________________ णिसीहिया 2146 - अभिधानराजेन्द्रः - भाग 4 णिसीहिया अणिसिद्धस्स उ एसा, वइमेत्तं चेव दट्ठव्वा / / 25 / / यः प्राणी, भवति स्यात्, निषिद्धो निवारितः सावद्ययोगेभ्य आत्मा स्वभावो येन स निषिद्धाऽऽत्मा। नैषेधिकी उक्तनिर्वचना, तस्य प्राणिनः, भावतः परमार्थतः भवति स्यात्। अथोक्तविपर्ययमाह-अनिषिद्धस्य तु अनिवृत्तस्य पुनः, सावद्यादिति गम्यते / एषा नैषेधिकी, वाइमात्र वागेक्केवला, निरर्थकत्यर्थः / भवति स्यात्, द्रष्टव्याऽवसेया / इति गाथाऽर्थः / पञ्चा०२२ विवा ___ साम्प्रतं नैषेधिकी प्रतिपादयन्नाहसेज्जं ठाणं च जहिं, चेएइ तहिं निसीहिया होइ। जम्हा तत्थ निसिद्धो, तेणं तु निसीहिया होइ। शेरते अस्यामिति शय्या-शयनस्थान, तां शय्यां शयनस्थानं चेति स्थानमूर्द्धस्थानं, कायोत्सर्ग इत्यर्थः / यत्र चेतयते 'चिती' संज्ञाने। अनुभवरूपतया विजानाति, वेदयत इत्यर्थः। अथवा-चेतयते करोति, धातूनामनेकार्थत्वात् / शयनक्रियां च कुर्वता निश्चयतः शय्या कृता भवति, ततश्च यत्र स्वपितीत्यर्थः / चशब्दो वीराऽऽसनाऽऽद्यनुक्तसमुचथार्थः / अथ वा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः / किं विशिनष्टीति चेत? उच्यते-प्रतिक्रमणाऽऽद्यशेषकृतावश्यकः सन् अनुज्ञातो गुरूणां शय्यां स्थानं च यत्र चेतयते, तत्र एवंविधस्थितिक्रियाविशिष्ट स्थाने नैषेधिकी भवति, नाऽन्यत्र / किमित्यत आह-यस्मात्तत्र निषिद्धोऽसौ, तेन कारणेन नैषेधिकी भवति, निषेधाऽऽत्मत्वात्तस्या इति / पाठान्तरं वा-"सेजं ठाणं च जया, चेते तइया निसीहिया होइ। जम्हा तया निसीहा, निसेहमइया य सा जेण / / 1 / / " इयमुक्तार्थत्वात्सुगमैवा अनेन ग्रन्थेन मूलगाथया आवश्यकी निर्गच्छन् यांच आगच्छन् नैषेधिकीं करोति, व्यञ्जनमेतद् द्विधेत्येतत् स्थितिरूपनषेधिकीप्रतिपादनं व्यञ्जनभेदनिबन्धनमधिकृत्य व्याख्यातम्। साम्प्रतममुमेवार्थमुपसंजिहीर्षुराह भाष्यकार:आवस्सियं च निंतो, जं च अयंतो निसीहियं कुणइ। सेञानिसीहियाए, निसीहियाअभिमुहो होइ।। आवश्यकी निर्गच्छन् नैधिकीं करोति, तदेतद्व्याख्यातमिति शेषः / उपलक्षणमेतत् / ततः सह तृतीयपादेन व्यञ्जनमेतद् द्विधेत्यनेनेति द्रष्टव्यम् / साम्प्रतमर्थः पुनर्भवति, स एव गाथाऽवयवार्थः प्रतिपाद्यते। तत्र इत्थमेक एवार्थो भवति / यस्मान्नैषधिक्यपि नावश्यकर्त्तव्यव्यापार गोचरतामतीत्य वर्तते, ततः संयमयोगानुपालनायाशेषपरिज्ञानार्थ चेत्थमाह-(सेज्जानिसीहियाए, निसीहियाअभिमुहो होइ इति) शय्यैव नषेधिकी शय्यानषेधिकी, तस्यां शय्यानषेधिक्यां विषयभूतायाम, किं शरीरमपिनषेधिकीत्युच्यते? इत्यत आह-शरीरनैषेधिक्या करणभूतया आगमनं प्रत्यभिमुखः, ततः संवृतगात्रैः साधुभिर्भवितव्यमिति संज्ञा करोति, ततोऽवश्यकर्त्तव्यव्यापाररूपत्वाद् नैषेधिक्यप्यावश्यकीत्येक एवार्थः। एतदेव सुव्यक्तं भावयतिजो होइ निसिद्धऽप्पा, निसीहिया तस्स भावतो होइ। अनिसिद्धस्स निसिहिया, केवलमेत्तं हवइ सद्दो।। यो भवति निषिद्धाऽऽत्मा-निषिद्धो मूलगुणोत्तरगुणातिचारेभ्य आत्मा / येनेति समासः / नैषधिकी तस्य निषिद्धाऽऽत्मनो, भावतः परमार्थतो, भवति। न निषिद्धोऽनिषिद्ध उक्तेभ्य एवातिचारेभ्यः, तस्याऽनिषिद्धस्य अनुपयुक्ततया गच्छतो नैषधिकीशब्दमात्रमेव केवलं भवति, न भावतः आह-यदि नामवं, तत एकार्थतायाः किमायातम् ? उच्यतेनिषिट्वाऽऽत्मनो नैषधिकी भवतीत्युक्तम्। सचआवस्सयम्मि जुत्तो, नियमनिसिद्धो त्ति होइ नायव्वो। अहवा वि निसिद्धऽप्पा, नियमा आवस्सए जुत्तो।। आवश्यके मूलगुणोत्तरगुणानुष्ठानरूपे, युक्तः (नियमनिसिद्धो त्ति होइ नायव्वो इति) नियमेन निषिद्धो नियमनिषिद्ध इत्येवं भवति ज्ञातव्यः / आवश्यक ऽपि चाऽऽवश्यकयुक्त स्यैवेत्यत एकार्थता / अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यवहितः सम्बन्धः / निषिद्धाऽऽत्माऽपि नियमादावश्यके युक्तो, यतोऽप्येकार्थतेति / पाठान्तरम्"अहवा वि निसिद्धडप्पा, सिद्धाणं अंतियं जाइ।" इति। अस्यायमर्थ:तदेवंतावत् क्रियाया अभेदेन एकार्थता उक्ता, इह तु कार्याभेदेनैकार्थतोच्यते / अथवेति प्रकारान्तरे, निषिद्धाऽऽत्माऽपि सिद्धानामन्तिक समीपं याति गच्छति / अपिशब्दादावश्यकयुक्तोऽप्यतः कार्याभेदादेकार्थता / आ०म०१अ०२खण्ड / आ०चूल। उत्त०। निषेधेन स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निता नषेधिकी। स्वाध्यायमात्रनिमित्ते स्थाने, व्य०१ उ०। तत्र का नैषेधिकी, का वाऽभिशय्या? इति व्याख्यानयतिठाणं निसीहिय त्ति य, एगढ़े जत्थ ठाणमेवेगं। चिंतेति निसिहियं वा, सुत्तऽत्थनिसीहिया सा उ।। सज्झायं काऊणं, निसीहियातो निसिं चिय उर्वे ति। अभिवसिउं जत्थ निसिं, उति पातो तई सेजा।। तिष्ठन्ति स्वाध्यायव्यापृता अस्मिन्निति स्थानम् / निषेधेन स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निवृत्ता नैषेधिकी। ततः स्थानमिति वानषेधिकीतिवा (एगट्ठमिति) एकार्थम्, द्वावप्येतौ तुल्यार्थाविति भावः / व्युत्पत्त्यर्थस्य द्वयोरप्यविशिष्टत्वात् / तत्र यत्र स्थानमेव स्वाध्यायनिमित्तमेकं, न तु ऊर्ध्वं स्थानं, त्वग्वर्त्तनस्थानं वा / चेतयन्ति निशि रात्रौ, दिवा वा, सा सूत्रार्थहेतुभूता नैषेधिकी / एतेनास्मिन् या नषेधिक्युक्ता सा सूत्रार्थप्रायोग्या नैष-धिकी प्रतिपत्तट्या, न तु कालकरणप्रायोग्या नैषेधिकी प्रतिपत्तव्या। किमुक्तं भवति? यस्यां नैषधिक्यां दिवा स्वाध्यायं कृत्वा दिवैव, यदि वा निशि च स्वाध्याय कृत्वा निश्येव, निशायामवश्यं नैषेधिकीतो वसतिमुपयन्ति, सा नषेधिकी, यस्यां पुनषेधिक्यां दिवा निशायां वा स्वाध्याय कृत्वा रात्रिमुषित्वा प्रातर्वसतिमुपयन्ति (तई इति) तका अभिशय्या अभिनिषोति भावः / व्य०१ उ०। सोपद्रवेतरायां स्वाध्यायभूमी, स० 22 सम०। ज्ञा०। स्था०। 'सिज्जा निसीहियाए य, समावन्नो य गोयरे।' शय्यायां वसतौ नैषेधिक्या स्वाध्यायभूमौ शय्यैव वाऽसमञ्जसनिषेधान्नैषेधिकी, तस्यां समापन्नः / दश०५ अ०२उ०। स्वाध्यायकरणे, उत्त०२६ अ०। शवपरिष्ठापनभूमौ, अनु०। गृहाऽऽदिव्यापारपरिहारे, सङ्घा०१ अधि०१ प्रस्ता०।