SearchBrowseAboutContactDonate
Page Preview
Page 1047
Loading...
Download File
Download File
Page Text
________________ पुरिसवि(च)जयविभंग 1036- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग में द्य प्रतिपाद्यते। यथाऽऽचारे प्रथमश्रुतस्कन्धे यन्नाभिहिन वदुत्तरभूताभिश्चूलिकाभिः प्रतिपाद्यते, तथा चिकिस्साशास्त्रं मूलसंहितायां श्लोकस्थाननिदानशारीरचिकिस्सितकल्पसंज्ञ कायां यन्नाभिहितं तदुत्तरेऽभिधीयते, एवमन्यत्रापि छन्दश्चित्यादावुत्तरसदावोऽवगन्तव्यः, तदिहापि पूर्वेण यन्नाभिहितं तदनेनोत्तरग्रन्थेन प्रतिपाद्यत इति / चः | समुचये, णमिति वाक्यालङ्कारे, पुरुषा विचीयन्तेमृग्यन्ते विज्ञानद्वारेणान्वेष्यन्ते येन स पुरुषविचयः, पुरुषविजयो वा, केषाञ्चिदल्पसत्वाना तेन ज्ञानलवेनाविधिप्रयुक्तेना तर्थानुबन्धिना विजयादिति, स च विभगवदवधिविपर्यवद्धिभङ्गोज्ञानविशेषः पुरुषविचयश्चासौ विभङ्गश्च पुरुषविचयविभङ्गस्तमेवंभूतं ज्ञानविशेषमाख्यास्यामि प्रतिपादयिप्यामि। याद्दशाना चासौ भवति तां लेशतः प्रतिपादयि तुमाह-(इह खलु इत्यादि) इह-जगति मनुष्यक्षेत्र प्रवचने चा नानाप्रकारा विचित्राक्षयोपशमात् प्रज्ञायतेऽनयेति प्रज्ञा, सा चित्रा येषां ते नानाप्रज्ञाः, तया चाऽल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः षट्स्थानपतिता भवन्ति, तथा छन्दोऽभिप्रायः स नाना येषां ते तथा तेषां, नानाशीलानां तथा नानारुपा दृष्टि:--अन्तःकरणप्रवृत्तिर्येषां ते तथा तेषामिति, तेषां च त्रीणि शतानि त्रिषष्टयधिकानि प्रमाणमवगन्तव्यं, तथा नाना रुचिर्येषां ते नानारुचयः। तथाहि-आहारविहारशयना ऽऽसनाऽऽच्छादना ऽऽभरणयानवाहनगीतवादित्राऽऽदिषु मध्येऽन्यस्या ऽन्याऽन्यस्यान्या रुचिर्भवति, तेषां नानारुचीनामिति / तथा नानाऽऽरम्भाणां कृषियाशुपाल्यविपणिशिल्पकर्मसेवाऽऽ दिष्वन्यतरमाऽऽरम्भेणेति, तथा नानाऽऽध्यवसायसंयुतानां शुमाध्यवसाय भाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपा सानां विषयतृषितामामिदं नानाविधं पापश्रुताध्ययनं भवति / तं जहा-भोमं उप्यायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वंजणं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कु कुडलक्खणं तित्तिरलक्खणं वट्टगलक्खणं लावयलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्खणं सुभगाकरं दुब्भगाकरं गब्भाकरं मोहणकरं आहव्वणिं पागसासगिंदव्वहोम खत्तियविज्जं चंदचरियं मूरचिरयं सुक्कचरियं बहस्सइचरियं उक्कापायं दिसादाहं मियचक्कं वायसपरिमंडलं पंसुवुद्धिं केसवुट्टि मंसवृट्टि रुहिरवुट्टि वेतालिं श्रद्धवेतालिं ओसोवणिं तालुघाडणिं सोवागिं सोवरिं दामिलि कालिंगि गोरिंगंधारिं उवतिणिं उप्पयणिं जंभणिं थंमणिं लेसणिं आमयकरणिं बिसल्लकरणिं पक्कमणिं अंतद्धाणिं आयमिणिं; एवमाइआओ विजाओ अन्नस्स हेउं पउंति पाणस्स हेउं पउंजंति वत्थस्स हेउंपउंजंति लेणस्स हेउं पउंजति सयणस्स हेउं पउंजंति, अन्नेसि वा विरुवरुवाणं कामभोगाणं हेउं पउंजंति, तिरिच्छं ते विजं से ति, ते अणारिया विप्पडिवन्ना कालमासे कालं किच्चा अन्न यराइं आसुरियाई किदिवसियाई ठाणाई उववत्तारो भवंति, ततोऽवि विप्पमुचमाणा भुजो एलमूयत्ताए तमअंधयाए पचायंति॥