________________ जमग 1396 - अभिधानराजेन्द्रः - भाग 4 जमग न्योश्चतुर्दिशि, चतसृणां दिशां समाहारश्वतुर्दिक, तस्मिस्तथा, पूर्वादिष्वित्यर्थः / पञ्च पञ्च योजनशतान्यबाधयाऽपान्तराले कृत्वे ति गम्यते / चत्वारि वनखण्डानि, प्रज्ञप्तानि / तद्यथा-अशोकवनं, सप्तपर्णवनं, चम्पकवनम्, आम्रवनमिति। अथैतेषामायामाद्याह'' तेणं वणसंडा" इत्यादि / ते च वनखण्डाः सातिरेकाणि द्वादश योजनसहस्राणि आयामेन पञ्चयोजनशतानि विष्कम्भेण प्रत्येक प्रत्येक प्राकारैः परिक्षिप्ताः, कृष्णा इति उपलक्षितो जम्बूद्वीपपद्मवरवेदिका प्रकरणलिखितः पूर्णो वनखण्डवर्णको, भूमयः, प्रासादावतंसकाश्च भणितव्याः। भूमयश्चैवम्- "तेसि णं वनसंडाणं अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता / से जहाणामए आलिंगपुक्खरेइ वा० जाव णाणाविहपंचवण्णे हिं मणीहिं अईवउवसोभिआ'' इति / प्रासादसूत्रमप्येवम्-"तेसिणं वणसंडाणं बहुमज्झदसभागेपत्तेअंपत्तेअं पासायव.सए पण्णत्ते / ते णं पासायवडेंसया वावडिं जोअणाई अद्धजोअणं च उट्ठ उचतेणं इकतीसं जोअणाई कोसं च विक्खंभेण अब्भुग्गयमूसिअपहसिआइ य तहा बहुसमरमणिज्जे भूमिभाए उल्लोओ सीहासणा सपरिवारा, तत्थ णं चत्तारि देवा महिड्डिआ० जाव पलिओवमट्टिईआ परिवसति / तं जहा--असोए, सत्तिवण्णे, चंपए, चूअवणे' इति। अत्राशोक-वनप्रासादेऽशोकवननामा देवः, एवं त्रिष्वपि * तन्नामा देवः परिवसतीत्यर्थः / अथानयोरन्तभगिवर्णकमाह''जमिगाणं'' इत्यादि / यमिको राजधान्यो रन्तर्मध्यभागे बहुसमरणीयो भूमिभागः प्रज्ञप्तः / वर्णक इति सूत्रगतपदेन"आलिंगपुक्खरेइ वा० जाव पंचवण्णे हिं मणीहि उवसोभिए वणसंडविलण्णो० जाय बहवे देवा य देवीओ य आसायंति० जाव विहरति'' इत्यन्तो ग्राह्यः / अत्र च उपकारि-कालंयनसूत्रमादर्शेष्वदृश्यमानमपि राजप्रश्रीयसूर्याभविमानव-र्ण के च दृश्यमानत्वात् "तिणि जोअणसहस्साई सत्तया पंचाणउए जोअणसए परिक्खेवेणं" इत्यादिसूत्रस्यान्यथानुपपत्तेश्च जीवाभिगमतो लिख्यते, आदर्शेष्वदृश्यमानत्वं च लेखकवैगुण्यादेवेति / तद्यथा- "तेसि ण'' इत्यादि। तेषां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे, अत्रान्तरे द्वे उपकारिकालयने प्रज्ञप्ते, उपकरोत्युपष्टभ्नाति प्रासा-दावतंसकादीनीत्युपकारिका राजधानी प्रभुसत्कप्रासा-दावतंसकादीनां पीठिका, अन्यत्र त्वियमुपकार्योपकारिकेति प्रसिद्धा / उक्तं च-''गृहस्थानां स्मृता राज्ञामुप-कार्योपकारिका' / इति सालपनमिव गृहमिव ते च प्रतिराजधानीभव इति द्वे उक्ते, द्वादश योजनशतानि आयामविष्कम्भाभ्यां त्रीणि योजनसहखाणि सप्तचयोजनशतानि पञ्चनवत्यधिकानि परिक्षेपेण अर्द्धक्रोशं धनुःसहस्रपरिमाणं बाहल्येन सर्वात्मना जाम्बूनदमये अच्छे प्रत्येकं प्रत्येक प्रत्युपकारिकालयने पद्मवरवेदिके परिक्षिप्ते, प्रत्येक प्रत्येकं वनखण्डवर्णको भणितव्यः / स च जगतीगलपद्मवरवेदिकास्थवनखण्डानुसारेणेति, त्रिसोपानप्रतिरूपकाणि आरोहावरोहमार्गस्थानि चतुर्दिशि पूर्वादिदिक्षु ज्ञेयानि, तोरणानि चतुर्दिशि भूमिभागश्च कारिकालयनमध्यगतो भणितव्यः / तत् सूत्राणि जीवाभिगमोपाङ्गगतानि क्रमेणैवम्-"सेणं वणसंडे देसूणाईजोअणाईचक्कवालविक्खंभेणं उवयारिआलयणसमए परिक्खेवेणं, तेसिणं उवयारिआलयणाणं चउदिसिं चत्तारि तिसोवाण पडिरूवगा पण्णत्ता / वण्णओ, तेसि णं तिसोवाण पडिरूवगाणं पुरओ पत्तेअंपत्तेअं तोरणा पण्णत्ता। वण्णओ, तेसि ण उवयारियालयणाणं उप्पि बहुसमरगणिज्जभूमिभागे पण्णत्ते० जाव मणीहिं उवसोभिए' इति / अत्र व्याख्या सुगमा / अथ यमकदेवयोर्मूलप्रासादस्वरूपमाह- "तस्स णं" इत्यादि / तस्योपकारिकालयनस्य बहुमध्यदेशभागे, अत्रान्तरे एकः प्रासादावतंसकः प्रज्ञप्तः। द्वाषष्टियोजनान्यद्धयोजनं चोर्दोच्चत्वेन, एकत्रिंशद्योजनानिक्रोश चायाम-विष्कम्भाभ्यां वर्णको विजयप्रासादस्येव वाच्यः। उल्लोचावुपरि भागे भूमिभागावधोभागो सिंहासने, सपरिवारो सामानिकादिपरिवारभद्रासनव्यवस्था सहिते, यचात्र उपकारिकालयनस्य प्रासादावतंसकस्य चैकवचनेन विवक्षातावद् द्विवचनेन विवक्षा, तत्सूत्रकाराणां विचित्रप्रवृत्तिकत्वादिति। अथास्य परि-वारप्रासादप्ररूपणमाह- "एवं पासायपंतीओ वि' इत्यादि / एवं मूलप्रासादा-वतंसकानुसारेण परिवारप्रासादपतयो ज्ञातव्याः जीवाभिगमतः, पक्तयश्चात्र मूलप्रासादतश्चतुर्दिक्षु पद्मानामिव परिक्षेपरूपा अवगन्तव्याः, न पुनः सूचि श्रेणिरूपाः / तत्र प्रथमप्रासादपक्तिपाठ एवम्- “से गं पासायवडेंसए अण्णेहिं चउहिं तद चत्तपमाणमेत्तेहिं पासायवडेंसएहि सव्वओ समंता संपरिक्खित्ते ' स प्रासादावतंसकोऽन्यैश्चतुर्भिः प्रासादाक्तंसकैस्तदोचत्व प्रमाणमात्रैः, अत्रोचत्वशब्देनोत्सेधो गृह्यते, प्रमाणशब्देन च विष्कम्भायामः, तेन मूलप्रासादापेक्षया अझैचत्वविष्कम्भायामैरित्यर्थः। सर्वतः समन्तात् संपरिक्षिप्तः / एषामुच्चत्वादिक तु साक्षात् सूत्रकृदेवाह- एक-त्रिंशद्योजनानि क्रोशं चोचत्वेन, सार्द्धद्वाषष्टियोजनानामर्द्ध एतावत एव लाभात्। सातिरेकाण्यर्द्धक्रोशाधिकानि, अर्द्धषोडशानि सार्द्धपञ्चदशयोजननानि विष्कम्भायामाभ्यामिति / अथ द्वितीयप्रासाद पङ्क्तिः / तत्पाठश्चैवम्- "ते णं पासायव.सया अण्णेहिं चउहिं तदभुच्चत्तप्पमाणमेत्तेहिं पासायवडेंसएहिं सएहिं सव्वओ समता संपरिक्खित्ता" इति। ते प्रथमपङ्क्तिगताश्चत्वारः प्रासादाः प्रत्येकान्यैश्चतुर्भिस्तदोच्चत्वविष्कम्भायामैर्मूलप्रासादापेक्षया चतुर्भागप्रमाणैः प्रासादैः परिक्षिप्ताः अत्र एवैते षोडश प्रासादाः सर्वसङ्ख्यया स्युः / एषामुचत्वादिकं तु साक्षादेव सूत्रकृदाहते प्रासादाः सातिरेकाणि अर्द्धक्रोशाधिकानि सार्द्ध-पञ्चदशयोजनान्युच्चत्वे न सातिरेकाणि क्रोशक्रोश-चतुर्थांशाधिकानि, अष्टि-मयोजनान्यायामविष्कम्भाभ्यामिति / अथ तृतीया पङ्क्तिः / तत्सूत्रमेवम्- "तेणं पासायवडेंसया अण्णेहिं चउहिं तदद्धचत्तप्पमाणमेत्तेहिं पासायवडेंसएहिं सव्वओ समंता संपरिक्खित्ता'' ते द्वितीयपरिधिस्थाः षोडश प्रासादाः प्रत्येकमन्यैश्चतुभिस्तदों कात्वविष्कम्भायामै मूलप्रासादा-पेक्षया- अष्टांश प्रमाणोचत्वविष्कम्भायामैः सर्वतः समन्तात् संपरिक्षिप्ताः / अत एवैते तृतीयपक्तिगताश्चतुषष्टि प्रासादाः / एतेषामुचत्वादि प्रमाणं सूत्रकृदाहते चतुःषष्टिरपि प्रासादाः सातिरेकाण्यष्टिमयोजनान्युश्चत्वेन, सातिरेकत्वं च प्राग्वत् / अष्टिानि अर्द्ध-तृतीयानि सातिरेकाणि सार्द्धक्रोशाष्टांशाधिकानि विष्कम्भायामाभ्याम् / एषां सर्वेषां वर्णकःसिंहासनानि च सपरिवाराणि प्राग्वत्। अत्र च पङ्क्तिप्रासादेषु सिंहासन प्रत्येकमेकं, मूल प्रासादे तु मूलसिंहासनपरिवारोपेतमित्यादिना क्षेत्र-समासवृत्तौ श्रीमलयगिरिपादाः / तथा प्रथमतृतीयपक्तया मूलप्रासादे सपरिवारे भद्रासनानि, द्वितीयपङ्क्तौ च परिवारे पद्मासनानि जीवाभिगमोपाङ्ग इत्यादि विसंवादसमाधानं बहुश्रुतगम्यम्। यद्यपि जीवाभिगमे विजयदेवप्रकरणे, तथा श्रीभगवत्यङ्ग वृत्ती चरमप्रकरणे, प्रासादपङ्क्तिचतुष्क, तथाऽप्यत्र यमकाधिकारे