SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2288 - अभिधानराजेन्द्रः - भाग 4 तित्थयर - - दुष्प्रतिकारित्वात्तयोः / आह च--''दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् / तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः।।१।।" / / 8 / / हा०२५ अष्ट। (66) अथ जिनानामसामान्यार्थो , विशेषार्थश्च कथ्यते-- वयधुरवहणा उसहो, उसहाऽऽइमसुविणलंछणाओ य। रागाइजिओ अजिओ, न जिया अक्खेसु पिउणंऽबा |6| (वयधुरवहणा उसहो) व्रतरूपा धुरा व्रतधुरा, तद वहनाद वृषभः पलीवर्दः, तर्हि ईदृशाः सर्वजिना वर्तन्ते, भगवति वृषभे को विशेषः? इत्याशङ्कायां विशेषार्थमाह-(उसहाइमसुविणलंछणाओ यत्ति) जनन्या मरुदेव्या स्वामिन्या चतुर्दशस्वप्नेषु प्रथमं वृषभदर्शनात्, च पुनः, वृषभलाञ्छनाद्वा वृषभः१ / (रागाइजिओ अजिओ त्ति) रागाऽऽदिभिरजितो न पराजित इति अजितः 2 / एवंविधाः सर्वेऽपि,अजितजिन को विशेषः? (न जिया अवखेसु पिउणऽबा) भगवति गर्भस्थिते न जिता अक्षेषु पाशयग्रीडासु जिनजनकेन अम्बा जिनमाता। इति गाथार्थः / / 6 / / सुहअइसयसंभवओ, तइओ भुवि पउरसस्ससंभवओ। अभिमंजिइ तुरिओ, हरीहिँ हरिणा सया गब्भे / / 10 / / (सुहअइसयसंभवओ तइओ) शुभाऽतिशयसंभवतस्तृतीयः 3 / ईदृशाः सर्वे,संभवे को विशेषः?-(भुवि पउरसस्ससंभवओ) भुवि पृथिव्यां प्रचुरसस्यस्य बहुधान्यस्य संभवतः संभवजिनः३ / (अभिनंदिजइ तुरिओ हरीहिं ति) अभि सामस्त्येन नन्द्यते चतुष्षष्टिदेवेन्द्रैः स्तूयते इति तुर्योऽभिनन्दनः 4 / एवंविधाः सर्वे जिनाः, ततोऽस्य विशेषार्थमाह(हरिणा सया गब्भे ति) देवेन्द्रेण सदा गर्भे गर्भस्थे सति, अभिनन्द्यते इति पूर्वोक्तमेवानुवर्तनीयमिति गाथाऽर्थः / / 10|| सयमवि सुहमइभावा, अंबाइ विवायभंगओ सुमई। अमलत्तापउमपहो, पउमप्पहअंकसेजमोहलओ।।११।।। (सयमवि सुहमइभावा) स्वयमपि शुभमतेर्भावात्सद्भावात् सुमति 5 (अंबाइ विवायभंगओ सुमइ त्ति) अम्बाया विवादभङ्गतः सुमतिरभूदिति जिनस्य सुमतिरिति नाम / अत्रैकः सामान्यार्थे, सर्वजिनसाधारणत्वात्,द्वितीयो विशेषार्थश्चेति सर्वत्रापि ज्ञेयम्।। (अमलत्ता पउमपहो त्ति) अमलत्वात् निर्मलत्वात् पद्मप्रभः६(पउमप्पहअंकसेज्जमोहलओ त्ति) पद्मस्येव प्रभा यस्यासौ पद्मप्रभः, रक्तवर्णत्वात्, पद्माङ्कत्वात्पडाप्रभः, तथा स्वामिनि गर्भस्थेजनन्याः पद्मशय्याया दोहदः समुत्पन्नः, देवतया पूरितः, अतः पद्मप्रभः६। इति गाथार्थः / / 11 / / सुहपासो य सुपासो, गब्भे माऊइ तणुसुपासत्ता। सियलेस्सो चंदपहो, ससिप्पहापाणमोहलओ।।१२।। (सुहपासोय सुपासो) शोभनानिपार्वाणि यस्यासौ सुपार्श्वः 7 / (गब्भे माऊइ तणुसुपासत्ता) स्वामिनि गर्भस्थे मातुस्तनुः सुपार्धा जाता, अतः सुपार्चः 7 / (सियलेस्सो चंदपहो त्ति) सितलेश्यः शुक्ललेश्यस्तेन चन्द्रप्रभः 8 / (ससिप्पहापाणमोहलओ त्ति) भगवन्मातुः चन्द्रप्रभा शशिद्युतिस्तत्पानदोहदतो वा चन्द्रप्रभः। इति गाथार्थः // 12 // सुहकिरियाए सुविही, सयं पि जणणी वि गब्भकालम्मि। जयतावहरो सियलो, अंबाकरफाससमियपिउदाहो।१३। (सुहकिरियार सुविही सयं पित्ति) स्वयमपि शुभक्रियाः करोति यस्मात् कारणात् सुविधिः / (जणणी वि गब्भकालम्मि) जिन-जनन्यपि गर्भकाले गर्भसमये सुविधिः-सा सम्यगाचारे रता जाता अतः सुविधिरिति जिनस्य नाम दत्तमह / (जयतावहरो सिअलो त्ति) जगत्तापहरः, अत: शीतलः१०। (अंबाकरफाससमिअपि-उदाहो त्ति) अम्बायाः जनन्याः करस्पति गमितः जनकदाधज्वरो येन स तथा इति शीतल्: 10 / इति गाथार्थः / / 13 / / सेयकरो सिजंसो, जणणीए देविसिज्जअक्कमणा। सुरहरिवसुहिं पुज्जो, पिउसमनामेण वसुपुज्जो // 14|| (सेयकरो सिजंसो) श्रेयस्करः कल्याणकारी, तेन श्रेयांसः 11 / (जणणीए देविसिज्ज अक्कमणा) भगवति गर्भस्थे जनन्या देव्यधिष्ठितशय्याया आक्रमणात् / श्रेयासदेवताऽधिष्ठिता शय्यः पूर्वमभूत् केनाप्याक्रमितुमशक्या, तया जिनजनन्या गर्भानुभावतः सा शय्याऽऽक्रान्ता, श्रेयश्च जातमिति श्रेयांसः 11 (सुरहरिवसु हिं पुजो) सुरैर्देवैर्हरिभिरिन्द्रैर्वसुभिर्देवविशेषैः पूज्यः, स एव वासुपूज्यः 12, (पिउसमनामेण वसुपुजो त्ति) पितृसमाननाम्ना वा वासुपूज्य:१२। इति गाथार्थः // 14 // विमलो दुहा गयमलो, गब्भे माया वि विमलबुद्धितणू। नाणाइअणंतत्ता-उणंतोऽणंतमणिदामसुविणओ॥१५॥ (विमलो दुहा गयमलो त्ति) विमलो द्विधा गतमलो बाह्यान्तरमलरहितः तेन विमलः 13, (गब्भे माया वि विमलबुद्धितणु ति) स्वामिनि गर्भस्थिते माता जनन्यपिनिर्मलबुद्धिशरीरा जाता इति हेतोविमल: 13 / (नाणाइअणंतत्ताऽणतो त्ति) ज्ञानदर्शनचारित्राणामानन्त्यतः-अनन्तः 14 (अणंतमणिदामसुविणओ त्ति) अनन्तं महत्प्रमाण यन्मणिदाम तत्स्वप्नतो वा अनन्तः 14 / इति गाथार्थाः / / 15 / / धम्मसहावा धम्मो, गब्भे माया वि धम्मिया अहियं / संतिकरणा उसंती, देसे असिवोवसमकरणा।।१६।। (धम्मसहावा धम्मो) धर्मस्वभावाद् धर्मजिनः / (गब्भमाया वि धम्मिया अहिय ति) भगवति गर्भस्थिते माताऽपि धार्मिकाऽधिकं जाता इति हेतोः धर्मजिनः 15 // (सतिकरणा उसंती) शान्तिकरणात् शान्तिः 16 / (देसे असिवोवसमकरणा) तस्मिन् देशे अशिवस्योपद्रवस्योपशान्तिकरणाद्वा शान्तिः 16 / इति गाथार्थः / / 16 / / कुंथु त्ति महीइ ठिओ, भूमिठिअरयणथूभसुविणाओ। वंसाइबुड्डिकरणा, अरो महारयणअरसुविणा।।१७।। (कुथु त्ति महीइ ठिओ त्ति) कौ पृथिव्यां स्थितवानिति निरुक्तात् कुन्थुः / (भूमिटिअरयणथूभसुविणाओ) भूमिकास्थितरत्नस्तूपस्वप्नात् कुन्थुः 17 (वसाइबुड्डिकरणा अरो त्ति) वंशाऽऽदिवृद्धिकरणात् अरः 18 / (महारयणअरसुविणा) महारत्नाऽरकस्वप्नादरोऽरजिनः 18 / इति गाथार्थः // 17 // मोहाईमल्लजया, मल्ली वरमल्लसिज्जमोहलओ। मुणिसुव्वओ जहत्था-मिहो तहंऽबा वि तारिसी गब्भे / 18 / (मोहाईमल्लजया मल्लि ति) मोहाऽऽदिमल्लजयाद् गल्लिः, अवार्पत्यादिकार: 16 / (वरमल्लसिजमोहलओ त्ति) कमाल्यशय्यायाः
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy