________________ तित्थयर 2277 - अभिधानराजेन्द्रः - भाग 4 तित्थयर (85) निर्गमनकालं प्रतिपादयन्नाहपासो अरिट्ठनेमी, सेजंसो सुमति मल्लिनाथो य। पुटवण्हे निक्खंता, सेसा पुण पच्छिमण्हम्मि // 210 / / पार्श्वनाथोऽरिष्टनेमिः, श्रेयासः, सुमतिमल्लिनामा: एते पञ्च तीर्थकृतः पूर्वाह्न निष्क्रान्ताः / शेषाः पुनः श्रीऋषभस्वामिप्रभृतयः पश्चिमाझे निष्क्रान्ताः / आ०म०१अ०१खण्ड। (86) दर्शननामानि, तदुत्पत्तिं चाऽऽहजइणं सइवं संखं, वेअंतिअनाहिआण बुद्धाणं / वइसेसिआण वि मयं, इमाइँ सग दरिसणाइँ कमा॥३३६।। तिन्नि उसहस्स तित्थे, जायाई सीयलस्स ते दुन्नि। दरिसणमेगं पासस्स सत्तमं वीरतित्थम्मि॥३४०।। (जइणं सइव संख) जैनं 1 शैवं 2 साख्यम् 3 (वेअतिअनाहि-आण दुद्धाणं ति) वेदान्तिकानां मतं 4 नास्तिकानां मतं 5 बौद्धानां म्तम(यइससिआण वि मयं) वैशेषिकानामपि मत्रम् 7, (इमाई सग तरिसणाई कडा) इमानि सप्त दर्शनानि क्रमादनुक्रमेण भवन्तीति गाथाऽर्थः // 336 / / (तिन्नि उसहस्स तित्थे जायाई ति) पूर्वगाथान्यवर्त्तिक्रमशब्दस्येहसंबन्धादाद्यानि त्रीणि दर्शनानि ऋषभतीर्थे - जातानि 3 / (सीयलरस ते दुन्नि) शीतलस्य तीर्थे ते द्वे दर्शन, तदने चतुर्थपञ्चमे जाते 5, (दरिसणमेगं पासस्स) एकं तदनेतनं षष्ठं दर्शन पवस्य तीर्थे 6, (सत्तमं वीरतित्थम्मि) सप्तम दर्शनं वीरतीर्थ संजातमित गाथाऽर्थः / / 340 / / सत्त०१६८ द्वार। दीक्षानक्षत्राणि च्यवनवत्। सत्त०६० द्वार। (87) व्रतपर्यायःउसभस्स पुटवलक्खं, पुवंगूणमज्जियस्स तं चेव / चउरंगूर्ण लक्खं, पुणो पुणो जाय सुविहि ति / / (अस्मिन्नेव शब्दे 2264 पृष्ठे पूर्व केवलिपर्याय व्याख्यातैषा) पणवीसं तु सहस्सा, पुव्वाणं सीयलस्स परियायो। लक्खाइँ एकवीस, सिजंसजिणस्स वासाणं / / चउपन्नं पन्नारस, तत्तो अद्धट्ठमाई लक्खाई। अडाइजाइँ ततो, वाससहस्साइँ पणवीसं / / तेवीसं च सहस्सा, सयाणि अद्धट्टमाणि य हवंति। इगवीसं च सहस्सा, वाससऊणा य पणपन्नं / / अट्ठमा सहस्सा, अड्डाइजाइँ सत्तय सयाई। सयरी विचत्तवासा, दिक्खाकालो जिणिंदाणं / / पशविंशतिः पूर्वाणां सहस्राणि शीतलस्य पर्यायो व्रतपर्यायः / श्रेयांसजिनस्य वर्षाणां लक्षाण्येक विंशतिः / वासुपूज्यस्य चतुपक्षाशदर्पलक्षाणि / विमलनाथस्य पञ्चदशवर्षलक्षाणि / ततोऽनन्तरमनन्तजितोऽष्टिमानि, सार्द्धानि सप्तवर्षलक्षाणि व्रतपर्यायः / धर्मनाथस्यार्द्धतृतीयानिवर्षशतसहस्राणि। शान्तिनाथस्य पञ्चविंशतिवर्षसहस्राणि / कुन्थुनाथस्य त्रयोविंशर्वर्षसहस्राणि शतानि चार्ड्सष्टमानि अरस्वामिन एकविंशतिर्वर्षसहस्राणि / मल्लिनाथस्य वर्षशतोनानि पक्षपञ्चाशद्वर्षसहस्राणि / मुनिसुव्रतस्वामिनोऽष्टिमानि वर्षसहस्राणि। नमिनाथस्यार्द्धतृतीयानि वर्षशतानि / अरिष्टने मेः सप्त शतानि / पार्श्वनाथस्य सप्ततिवर्षाणाम्। वर्द्धमानस्वामिनो द्वाचत्वारिंशत् / एष यथाक्रमं जिनेन्द्राणामृषभाऽऽटीनां दीक्षाकालो व्रतपर्यायः। आ० म०१ अ०१ खण्ड। दीक्षातरु:...............,णिक्खंताऽसोगतरुतले सव्वे। (157) सर्वे 24 जिना अशोकतरोरधो निष्क्रान्ताः। सत्त०६८ द्वार। (88) संप्रति यो येन तपसा निष्क्रान्तस्तदभिधित्सुराहसुमइऽत्थ निचभत्तेण निग्गतो वासुपुज्ज(जिणो) चोत्थेण / पासो मल्ली वि य अट्ठमेण सेसा उछट्टेणं // 387|| सुमतिरत्र-अस्यामवसर्पिण्यां चतुर्विशतितीर्थकृत्सु मध्ये नित्यभक्तेनानवरतभक्तेन निष्क्रान्तः / वासुपूज्यो जिनश्चतुर्थन, एकेनोपवासेनेत्यर्थः / पार्श्वनाथो मल्लिरपिचाष्टमेन त्रिभिरुपवासैः / शेषास्तु ऋषभस्वामिप्रभृतयः षष्ठेन द्वाभ्यामुपवासाभ्यां निष्क्रान्ताः। आ०म०१ अ०१खण्ड। ती० स० (86) दीक्षापरिवार:-- एगो भगवं वीरो, पासो मल्ली य तिहिँ तिहिँ सएहिं / भगवं पि वासुपुज्जो, छहिँ पुरिससएहिँ निक्खंतो॥३८५।। उग्गाणं भोगाणं,रायण्णाणं च खत्तियाणं च। चउहिँ सहसेहिँ उसहो, सेसा उ सहस्सपरिवारा // 386|| तत्र एको भगवान् वीरो वर्द्धमानस्वामी प्रव्रजितः, न केनाऽपि सह तेन व्रत गृहीतमित्यर्थः / पार्श्वनाथो, भगवांश्च मल्लिस्त्रिभि-स्विभिः शतैः सह व्रतमग्रहीत् / अत्र च मल्लिस्वामी स्त्रीणां पुरुषाणां च प्रत्येक त्रिभिस्विभिः शतैः सह प्रवृजितः, ततो मिलितानि षट् शतानि भवन्ति / यत्सूत्रे त्रिभिः शतैरित्युक्तं तत्र केवलाः स्त्रियः पुरुषा वा गृहीताः, द्वितीयः पुनः पक्षः सन्नपि न विवक्षित इति सम्प्रदायः / स्थानाङ्गटीकायामप्युक्तम्-मल्लिजिनः स्त्रीशतैरपि त्रिभिरिति / भगवानपि वासुपूज्यः षड्भिः पुरुषशतैः सह निष्क्रान्तः, संसारकान्तारान्निर्गतः, प्रव्रजित इति यावत् // 385 / / ("वासुपुज्जे णं अरहा छहिं पुरिससएहिं मुंडे भवित्ता।' स्था०६ ठा०) उग्राणामारक्षकस्थानीयानां, भोगानां गुरुप्रायाणां, राजन्यानां मित्रप्रायाणां, क्षत्रियाणां सामन्ताऽऽदीना सर्वसङ्ख्यया चतुर्भिः सहस्रैः सहऋषभजिनः प्रथमो जिनो निष्क्रान्तः, व्रतं जग्राहेत्यर्थः। शेषास्तु वीरपार्श्वमल्लिवासुपूज्यनाभेवव्यतिरिक्ता जिना अजिताऽऽदय एकोनविंशतिः, सहसपरिवारा पुरुषसहस्रसहिताः प्राब्राजिषुरिति / / 386|| प्रव०३१ द्वार। आ०म० स०) सत्ता (60) दीक्षापुरम्उसभो अ विणीयाए, वारवईए अरिट्ठवरणेमी। अवसेसा तित्थयरा, निक्खंता जम्मभूमीसु।। ऋषभस्वामी भगवान् विनीतायां नगा निष्क्रान्तः; द्वारवत्यामरिष्टनेमिः, अवशेषा अजितस्वामिप्रभृतयस्तीर्थकरा निष्क्रान्ता जन्मभूमिषु, यत्र जातास्तत्र निष्क्रान्ता इति भावः / आ०म०१ अ०१ खण्डासन सत्ता दीक्षासमये मनःपर्यवज्ञानम्........., जायंच चउत्थ मणनाणं!। (158)