________________ णाण 1954 - अभिधानराजेन्द्रः भाग - 4 णाण इति वा, यतो यस्मात् कारणात् नोपलब्धिसम मतिज्ञानिनो भाषणम्, तस्मान्न तत्र श्रुतरूपता / इदमुक्तं भवति-श्रुतोपलब्धौ परोपदेशार्हद्वचनलक्षणश्रुतानुसारेणोपलब्धानर्थान् भाषते, मत्युपलद्धौ तुतदुपलब्धानेव, इत्यतो मतिज्ञानिनो भाषणं श्रुतोपलब्धिसमम्, ततश्च न तत्र श्रुतसंभवः / इति गाथाऽर्थः / / 153 / / तदेवम्-'" सोइंदिओबलद्धी होइ सुयं "(117) इत्यादिमूल-गाथया तत्त्वतः श्रोत्रेन्द्रियविषयमेव श्रुतज्ञानम्, सर्वेन्द्रियविषयं च मतिज्ञानमित्येवं मतिश्रुतयोर्भेदः प्रतिपादितः; तत्प्रतिपादनक्रमे च" बुद्धिघिटे अत्थे, जे भासइ ' (128) इत्यादिगाथा समायाता, सा च द्रव्यभावोभयश्रुतरूपाऽभिधायकत्वेन मतिश्रुतयोर्भदाऽभिधानपरतया च व्याख्याता, तद्व्याख्याने चावसिते इन्द्रियविभागादपि मतिश्रुतयोर्भेदः। साम्प्रतं वल्कशुम्बोदाहरणात्तमभिधित्सुराहअन्ने मन्नंति मई, वग्गसमा सुंबसरिसयं सुत्तं / दिलुतोऽयं जुत्तिं, जहोवणीओ न संसहइ / / 154 / / अन्ये केचनाप्याचार्या मन्यन्ते / किम् ? इत्याह-वल्कसमा वल्कसदृशी मतिः, ततः सैव यदा शब्दतया संदर्भिता भवति-तज्जनितो यदा शब्द उत्तिष्ठतीत्यर्थः, तदातदुत्थशब्दसहिता श्रुतमुच्यते, तच शुम्बसदृश वल्कजनितदवरिकातुल्य श्रुतं भवति, एवं तदभ्युपगमः शोभन इति चेत्, नैवमित्याह-(दिद्रुतोऽयमित्यादि) अयं वल्कशुम्बदृष्टान्तो यथा तैरुपनीतः-उक्तप्रकारेण प्रकृते योजितः, तथा युक्तिं न सहतेन क्षमते, अन्यथा त्वस्मदभिमतवक्ष्यमाणप्रकारेणोपनीयमान एषोऽपि युक्तिक्षमो भविष्यतीति भावः / इति गाथाऽर्थः // 154 / / कुतो न संसहते ? इत्याहभावसुयाभावाओ, संकरओ निव्विसेसभावाओ। पुवुत्तलक्खणाओ, सलक्खणाऽऽवरणभेयाओ / / 155 / / नैष दृष्टान्तो युक्तिं क्षमत इति सर्वत्र साध्यम् मतेरनन्तर शब्द-मावस्येव भावेन भावश्रुतस्याभावप्रसङ्गात्। अथ मतिसहितोऽयं शब्दो न केवल इति तत्र भाव श्रुतत्वं भविष्यति / तदयुक्तम् / कुतः ? इत्याह-संकरः साङ्कर्यम् , संकीर्णत्वम् , मिश्रत्वमिति यावत् मतिश्रुतयोस्तस्य प्राप्तेः / निर्विशेषभावाद् वायदेव मतिज्ञानम्, तदेव भावश्रुतमिति प्रतिपादनादेकमेव किञ्चित्स्यात् . नोभयमिति भावः / अस्तु विशेषाभाव इति चेत्, नैवम्।कुतः? इत्याह-स्वलक्षणाऽऽवरणमेदात्। कथम्भूताद् ? इत्याहपूर्वोक्तलक्षणात् "किह व सुर्य होइ मई, सलक्खणाऽऽवरणभेयाओ।" (135) इति पूर्वाभिहितगाथाऽवयवोक्तस्वरूपात् / इदमुक्तं भवतिअभिनिबुध्यत इत्याभिनिबोधिकम्, श्रूयत इति श्रुतम्, इत्यादिकं मतिश्रुतयोर्यत् स्वकीयं स्वकीय लक्षणम्, आवारकं च कर्म, तयोर्भदात् पूर्वाऽभिहितस्वरूपाद् मतिश्रुतयोर्निर्विशेषभावो न युज्यते / यदि हि तयोनिर्विशेषता एकत्वं स्यात्, तदा लक्षणभेदः, आवरणभेदश्च पूर्वोक्तस्वरूपो न स्यादिति भावः / इति गाथाऽर्थः / / 155 / / अथ द्रव्यभावश्रुतयोरनेन दृष्टान्तेन भेदः प्रतिपाद्यते, सो ऽपि न युक्तः, इति दर्शयन्नाहकप्पेजेज्ज व सो भावदव्वसुत्तेसु तेसु वि न जुत्तो। मइसुयभेयावसरे, जम्हा किं सुयविसेसेणं? / / 156 / / यदि वा भावद्रव्यश्रुतयोः सः-वल्कशुम्बोदाहरणाद् भेदः कल्पेतभावश्रुतं हि कारणल्वात् किल वल्कसदृशम् , शब्दलक्षणं तु द्रव्यश्रुतं कार्यत्वात् शुम्बप्रतिमम् इत्येवमनयोर्भेद इष्येतेति भावः। तयोरप्यसौ नयुक्तः। कुतः? इत्याह-यस्मान्मतिश्रुतयोर्भदाभिधानेऽवसरप्राप्ते (किं सुयविसे सेणं ति) श्रुतयोर्द्रव्यभावश्रुतलक्षयोर्विशेषो भेदः श्रुतविशेषस्तेनाऽभिहितेन किम् ? असंबद्धत्वान्न किञ्चिदित्यर्थः / इति गाथाऽर्थः / / 156 // अथान्यथा पराभिप्रायमाशङ्कमानः प्राऽऽहअसुयऽक्खरपरिणामा, व जा मई वग्गकप्पणा तम्मि। दव्वसुयं सुंबसमं, किं पुण तेसिं विसेसेणं? // 157 / / श्रुतानुसार्यक्षरपरिणामो यस्यां सा श्रुतानुसार्यक्षरपरिणामा, न तथाश्रुतानुसारित्वरहितशब्दमात्रपरिणामान्विता या मतिरिन्यर्थः / तस्यां वा वल्ककल्पना क्रियते, तज्जनितशब्दरूपं तु द्रव्यश्रुतं शुम्बसदृशम् , अतस्तयोः प्रस्तुतोदाहरणाद् भेदो युक्तियुक्तो भविष्यति। श्रुतानुसार्यक्षरपरिणामा मतिविश्रुतमेव स्याद्, अतः पूर्वस्मान्न विशेष्येत, इत्यश्रुताक्षरपरिणामित्वं विशेषणम्।साच पर्युदासाऽऽश्रयणादश्रुतानुसारिणा शब्देनैवान्विता गृह्यते, न तु शब्दपरिणामरहिताऽवग्रहरूपा, तस्याः शब्दजनकत्वाभावेनानन्तरं शुम्बसदृशद्रव्यश्रुताभावादिति / अत्रोत्तरमाह-(किं पुणतेसिं विसेसेणं ति) किं पुनस्तयोर्यथोक्तमतिद्रव्यश्रुतयोर्विशेषेण भेदेनोक्तेन ? अप्रस्तुतत्वान्न किशिदित्यर्थः / श्रुतज्ञानेनैव सहात्र मते दो विचारयितुं प्रक्रान्तः इत्यतः किं द्रव्यश्रुतेन सह तच्चिन्तया? इति भावः। इति गाथाऽर्थः / / 157 / / एतदेव भावयन्नाहइहइं जेणाहिकओ, नाणविसेसो न दव्वभावाणं / नय दव्वभावमेत्ते, विजुज्जए सोऽसमंजसओ // 158 // इहास्मिन् प्रक्रमे येन कारणेन ज्ञानयोरेव मतिश्रुतलक्षणयोर्विशे-षो भेदोऽधिकृतो न तु द्रव्यभावयोर्मतिज्ञानद्रव्यश्रुतलक्षणयोः, इत्यतः किं तभेदाभिधानेन ? इति / न च यथोक्तद्रव्यभावयोरप्यसौ युज्यते / कुतः ? इत्याह-असमञ्जसतो दृष्टान्तदाान्तिकयोर्वसदृश्यादिति गाथाऽर्थः / / 158 // तथाहिजह वग्गा सुबत्तण-मुविंति सुंबं च तं तओऽणण्णं / न मइ तहा धणित्तण-मुवेइ जं जीवभावो सा / / 156 / / यथा वल्काः शुम्बत्वमुपयान्ति आत्माऽव्यतिरिक्तशुम्बपरिणामाऽऽपन्नाः शुम्बमित्युच्यन्ते, नतुशुम्बाद्व्यतिरिक्ताः: तदपि च शुम्बंतेभ्यो वल्केभ्योऽनन्यरूपमव्यतिरिक्तं, नतथा मतिर्ध्वनित्वमुपैति, यद्यस्माद् कारणाद् सा मतिराभिनिबोधिकज्ञानत्वेन जीव-भावो जीवपरिणामः, शब्दस्तुमूर्तत्वान्न जीवभावः; इत्यतः कथममूर्तपरिणामा मतिर्मूर्तध्वनिपरिणाममुपगच्छेत् ? अमूर्तस्य मूर्तपरिणामविरोधात् / तस्माद् दृष्टान्तदाष्टन्तिकयोवैषम्यादिदमपिव्याख्यानमुपेक्षणीयमितिगाथाऽर्थः॥ 156 // पुनः परवचनमाशङ्य तस्यैव शिक्षणार्थमाहअह उवयारो कीरइ, पभवइ अत्यंतरं पि जं जत्तो।