३०!! तद्यथा-भूमौ भवं भौम-निर्घातभूकम्पादिकं तथोत्पातकपिहसिताऽऽदिक, तथा स्वप्र-गजवृषभसिंहाऽऽदिक, तथा अन्तरिक्षम्-आमोघाऽऽदिक, तथा अङ्गे भवमानम्-अक्षिबाहु स्फुरणाऽदिकं तथा स्वरलक्षणंकाकस्वरगम्भीरस्वराऽदिकं, तथा लक्षणम्-यवमत्स्यपद्मशङ्खचक्रश्रीवत्साऽऽदिक, व्यंजनं तिलकमाषाऽदिक, तथा स्त्रीलक्षणंरक्तकरचरणाऽदिकम, एवं पुरुषाऽदीनां काकिणीरत्नपर्यन्तानां लक्षणप्रतिपाटकशास्त्र परिज्ञानमवगन्तव्यम्। तथा मन्त्रविशेष रुपा विद्याः, तद्यथा दुर्मगमपि सुभगमाकरोति सुभगाकरां, तथा सुभगमपि दुर्भगमाकरोति दुर्भगाकरा, तथा गर्भकरांगर्भाऽऽधानविधायिनी, तथा मोहोव्यामोहो वेदोदयो वा तत्करणशीलामायणीमाथर्वणभिधानां सद्योऽनर्थकारिणी विद्यामधीयते तथापाकशासनीमिन्द्रजालसंज्ञिका, तथा नानाविधैर्देव्यैः कणवीरपुष्पाऽऽदिभिर्मधुघृता ऽऽदिभिर्वोचवाटना ऽऽदिकैः कार्योंमोहवनं यस्यां सा द्रव्यहवना ता, तथा क्षत्रियाणां विद्या धनुर्वेदाऽऽदिका अपरावा या स्वगोत्रक्रमेणऽयात।तामधीत्य प्रयुञ्जते, तथा नानाप्रकार ज्योतिषमधीत्य व्यापारयतीतिदर्शयति-(चंदचरियमित्यादि) चन्द्रस्यग्रहपतेश्चरितं चन्द्रचरितमिति, तच्च वर्णसंस्थानप्रमाणप्रभानक्षत्रयोगरा हुग्रहाऽऽदिक, सूर्यचरित त्विदम्-सूर्यस्य मण्डलपरिमाणरा शिपरिभोगोदद्योतावकाशराहूपरागाऽऽदिकं, तथा शुक्रचारो वीथीत्रयचाराऽऽदिकः, तथा बृहस्पतिचारः शुभाशुभफलप्रदः संवत्सरराशिपरिभोगाऽऽदिकश्च, तथा उल्कापाता दिग्दाहाश्च वायव्याऽदिषु मण्डलेषु भवन्तःशस्खाग्निक्षुस्पीडाविधायिनो भवन्ति, तथा मृगाहरिणशृगालाऽऽदय आरण्यास्तेषां दर्शनरुतं ग्रामनगरप्रवेशऽदौ सति शुभाशुभं यत्र चिन्त्यते तन्मृगचक्रम, तथा वायसाऽऽदीनांपक्षिणां यत्र स्था नदिकस्वराऽश्रयेणाऽशुभफलं चिन्त्यते तद्वायसपरिमण्डलं, तथा पाशुकेशमांसरुधिराऽऽदिवृष्टयोऽनिष्टफलदा या शास्त्रे चिन्त्यते तत्तदभिधानमेव भवति, तथा विद्या नाना प्रकाराः, क्षुद्रकर्मकारिण्यः,ताश्चेमाः वैताली नामविद्या नियताक्षरप्रतिबद्धा, साच किल कतिभिर्जपैर्दण्डमुत्थापयति, तथा अर्धवैताली तमेवोपशमयति, तथा-अपस्वापिनी तालोद्घाटनी श्वपाकी शाम्बरी तथा--अपराद्राविडी कालिङ्गी गौरी गान्धावपतन्युत्पतनी जृम्भिणी स्तम्भनी श्लेषणी आमयकरणी विशल्यकरणी प्रकामणी अन्तर्धानकरणी इत्येवमादिका विद्या अधीयते। आसां चार्थः संज्ञातोऽवसेय इति, नवरं शाम्बरीद्राविडीकालिङ्गयस्तदेशेद्रवा स्तद्भाषानिबद्धा वा चित्रफलाः / अवपतनी तुजपस्वत एव पतत्यन्य वा पातयत्येवमुत्पतन्यपि द्रष्टव्या। तदेवमेवमादिका विद्या, आदिग्रहणात्प्रज्ञप्तयादयो गृह्यन्ते। एताश्च विद्याः पाखण्डिकाः अविदितपरमार्था गृहस्था वा स्वयूथ्या वा द्रव्यलिङ्गधारिणोऽन्नपानाऽऽद्यर्थयुञ्चन्ति, अन्येषां वा विरुपरूपाणाम् उच्चावचाना शब्दाऽऽदीनां काम भोगानां कृते प्रयुञ्जन्ति / सामान्येन विद्याऽऽसेवनमनिष्टकारीति दर्शयितुमाह-(तिरिच्छामित्यादि) तिरश्चीनाम्-अननु
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy