदुदकाऽऽर्द्र सस्निग्धंवा मन्तव्यम्। उदकाऽऽर्द्रविन्दुसहित, सस्निग्धं विन्दुरहितं, तस्मिन्नुभयेऽपि शुष्के परिणते ग्रहणं कर्त्तव्यम्। पुरःकर्मोदकाऽऽर्द्रयोर्विशेषमाहतुल्ले वि समारंभे, सुक्के गहणेक एक्कपडिसेहो। अन्नत्थ छूढ ताविय, अत्तट्ठो होइ खिप्पं तु / / 162 // उदकाऽऽर्द्रपुरः कर्मणोः तुल्येऽप्यकायसमारम्भे एकस्मिन्नुदकाऽऽर्दै शुष्के सति ग्रहणम्, एकस्मिन् पुरः कर्मणि पुनः शुष्केऽप्यनात्मार्थिन ग्रहणस्य प्रतिषेधः। तथाहि-संयतार्थद्धाभ्यां पृथक-पृथक् पडतो पुरःकर्म कृतं , तच परिणतम् उदकाऽऽर्द्रसस्निग्धौ न त्तः, परं येनाऽ5मार्थितं तस्य हस्तात् कल्पते, येन तु नाऽऽत्मार्थितं तस्य हस्तान्न कल्पते / एवं चिरकालिके पुरः कर्मण्युतम् / यत्रा तु हस्ती मात्राकं वा ततक्षणमेव अन्यत्रा तक्राऽऽदौ प्राशुकद्रव्ये प्रक्षिप्तमग्निना वा तापित तत्राऽऽत्मार्थित क्षिप्रमपि ग्रहण कर्तव्यम् / गतं कस्येति द्वारम् अथाऽऽरोपणाद्वारमाहचाउम्मासुक्कोसे, मासिय मज्झे य पंचग जहन्ने / पुरकम्मे उदउल्ले, मसिणिद्धाऽऽरोवणा भणिया ||4|| उदकसमारम्भे पुर:कर्मोत्कृष्टमपराधपदम्, उदकाऽऽर्द्र मध्यम, सस्निग्धं जघन्यम्। उत्कृष्ट चत्वारो मासा लघवः, मध्यमे लघुमासिकं, जघन्ये पञ्च रात्रिनन्दिनानि। एवं पुरःकर्मोदकाऽऽर्द्रसस्निग्धेषु यथाक्रममारोपणा भणिता। अथ परिहरणाद्वारमाहपरिहरणाऽवि य दुविहा, विहि अविहीए अहोइ नायब्वा। पढमिल्लुगस्स सव्यं, बिइयस्स त तम्मि गच्छम्मि |664|| तइयस्स जावजीवं, चउथस्स य तं न कप्पए दव्वं / तदिवस एगगहणे, नियट्टगहणे य सत्तमए ||665|| परिहरणाऽपि च द्विविधा-विधिपरिहरणा, अविधिपरिहरणा च भवति ज्ञातव्या। अविधिपरिहरणा सप्तविधा-तत्र प्रथमस्य नोदकस्य सर्वमपि द्रव्यजातं स्वगच्छे परगच्छे च यावजीवमकल्पनीय, द्वितीयस्यं तु तस्मिन्नेव गच्छे यावजीवं, तृतीयस्य यावजीवं तस्यैवैकस्य साधोः सर्वमपि द्रव्यजातं, चतुर्थस्य तु तत् द्रव्यमेक यावजीवं, पञ्चमस्य तु तदिवसं सर्वद्रव्याणि, षष्ठस्य तु तस्यैवैक द्रव्यस्य ग्रहणं न कल्पते, सप्तमस्य निवृत्तः सन स एव साधुः परिणतेन हस्तेन ग्रहणं करोत्वित्यभिप्रायः। अथैतेषामेव पराभिप्रायाणां व्याख्यानमाह पढमो यावञ्जीवं, सव्वेसिं संजयाण सव्याणि। दव्वाणि निवारेई, बीओ पुण तम्मि गच्छम्मि||६६६|| प्रथमो नोदको यस्मिन् गृहे पुरःकर्म कृतं ता यावदसौ पुरःकर्मकारी दाता तदर्थ च तत्पुरःकर्म कृतं ततो यावज्जीवति तावत् स्वगच्छपरगच्छसरका (त्का) नां सर्वेषां संयतानां सर्वाणि द्रव्याणि निवारयति; द्वितीयः पुनः तस्मिन् गच्छे सर्वेषामपि साधूनां यावज्जीवं सर्वद्रव्याणि निवारयति। तइओ यावज्जीवंत--स्सेवेगस्स सव्वदव्वाइं। वारेइ चउत्थो पुण, तस्सेवेगस्स तं दव्वं // 667|| तृतीयो ब्रवीति यदर्थपुरःकर्म कृतं तस्यैवैकस्य यावज्जीवं सर्वद्रव्याणि न कल्पन्ते, चतुर्थस्तु तदेवैक द्रव्यं तस्यैवैकस्य यावजीवं वारयति। सवाणि पंचमोतं, दिणं तु तस्सेव छट्ठोतं दव्वं / सत्तमओं नियट्टतो, गिण्हइ तं परिणयकरम्मि||६६८|| पञ्चमो बवीति-तदेवैक दिन सर्वाणि द्रव्याणि तदीयगृहे न कल्पन्ते। षष्ठो ब्रूते-तदेवैकं द्रव्यं तस्य गृहे तद्दिनं न गृह्यते। सप्तमः प्राहपरिणतकरे परिणताप्काये सति हस्ते भिक्षामटित्वा निवर्तमानस्तत्रैव गृहे स साधुः सर्वद्रव्याणि गृह्णातुनकश्चिद्दोषः। इत्थ परैरुत्के सति सूरिराहएगस्स पुरेकम्मं, वत्तं सव्वे वि तत्थ वारेति। दव्वस्स य दुल्लभता, परिचत्तों गिलाणओ तेहिं IEEEN एकस्य साधोराय पुरःकर्म या वृत्तं संजातं तत्राये सर्वेषामेकस्य वा सर्वद्रव्याणि। उपलक्षणत्वादेकमपि द्रव्यं, यावज्जीवंतदिनं वा वारयन्ति, तैर्द्रव्यस्य ग्लानप्रायोग्यस्यान्या दुर्लभतया ग्लानः परित्यक्तो मन्तव्यः। एतदेव सविशेषमाहजेसिं एसुवएसो, आयरिया तेहिं उ परिचत्ता। खमगा पाहुणगा वि य, सुव्वत्तमजाणगा ते तु॥१०००।। येषां यथाच्छन्दवादिनामेष सर्वद्रव्यग्रहणाऽऽदिप्रतिषेधरुप उपदेशस्तैराचार्याः क्षपकाः प्राघूर्णकाश्च परित्यक्ता द्रष्टव्याः, तत्प्रायोग्यस्य घृताऽऽदिद्रव्यस्यान्यत्र दुर्लभत्वात् / ते च सुव्यक्तं परिस्फुटम् अज्ञा मूर्खाः, अतत्ववेदित्वात्, स्वच्छन्द प्ररूपणानिष्पन्नं चामीषां चतुर्गुरु प्रायश्चित्तम्। तत्रा ये सर्वानपि साधून परिहार कारयन्ति ते स्वपक्ष साधनसमर्थ विधिमाह - श्रद्धाणनिग्गयाई, उन्भामग खमग अक्खरे रेखा। मग्गण कहण परंपर, सुव्वत्तमजाणगा ते वि॥१००१।। यत्रा गृहे पुरःकर्म कृतं, तत्राध्वनिर्गताऽऽदय उद्धामका वा यदि ग्रामे भिक्षाऽटनशीला अजानन्तो मा प्राविक्षन्निति कृत्वा क्षपकस्ता स्थाप्यते। अथ नास्ति क्षपकस्ततः कुड्याऽऽदावक्षराणि लिख्यन्ते यथाऽत्र पुरःकर्म कृतं, न केनापि भिक्षा ग्राह्येति। अथ तावक्षराणि लिखितुं न जानीतस्ततः रेखा कर्तव्या, अथ कृताऽपि सा केनाऽपि न ज्ञातेति ततोऽपरेषा साधूनां मार्गणं कृत्वा मिलित्तानां कथनीयम्-अमुष्मिन् गृहे पुरःकर्म कृतं तेऽपि परम्परया सर्वसाधून ज्ञापयन्ति इत्थं ये (सुय्यत्तं) सुव्यक्तं ते ऽप्यक्षा मन्तव्याः।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy