SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2264 - अभिधानराजेन्द्रः - भाग 4 तित्थयर चैत्यतरूणां विशेषतः प्रमाणम्वत्तीसाई धणुइं (मतान्तरेणैतत् संभाव्यते / ), चेइयरुक्खो य वड्डमाणस्स। णिच्चोउगो असोगो, ओच्छण्णो सालरुक्खेणं // 36 / / तिण्णेव गाउआई, चेइयरुक्खो जिणस्स उसभस्स। सेसाणं पुण रुक्खा, सरीरओ बारसगुणा उ॥३७॥ सच्छत्ता सपडागा, सवेइया तोरणेहिँ उववेया। सुरअसुरगरुलमहिया, चेइयरुक्खा जिणवराणं // 38|| (निचोउगो त्ति) नित्यं सर्वदा ऋतुरेव पुष्पाऽऽदिकालो यस्य स नित्यर्तुकः (असोगो त्ति) अशोकाभिधानो यः समवसरणभूमिमन्ये भवति / (ओच्छण्णो सालरुक्खेणं ति) अवच्छन्नः शालवृक्षेणेति। अत एव वचनादशोकस्योपरि शालवृक्षोऽपि कथञ्चिदस्तीत्यवसीयत इति // 36 / / (तिण्णेव गाउयाई गाहा) ऋपभस्वामिनो, द्वादशगुणा इत्यर्थः // 37 / / (सवेइय त्ति) वेदिकायुक्ताः / एते चाशोकाः समवसरणसम्बन्धिनः सम्भाव्यन्त इति // 38 // स० (46) अथ ज्ञानवनान्याहउसहस्स य सगडमुहे, उजुवालुयनइतडम्मि वीरस्स। सेसजिणाणं गाणं, उप्पण्णं पुण वयवणेसु / / 186|| (उसहरस य सगडमुहे त्ति) ऋषभस्य केवलज्ञानं शकटमुखोद्याने उत्पन्नम् / (उजुवालुअनइतडम्मि वीरस्स त्ति) ऋजुवालुकानदीतटे श्रीवीरस्य केवलज्ञानमुत्पन्नम् 2 / (सेसजिणाणं नाणं, उप्पण्णं पुण वयवणेसु ति) पुनःशब्दस्य भिन्नक्रमत्वात् शेषजिनानां पुनर्वतवनेषु केवलज्ञानमुत्पन्नमिति // 186 / / सत्त०६१ द्वार। (50) केवलवेलानाणं उसहाईण्णं, पुव्वण्हे पच्छिमण्हि वीरस्स / / (191) (पुव्वण्हे) ऋषभाऽऽदीनां त्रयोविंशतिजिनानां केवलज्ञान पूर्ति प्रथमप्रहरे समुत्पन्नम् / (पच्छिमण्हि वीरस्स) पश्चिमप्रहरे वीरस्य केवलज्ञानमुत्पन्नम्। सत्त०६५ द्वार। (51) अथ जिनानां गृहस्थकाल-केवलिकालमानमाहजहजुग्गं कुमरनिवइ-चक्कीकाले हिँ होइ गिहिकालो। वयकालाओ केवलि-कालो छउमत्थकालूणो // 268|| यथायोग्य कुमारकालनृपतिकालचक्रिकालैरेकीकृतैः गृहस्थकालो भवति। व्रतकालात् छदास्थकाल ऊनः क्रियते, यावानवशिष्यते तावान केवलिकालो भवति / इति गाथाऽर्थः // 268|| सत्त०१४३। 144 द्वार। सम्प्रति केवलिपर्यायो वक्तव्यः, स च श्रामण्यपर्यायात् छद्मस्थपर्यायापगमे स्वयमेव ज्ञेय इति पूर्वोक्तमेव श्रामण्यपर्याय स्मारयतिउसभस्स पुव्वलक्खं, पुव्वंगूणमज्जियस्स तं चेव / चउरंगूणं लक्खं,पुणो पुणो जाव सुविहि त्ति / / ऋषभस्य भगवतः श्रामण्यपर्यायमेकं पूर्वलक्षम / अजितस्यामिनस्तदेव एक पूर्वलक्षमेकेन पूर्वाङ्गन न्यूनम् / पूर्वाङ्ग नाम चतुरशीतिवर्षलक्षाणि / अत ऊर्द्ध चतुरङ्गोनं पूर्वलक्षं पुनः पुनस्तावद्वक्तव्य यावत्सुविधिः / तद्यथा-संभवनाथस्य व्रतपर्याय एकं पूर्वलक्षं चतुर्भिरडै- | रूनम्। अभिनन्दनस्य एक पूर्वलक्षमष्टभिः पूर्वाङ्ग नम्। सुमतिनाथस्य एकं पूर्वलक्ष द्वादशभिः पूर्वा नम्। पद्मप्रभस्य एक पूर्वलक्ष षोडशभिः पूर्वाइँ ही नम्। सुपार्श्वस्यैकं पूर्वलक्षं विंशत्या पूर्वाने हीनम्। चन्द्रप्रभस्यैकं पूर्वलक्षं चतुर्विशत्या पूर्वाङ्ग हीनम्। सुविधिनाथस्यैक पूर्वलक्षमष्टाविंशत्या पूर्वाङ्ग ही नम्। सेसाणं परियाओ, कुमारवासेण सहियओ भणितो। पत्तेयं पि य पुव्वं, सीसाणमणुग्गहवाए। शेषाणां शीतलस्वामिप्रभृतीनां पर्यायः पूर्व कुमारवासेन सह भणितः, प्रत्येकमपिच, किमर्थमुभयथाऽपि भणित इति चेदत आह-शिष्याणामनुग्रहाय मन्दमतीनामपि शिष्याणां बुद्धौ सम्यक् प्रतिस्फुरतु। आ०म०१ अ०१ खण्ड। सत्ता केवलिमानमाहवीससहस्सा उसहे, वीसं बावीस अहव अजियस्स। पनरस चउदस तेरस, वारस इक्कारस दसेव // 353 / / अद्धऽहम सत्तेव य, छ स्सड्ढा छच्च पंच सड्ढा य। पंचेव अद्धपंचम, चउ सहसा तिन्नि य सया य॥३५४|| बत्तीस सया अहवा, बावीससयाई हुंति कुंथुस्स। अट्ठावीसं बावीस तह य अट्ठारस सयाई॥३५५।। सोलस पन्नर दस सय, सत्तेव सया हवंति वीरस्स। एवं केवलिनाणं, ....................... / / 356 / / केवलिनां विंशतिराहना ऋषभे वृषभजिनस्य / विंशतिः सहस्रा अजितजिनस्य। अथवा मतान्तरेण द्वाविंशतिः सहस्रा अजितनाथस्य। श्रीसम्भवस्य पञ्चदश सहस्राः / श्रीअभिनन्दनस्य चतुर्दश सहस्राः / श्रीसुमतेस्त्रयोदशसहस्राः। श्रीपद्मप्रभस्य द्वादश सहस्राः। श्रीसुपार्श्वस्य एकादश सहस्राः / श्रीचन्द्रप्रभस्य दशैव सहस्राः / श्रीसुविधिजिनस्य अर्द्धाष्टमाः सहस्राः, सप्त सहस्राः पञ्चशताधिका इत्यर्थः / श्रीशीतलजिनस्य सप्त सहस्राः / श्रीश्रेयांसस्य षट् सहस्राः सार्धाः सपञ्चशता इत्यर्थः / श्रीवासुपूज्यस्य षट् सहस्राः / श्रीविमलजिनस्य पञ्च सहस्राः, सार्द्धाः सपञ्चशता इत्यर्थः / श्रीअनन्तजिनस्य पञ्चैव सहस्राः। श्रीधर्मजिनस्य अर्द्धपञ्चमाः सहस्राः, चत्वारः सहस्राः सपञ्चशता इत्यर्थः / श्रीशान्तिनाथस्य चत्वारः सहस्राः शतत्रयाधिकाः। श्रीकुन्थुजिनस्य द्वात्रिंशच्छतानि, सहसत्रयं शतद्वयाधिकमित्यर्थः / अथवा मतान्तरेण द्वाविंशतिशतानि, सहस्रद्वयं शतद्वयाधिकमित्यर्थः / श्रीअरजिनस्य अष्टाविंशतिशतानि, सहस्रद्वयं शताष्टकाधिकमित्यर्थः। श्रीमल्लिजिनस्य द्वाविंशतिशतानि, सहस्रद्वयं शतद्वयाधिकमित्यर्थः / श्रीमुनिसुव्रतस्य अष्टादश शतानि, सहस्रमेकमष्टशताधिकमित्यर्थः / श्रीनमिजिनस्य षोडश शतानि, सहस्रमेकं षड्भिः शतैरधिकमित्यर्थः / श्रीनेमिजिनस्य पञ्चदश शतानि, सहस्रमेकं पञ्चशताधिकमित्यर्थः। श्रीपार्श्वजिनस्य दश शतानि, सहसमित्यर्थः / श्रीवीरजिनस्य च सप्तशतानि / एतत्पूर्वोक्तं यथाक्रम सर्वतीर्थकृतां केवलिमानम् / प्रव० 21 द्वार। सर्वेषामेव तीर्थकृता सिद्धगतिः सर्वात एकं लक्षं षट्सप्ततिसहस्राणि शतमेकम् / 176100 / आव०१०॥
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy