SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ णाण 1951 - अभिधानराजेन्द्रः भाग - 4 णाण अथ मत्याधुपलब्धार्थानां सामस्त्येनाभिधानाशक्यत्वे पूर्वोक्तम् , अपरमपि च हेतुं विषयविभागेनाभि धित्सुराहतीरंति न वोत्तुं जे, सुओवलद्धा बहुत्तभावाओ। सेसोवलद्धभावा, सा भव्वबहुत्तओऽभिहिया / / 136 / / सर्वेऽपि श्रुतोपलब्धा भावा न तीर्यन्ते न पार्यन्ते वक्तुम्।' जे ' इति पूर्ववदेव / कुतस्ते वक्तुं न पार्यन्ते ? इत्याह-बहुत्वभावाद् बहुत्वसद्भावादेवेत्यवधारणीयम् , न तु तत्स्वाभाव्यादित्यभि-प्रायः / (सेसोवलद्धभावा, सा भव्व त्ति) शेषं श्रुतादन्यत् प्रस्तुतं मतिज्ञानम् , समानवक्तव्यताप्रस्तावलब्धानि मत्यवधिमनःपर्या-यकेवलानि वा शेषाणि, तेन तैर्वा उपलब्धा ज्ञाताः शेषोपलब्धाः, ते च ते भावाश्चेति समासः, स्वाभाव्यादेव अनभिलाप्याऽऽत्मक-त्वादेव न तीर्यन्ते भावितुम्। आह-नन्वते यथाऽनभिलाप्यत्वा-दभिधातुं न शक्यन्ते, तथा बहुत्वादपि, तत् किमित्यनभिलाप्य-स्वभावत्वमेवैकमत्र हेतुत्वेनोच्यते? सत्यम् , किं त्वभिलाप्यत्वे सति बहुत्वाल्पत्वचिन्ता क्रियमाणा विभाजते, ये तु मूलत एवान-भिलाप्यास्तेषु बहुत्वलक्षणो हेतुरुच्यमानोऽपि निष्फल एव, अन-भिलाप्याऽऽत्मकत्वेनेवाभिधानाशक्यत्वस्य सिद्धत्वादिति / किं च-(बहुत्तओऽभिहिय ति) बहुत्वाच्छेषोपलब्धा भावा यथा वक्तुं न शक्यन्ते, तथा " कह मइसु ओवलद्धा, तीरंति न भासिउ बहुत्ताओं / " (138) इत्याद्यनन्तरगाथायामभिहिता एव, इति किं बहुत्वहेतूपन्यासेन ? पौनरुक्त्यप्रसङ्गात् / शेषज्ञानेषु मध्ये मतिरेव स तत्र प्रोक्तः, अत्र त्ववध्यादीन्यपि गृहीतानि सन्ति, अतस्तदर्थमयमिहापि वक्तव्य इति चेत् , नैवम् , मतेरुपलक्षणत्वेनावध्यादिष्वप्यसौ तत्र द्रष्टव्य इत्यदोषः। यद्येवम् , तर्हि श्रुतस्यापि बहुत्वलक्षणो हेतुः प्रागुक्त एव, किमितीह पुनरप्युच्यते ? इति चेत् / सत्यम् , किं तु श्रुतोपलब्धा बहुत्वात् , शेषोपलब्धास्तु तत्स्वाभाव्यान्न शक्यन्ते अभिधातुम् इति विषयविभागदर्शनार्थं तस्येह पुनरुपन्यासः। अपरस्त्वाहननु मत्याद्युपलब्धानामपि केषाश्चि-दभिलाप्यत्वात् किमुच्यते ?-(सेसोवलद्धभावा, सा भव्य त्ति) सत्यम् , किं तु तेषां श्रुतविषयत्वेनैवाभिधानाशक्यत्वस्योक्तत्वाद-दोषः / इति गाथाऽर्थः / / 136 || विनेयः पृच्छतिकत्तो एत्तियमेत्ता, भावसुयमईण पञ्जया तेसिं। भासइ अणंतभागं, भण्णइ जम्हा सुएऽभिहियं / / 140 // कुतः पुनरेतावन्तो भावश्रुतमत्योः पर्याया उपलब्धार्थविषया विशेषाः, येषां सर्वेणापि जन्मनाऽनन्तभागमेव जायत इति प्रागु-क्तम् ? अत्र गुरुराह-भण्यतेऽत्रोत्तरम्-यस्मात् सूत्रे आगमे वक्ष्य-माणमभिहितम् , तस्मात् तयोरेतावन्तः पर्यायाः। इति गाथाऽ-र्थः / / 140 / / किं तत्सूत्रेऽभिहितम् ? इत्याहपण्णवणिज्जा भावा, अणंतभागो उ अणभिलप्पाणं। पण्णवणिजाणं पुण, अणंतभागो सुयनिबद्धो / / 141 // प्रज्ञाप्यन्ते प्ररूप्यन्त इति प्रज्ञापनीया वचनपर्यायत्वेन श्रुतज्ञान- | गोचरा इत्यर्थः / के ? भावा ऊर्ध्वाधस्तिर्यग्लोकान्तर्निविष्टभूभव नधिमानग्रहनक्षत्रतारका:त्वादयस्ते सर्वेऽपि मिलिताः किम् ? इत्याहअनन्ततम एव भागे वर्तन्ते / केषाम् ? अत्राऽऽहअनभि-लाप्यानामर्थपर्यायत्वेनावचनगोचराऽऽपन्नानामित्यर्थः, अनभिलाप्यवस्तुराशेरभिलाप्यपदार्थसार्थः सर्वोऽप्यनन्ततम एव भागे वर्तत इत्यर्थः / प्रज्ञापनीयपदार्थानां पुनरनन्तभाग एव चतुर्दशपूर्व-लक्षणे श्रुते निबद्धो भगवद्भिर्गणधरैः साक्षाद् ग्रथितः / इति गाथाऽर्थः / / 141 / / कुतः पुनरेतद् विज्ञायते यदुत-प्रज्ञापनीयानामनन्तभाग एव श्रुतनिबद्धः? इत्याहजं चोद्दसपुव्वधरा, छट्ठाणगया परोप्परं होति। तेण उ अणंतभागो, पण्णवणिज्जाण जं सुत्तं / / 142 / / यद् यस्मात् कारणात् चतुर्दशपूर्वधराः षट्स्थानपतिताः परस्परं भवन्ति, हीनाधिक्येनेति शेषः। तथाहि-सकलाभिलाप्यवस्तु-वेदितया य उत्कृष्टः चतुर्दशपूर्वधरः, ततोऽन्यो हीनहीनतराऽऽदिः, आगमे इत्थं प्रतिपादितः / तद्यथा-" अणंतभागहीणे वा, असंखे-जभागहीणे वा, संखेज्जभागहीणे वा, संखेनगुणहीणे वा, असंखे-अगुणहीणे वा, अणंतगुणहीणे वा / " यस्तु सर्वस्तोकाऽभिलाप्य-वस्तुज्ञायकतया सर्वजघन्यः, ततोऽन्य उत्कृष्ट उत्कृष्टतराऽऽदि-रप्येवं प्रोक्तः। तद्यथा" अणंतभागभहिए वा, असंखेजभागब्भ-हिए वा, संखेचभागम्भहिए वा, संखेजगुणभहिए वा, अंसखेज-गुणन्भहिए वा, अणंतगुणब्भहिए वा।" तदेवं यतः परस्परं षट्- स्थानपतिताः चतुर्दशपूर्वविदः, तस्मात् कारणाद् यत्सूत्रं चतुर्दशपूर्वलक्षणं तत् प्रज्ञापनीयानां भावानामनन्तभाग एवेति। यदि पुन-र्यावन्तः प्रज्ञापनीया भावास्तावन्तः सर्वेऽपिसूत्रे निबद्धा भवेयुः, तदा तद्वेदिनांतुल्यतैव स्यात्, नषट्स्थानपतितत्वमिति भावः / इति गाथाऽर्थः।।१४२॥ __ आह-ननु यदि सर्वेऽपि चतुर्दशपूर्वविदः, तर्हि कथं तेषां परस्परं हीनाऽऽधिक्यम् ? इत्याहअक्खरलंभेण समा, ऊणऽहिया होंति मइविसेसेहि। ते वि अमईविसेसे, सुयनाणऽडभंतरे जाण // 143 / / चतुर्दशपूर्वगतसूत्रलक्षणेनाक्षरलाभेन समास्तुल्याः सर्वेऽपि चतुर्दशपूर्वविदः, ऊनाधिकास्ते मतिविशेषैर्भवन्ति क्षयोपशमवैचित्र्याद् यथोक्ताक्षरलाभानुसारिभिरेव तैस्तैर्गम्यार्थविषयैर्विचित्रैर्बुद्धिविशेपैहीनाधिका भवन्तीत्यर्थः / इह च मतिशब्दोपादानविभ्रमात् ते मतिविशेषा मा भूवन्नाभिनिबोधिकज्ञानविशेषाः, इत्यह आह-'ते वि येत्यादि / इदमुक्तं भवति-मतिशब्देनेह श्रुतमतिर्विवक्षिता, न त्वाभिनिबोधिकमितिः। ततश्च यश्चतुर्दशपूर्वविदो हीनाधिका-स्तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि श्रुतज्ञानान्त-भांविन एव विद्धि, न त्वाभिनिबोधिकान्तर्वर्तिन इति भावः / यद्य-वम् " ते वि य मईविसेसे, सुयनाणं चेव जाणाहि।" इत्येवमेव प्रगुणे कस्मान्नोक्तम् , किमभ्यन्तरशब्दोपादानक्लेशेन ? नैतदेवम् , अस्याऽपि न्यायस्य दृष्टत्वाद् , अङ्गाभ्यन्तराऽऽदिव्यपदेशवद् , यथा ह्यङ्गमेवाङ्गाभ्यन्तरम् , एवं श्रुतमेव श्रुताभ्यन्तरामित्युक्तं भवति / अथवा-छन्दोभङ्गभयादभ्यन्तरग्रहण, यदि वा-" सुयनाण-" इत्यनेन चतुर्दशपूर्वलक्षणं श्रुतमधिक्रियते, ततश्च तानपि गम्यान मतिविशेषाँश्चतुर्दशपूर्वाक्षरलाभरूपस्य श्रुतस्रौवाभ्यन्तरे जानीहि त्वम् , न व्यतिरिक्तानिति शिष्योपदेशः, चतुर्दशभिरपि हि पूर्वैः कश्चित् साक्षात्, कश्चित्तु गम्यतया सर्वोऽप्यभिलाप्य
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy