________________ तित्थ 2243 - अभिधानराजेन्द्रः - भाग 4 तित्थ कानि? इत्याह-तरिता पुरुषः, तरणं बाहूडपाऽऽदि, तरणीय तु निम्नगाऽऽदिकमिति // 1027 / / कथं पुनरिदं द्रव्यतीर्थमित्याहदेहाइतारयं जं, बज्झमलावणयणाइमत्तं च। णेगंताऽणचंतियफलं च तो दव्वतित्थं तं / / 1028 / / यस्मादिदं देहाऽऽदिकमेव द्रव्यमानं तारयति-नद्यादिपरकूलमात्र नयति, न पुनर्जीव संसारसमुद्रस्य मोक्षलक्षण परकूल प्रापयति, अतोऽप्रधानत्वाद् द्रव्यतीर्थम् / तथा बाह्यमेव मलाऽऽदिद्रव्यमात्रमपनयति, न त्वन्तरङ्ग प्राणातिपाताऽऽदिजन्यकर्ममलम् / तथाअनैकान्तिकफलमेवेदं नद्यादितीर्थ, कदाचिदनेन नद्यादेस्तरणात्, कदाचितु तत्रैव मज्जनात् / तथाऽनात्यन्तिकफलं चेदम् / तथाहिएकदाऽनेन तीर्णमपि नद्यादिकं पुनरपि व तीर्यत इत्यनात्यन्तिकफलत्वन्। आत्मनो चाऽस्य नद्यादितीर्थस्य द्रव्यमात्रत्वेनाप्रधानत्वात् सर्वत्र द्रव्यतीर्थत्वं भावनीयमिति॥१०२८|| इह केषाञ्चिन्मतमाशङ्कय परिहरन्नाहइह तारणाऽऽइफलयं, ति पहाणपाणाऽवगाहणाऽऽईहिं। भवतारयं ति केई, तं नो जीवोवघायाओ / / 1026 / / सूणंगं पि व तमुदूहलं व न य पुण्हकारणं ण्हाणं / ण य जइजोग्गं तं ममणं व कामंगभावाओ / / 1030 // इह केचित्तीर्थका मन्यन्ते-नद्यादेः संबन्धि द्रव्यतीर्थ किल स्नानपानावगाहनाऽऽदिभिर्विधिवदा सेव्यमानं भवतारकं संसारमहामकराऽऽलयमापकं भवत्येव। कुतः? तारणाऽऽदिफलमिति कृत्वाशरीरसंतारणमलक्षालन-तृड्व्यवच्छेददाहोपशमाऽऽदिफलत्वादित्यर्थः / अनेन चाध्यक्षसमीक्षितदेहतारणाऽऽदिफलेन परोक्षस्यापि संसारतारणफलस्यानुमीयमानत्वादिति भावः / तदेतन्नोपपद्यते, स्नानाऽऽदेर्जी वोपघातहेतुत्वात, षड्ग सिधेनुशूलाऽऽदिवदिति। एतदुक्तं भवति-जीवोपधातहेतुत्वाद् दुर्गतिफला एव स्नानाऽऽदयः, कथं नु भवतारकास्ते भवेयुः, सूनावध्यभूम्यादीनामपि भवतारकत्वप्रसझादिति? इतश्वनद्यादि तीर्थ भवतारक न भवति, सूनाङ्गत्वात्सूनाप्रकारत्वात्, उदूपलाऽऽदिवदिति। न च पुण्यकारणं स्नानं, नापि यतिजनयोग्यं तत्, कामाङ्गत्वात्, मण्डनवत् अन्यथा ताम्बूलभक्षणपुष्पबन्धनदेहाऽऽदिधूपनाभ्यञ्जनाऽऽदयोऽपि च भुजङ्गाऽऽदीनां पुण्यहेतवः स्युः। न च देहतारणाऽऽदिमात्रफलदर्शनेन विशिष्टं भवतारणाऽऽदिकं फलमुपपद्यते, नियमिकाभावात्, प्रत्यक्षवीक्षितप्राण्युपमर्द - वाधितत्वाच, इत्याद्यभ्यूह्य स्वधियाऽत्र दोषजालमभिधानीयमिति || 1026 / / 1030 / / अथ परो ब्रूयात्किमित्याहदेहोवगारि वा तेण तित्थमिह दाइनासणाऽऽईहिं। महुमज्जमंसवेस्साऽऽदओ वि तो तित्थमावन्नं / / 1031 / / यदि प्ररको मन्येत-जाह्नवीजलाऽऽदिकं तीर्थमेव, दाहनाशपिपासोपशमाऽऽदिभिर्देहोपकारित्वात् / अत्रोच्यते-एवं सति ततो / मधुमद्यमांसवेश्याऽऽदयोऽपि तीर्थमापद्यन्ते, तेषामपि देहोपकारित्वाविशेषादिति। उक्तं द्रव्यतीर्थम्।।१०३१॥ अथ भावतीर्थमाह भावे तित्थं संघो, सुयविहियं तारओ तहिं साहू। नाणाऽऽइतियं तरणं, तरियव्वं भवसमुद्दोऽयं / / 1032 / / भावे भावविषयं, श्रुतविहितं श्रुतप्रतिपादितं, संघस्तीर्थ, तथा च भगवत्यमुक्तम्-'तित्थं भंते ! तित्थं, तित्थयरे तित्थं? गोयमा ! अरहा ताव नियमा तित्थंकरे, तित्थ पुण चाउय्वन्नो समणसंघो।" इति। इह च तीर्थसिद्धी तारकाऽऽदयो नियमादाक्षिप्यन्त एव / तत्रेह संघे तीर्थे तद्विशेषभूल एव तारकः साधुः, ज्ञानदर्शनचारित्रा-त्रकं पुनस्तरणं, तरणीयं तु भवसमुद्रः / इह च तीर्थतारकाऽऽदीनां परस्परतो अन्यता, अनन्यता च विवक्षावशतो बोद्धव्या। तत्र सम्यग्दर्शनाऽऽदिपरिणामाऽऽत्मकत्वात् संघः तीर्थ , तत्रावतीर्णानामवश्यं भवोदधितरणात् / तद्विशेषभूतत्वात् तदन्तर्गत एव साधुस्तर।ता, सम्यग्दर्शनाऽऽद्यनुष्ठानात् साधकतमत्वेन तत्करणरूपतामापन्नं ज्ञानाऽऽदित्रयं तु तरणम्।तरणीय त्वोदयिकाऽऽदिभावपरिणामाऽऽत्मकः संसारसमुद्र इति / / 10321 // कस्मात् पुनः संघो भावतीर्थमित्याहजंनाणदंसणचरित्तभावओ तविवक्खभावाओ। भवभावओ य तारेइ तेण तं भावओ तित्थं // 1033 // यद् यस्मात्तारयति पारं प्रापयति तेन तत् संघलक्षणं भावतस्तीर्थमिति संबन्धः / कुतस्तारयतीत्याह-तद्विपक्षभावादिति-तेषा ज्ञानदर्शनचारित्राणां विपक्षो-अज्ञानमिथ्यात्वाऽविरमणानि तद्विपक्षः, तल्लक्षणो भावो जीवपरिणामः तद्विपक्षभावः, तस्मात्तारयति / कुतः? इत्याह-ज्ञानदर्शनचारित्रभावतः ज्ञानाऽऽद्यात्मकत्वादित्यर्थः / यो हि ज्ञानाऽऽद्यात्मको भवति सोऽज्ञानाऽऽदिभावात्परं तारयत्येवेति भावः / न केवलमज्ञानाऽदिभावात्तारयति / तथा भवभावतश्च तारयति, भवः संसारस्तत्र भवनं भावस्तस्मादित्यर्थः / यस्मात्स्वयं ज्ञानाऽऽदिभावाऽऽत्मकः, तथा-ऽज्ञानाऽऽदिभावाद्भवभावाच भव्यांस्तारयति, तस्भादसौ संघो भावतीर्थमितीह तात्पर्यम्। उक्तंच"रागाऽऽद्यम्भाः प्रमादव्यसनशतचलद्दीर्घकल्लोलमालः, क्रोधेष्यावाडवाग्निर्मृतिजननमहानक्रचक्रोघरौद्रः। तृष्णापातालकुम्भो भवजलधिरयं तीर्यते येन तूर्ण, तद् ज्ञानाऽऽदिस्वभाव कथितमिह सुरेन्द्रार्चितैर्भावतीर्थम् / / 1 / / " इति // 1033 // उपपत्त्यन्तरमाहतह कोहलोहकम्मम-यदाहतण्हामलावणयणाई / एगतेणऽच्चंतं, च कुणइ सुद्धिं भवोघाओ।।१०३४॥ तथा क्रोधश्च, लोभश्व, कर्म च, तन्मयास्तत्स्वरूपा यथासंख्यं ये दाहतृष्णामला: / क्रोधो हि जीवाना मनःशरीरसंसारसन्तापजनकत्वाद्दाहः, लोभस्तु विभवविषयपिपासाऽऽविर्भावकत्वात् तृष्णा, कर्म पुनः पवनोद्भूतश्लक्ष्णरजोवत्सर्वतोऽवगुण्ठनेन मालिन्यहेतुत्वाद् मलः अतस्तेषां क्रोधलोभकर्ममयानां दाहतृष्णामलानां यदेकान्तेनात्यन्तं चापनयनानि करोति / तथा कर्मकचवरमलिनाद्भवौघात् संसारापारनीरप्रवाहात् परकूलं नीत्वा शुद्धि कर्ममलापनयनलक्षणां यतः करोति, तेन तत्सडलक्षणं भावतस्तीर्थमिति पूर्वसम्बन्धः / अपरमपि नद्यादितीर्थं तुच्छानैकान्तिकानात्यन्तिकदाहतृष्णामलाप