SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ णिव्वाण 2124 - अभिधानराजेन्द्रः - भाग 4 णिव्वाण शेषाऽऽवरणत्वात् प्रकृष्ट ज्ञानवानसौ, वेदनीयकर्माऽऽदीना च सर्वेषामप्याबाधहेतूनां सर्वथाऽपगमात्सर्वाऽऽबाधरहितोऽयमिति / प्रयोगः स्वाभाविके न स्वेन प्रकाशेन प्रकाशवान्मुक्ताऽऽत्मा, समस्तप्रकाशाऽऽवरणरहितत्वात, तुहिनांशुवत्। तथा चाऽऽह-"स्थितः शीतांशुवज्जीवः,प्रकृत्या भावशुद्धया / चन्द्रिकावच विज्ञानं, तदावरणमभ्रवत्" / / 1 / / इति / तथा-अनाबाधसुखो मुक्ताऽऽत्मा, समस्ताबाधहेतुरहितत्वात्, ज्वराऽऽद्यपगमे स्वच्छाऽऽतुरवत् / तथा चोक्तम्-"सव्याबाधाभावात्सर्वज्ञत्वाच भवति परमसुखी। व्याबाधाभावोऽत्र, स्वच्छस्य ज्ञस्य परमसुखम्" // 1 // इति // 1662 // अपरस्त्वाहमुत्तो करणाभावा-दण्णाणी खं व नणु विरुद्धोऽयं / जमजीवया वि पावइ, एत्तो चिय भणइतन्नाम / / 1963|| नन्वज्ञानी मुक्ताऽऽत्मा, करणाभावाद्, आकाशवत् / अत्राऽऽ-चार्यः प्राऽऽह-ननु धर्मिस्वरूपविपरीतसाधनद्विरुझोऽयं हेतुः। तथाहिअनेनैतदपि सिध्यति-अजीवो मुक्ताऽऽत्मा. करणाभावात्, आकाशवत्। अत्र परः सोत्कर्ष भणति-(तन्नाम त्ति) नामे-त्यभ्यनुज्ञायाम्अस्त्वेतत्, न नः किमपि सूयते? न हि मुक्ताऽऽत्मनामजीवत्वेऽस्माक, किञ्चिन्नश्यति, येन हेतोर्विरुद्धता प्रेय माणा शोभेत। अत्राऽऽह कश्चित्ननु मुक्तस्याजीवत्वमार्हतानामप्यनिष्टोव , ततश्चैतदूषणमाचार्येणाऽपि परिहर्त्तव्यमेव, यचाऽऽत्मनोऽपि दूषणं समापपति तत्कथं परस्यैवैकस्योद्भाव्यते? सत्यमेतत्। किन्तु परशक्तिपरीक्षार्थ प्रेर्यमाचार्यः कृतवान, कदाचित्क्षोभाद् विगलितप्रतिभः परोऽत्रापि प्रतिबिधाने स्खलितस्तू-ष्णी विदध्यात्।परमार्थतस्तुजीवस्याऽजीवत्वं कदाचिदपिन भवत्येव।।१६६३|| कुतः ? इत्याहदव्याऽमुत्तत्त सहा-वजाइओ तस्स दूरविवरीयं / न हि जचंतरगमणं, जुत्तं नभसो व्व जीवत्तं ||1964|| तस्य मुक्ताऽऽत्मनो हि यस्मात् कारणान्न युक्तमिति संबन्धः। किं तन्न युक्तम् ? इत्याह-एकस्या जीवत्वलक्षणाया जातेर्यदजीवत्वलक्षणं जात्यन्तरतत्र गमनं जात्यन्तरगमन, तन्न युक्तम्। कथंभूतं जात्यन्तरम्? इत्याह--दूरमत्यर्थं विपरीतं दूर विपरीतम्। कस्या दूरविपरीतम्? इत्याह-(सहावजाईओ त्ति) जीवत्वलक्षणायाः स्वाभाविकी स्वभावभूताजातिः स्वभावजातिः, तस्याः। किंवत्या स्वभावजातिः? इत्याहउपमानप्रधानत्वान्निद्देशस्य, द्रव्याऽमूर्तत्ववदिति द्रव्यत्ववदमूर्तत्ववचेत्यर्थः / स्वभावजातेर्दूरविपरीतं सत् कस्य यथा कि न युक्तम्? इत्याह-नभस इव जीवत्वम् / इदमत्र हृदयम्-द्रव्यत्वम्,अमूर्तत्वं च जीवस्य तावत्स्वभावभूता जातिः, तस्याश्च यद्दूरविपरीतजात्यन्तरमद्रव्यत्वम्, अमूर्तत्वं च, तत्र गमनं तस्य कस्यामप्यवस्थायां न भवति। एवं जीवत्वमपि जीवस्य स्वभावभूतैव जातिः, ततस्तस्या अपि स्वभावजातेर्यद् दूरविपरीतमजीवत्वलक्षणं जात्यन्तर तत्र गमनं मुक्तावस्थायामपि तस्य न युज्यते। न ह्यजीवस्यसतो नभसः कदाचिदपि जीवत्वाप्राप्तिर्भवति / तस्मान्मुक्तो जीवो यथाऽद्रव्य मूर्तश्च न भवति, तद्विपक्षस्वभावत्वात्, एवं जीवस्वाभाव्यादजीवोऽप्यसौ कदाचिदपि न भवति; अन्यथा नभःपरमाण्वादीनामपि स्वस्वभावत्यागेन वैपरीत्या पत्त्याऽतिप्रसङ्गादिति। अत्राऽऽह- यद्येयं, तर्हि यद्भवतैवोक्तम्- ''अजीवो मुक्ताऽऽत्मा, करणाभावाद्, आकाशवद्" इति, तत्कथं नेतव्यम्? अत्रोच्यते-परस्य प्रसङ्गाऽऽपादनमेव तदस्माभिः कृतम्, तत्करणे च कारणभुक्तमेव, न पुनरनेन हेतुना मुक्तस्याजीवत्वं सिद्ध्यति, प्रतिबन्धाभावात् / तथाहि-यदि करणैर्जीवत्वं कृतं भवेत्, यथा दहनेन धूमः, व्यापकानि वा जीवत्वस्य करणानि यदि भवेयुः, यथा शिंशपाया वृक्षत्वम्, तदा करणनिवृत्तौ भवेज्जीवत्वनिवृत्तिः, यथाऽनिवृक्षत्वनिवृत्ती धूमशिंशपात्वयोः, न चैतदस्ति। जीत्वस्यानादिपारिणामिकभावरूपत्वेनाकृतकत्वात् / व्याप्यव्यापकभावोऽपीन्द्रियाणां शरीरेणैव सह युज्यते, उभयस्यापि पौद्गलिकत्वात्। न तु जीवत्वेन, जीवस्यामूर्तत्वेनात्यन्तं तद्विलक्षणत्वात् / तस्मात्करणनिवृत्तावप्यनिवृत्तमेव मुक्तस्य जीवत्वमिति / 1664|| आह-यद्येवम्, 'अज्ञानी मुक्ताऽऽत्मा, करणाभावाद्, आकाशवद्' इत्यत्र धर्मिस्वरूपविपरीतसाधनाद्या हेतोर्विरुद्धतोद्भतोद्भाविता, सा न भवद्भिरपि परिहृता, अतस्तत्रान्यत्किमप्युत्तरमुच्यतामित्याशक्याऽऽहमुत्ताऽऽइभावओ नो-वलद्धिमंतिंदियाइँ कुंभो व्व। उवलंभधाराणि उ, ताई जीवो तदुवलद्धा / / 1665|| तदुवरमे विसरणओ, तव्वावारे वि नोवलंभाओ। इंदियभिन्नो आया, पंचगवक्खोवलद्धा वा / / 1666|| अनयोख्यिा पूर्ववत्, केवलं प्रस्तुते भावार्थ उच्यते यदीन्द्रियाण्युपलब्धिमन्ति भवेयुस्तदा तन्निवृत्तावप्युपलब्धिनिवृत्तिर्भवेत्, न चैतदस्ति, अन्वयव्यतिरेकाभ्यां जीवसयोपलब्धिमत्त्वनिश्चयादिति ||1665||1666|| स्वभावभूतं च ज्ञानं जीवस्य, इति कथं करणनिवृत्ती मुक्तस्य तन्निवर्तत इति दर्शयन्नाहनाणरहिओ न जीवो, सरूवओऽणु व्य मुत्तिभावेणं / जं तेण विरुद्धमिदं, अत्थिय सो नाणरहिओ य॥१६६७|| यद्यस्माज्ज्ञानरहितो जीवः कदाचिदपि न भवति, ज्ञानस्य तत्स्वरूपत्वात्, यथा मूर्तिभावेन रहितोऽणुर्न भवति, तेन तस्मात्कारणाद्विरुद्धमेतद्-''अस्ति चासौ मुक्तो जीवः, अथ च स ज्ञानरहितः" इति / न हि स्वरूपस्याभावे स्वरूपवतोऽवस्थानं युज्यते, तव्यतिरिक्तस्य तस्यासत्त्वात्, तथा चानन्तरमेवोक्तम्- "न हि हि जचंतरगमणं, जुत्त नभसो व्व जीवत्तं / " (1664) इति / 1667|| पराभिप्रायमाशङ्क्यैतदेव समर्थयन्नाहकिह सो नाणसरूवो, नणु पच्चक्खाणुभूइओ नियए? परदेहम्मि विगज्झो,सपवित्तिनिवित्तिलिंगाओ||१९६८|| ननु कथमसौ जीवो ज्ञानस्वरूप इति निश्चीयते ? अत्रोत्तरमाहनन्वित्यक्षमायां, ननु निजे देहे तावत्प्रत्यक्षानुभवादेव ज्ञानस्वरूपो जीव इति विज्ञायते, इन्द्रियव्यापारोपरमेऽपि तद्व्यापारोपलब्धार्थानुस्मरणात्, तद्व्यापारेऽपि चान्यमनस्कतायामनुपलम्भात् अदृष्टाश्रुतानामपि चार्थानां तथाविधक्षयोपशमपाटवात्कदाचिद् व्याख्यानावस्थायां चेतसि स्फुरणात्। एतच स्वसंवेदनसिद्धपि भवतः प्रष्टव्यता गतम्।तथा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy