SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ णाण 1938 - अमिधानराजेन्द्रः भाग - 4 णाण तपदार्थपरिच्छेदने, आचा०१ श्रु०३ अ०१उ०। द्वा०। अष्ट। स्था०1 द्रव्यपर्यायविषये बोधे, स्था० 3 ठा०२ उ० / विशेषावबोधे, औ० / अष्ट० / स्वपरपरिच्छेदिनि जीवस्य परिणामे ज्ञानाऽऽवरणविगमय्यक्ते तत्त्वार्थपरिच्छेदे, आचा०१ श्रु०१ अ०६ उ०। अष्ट। स्था०। औ०। सत्त्वप्रधानायां बुद्धिवृत्तौ, द्वा० 2 द्वा० / (1) पर्यायार्थिकस्य विशेष एवं वस्तु. स एव गृह्यते येन तज्ज्ञानमभिधीयते।" विसेसियं नाणं / " सम्म०२ काण्ड। ज्ञातिनि-मिति भावसाधनः, संविदित्यर्थः / ज्ञायतेवाऽनेनारमावति ज्ञानं, तदावरणस्य क्षयः, क्षयोपशमो वा / ज्ञायते वाऽस्मिन्निति ज्ञानमात्मा, तदावरणक्षयक्षयोपशमपरिणामयुक्तो, जानातीति वा ज्ञानम् / स्था०५ ठा०३ उ०।" एगेणाणे। "नं०। आ० म०। ज्ञायन्ते परिच्छिद्यन्ते अर्था अनेनाऽस्मिन् अस्मातेति ज्ञानं ज्ञानदर्शनाऽऽवरणयोः क्षयः, क्षयोपशमो वा, ज्ञातिर्वा ज्ञानमावरणद्वयक्षयाऽऽद्याविभूत आत्मपर्यायविशेषः / सामान्यविशेषाऽऽत्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञानपञ्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तच्चानेकमप्यवबोधसामान्यात्, एकमुप-योगापेक्षया वा। तथाहि-लब्धितो बहूना बोधविशेषाणामेकदा संभवेऽप्युपयोगत एक एव संभवत्येकोपयोगत्वाद् जीवानामिति। स्था० 1 ठा० / उत्त०। (2) ज्ञानानिणाणं पंचविहं पण्णत्तं / तं जहा-आमिणिबोहियणाणं, सुयणाणं, ओहिणाणं, मणपज्जवणाणं, केवलणाणं / (णाणं पंचविहं पण्णत्तमित्यादि) ज्ञातिनि, भावेऽनट्प्रत्ययः / अथवाज्ञायते वस्तु परिच्छिद्यतेऽनेनेति ज्ञानं, करणेऽनट् / शेषास्तु व्युत्पत्तयो मन्दमतीनां समोहहेतुत्यान्नोपदिश्यन्ते। पञ्चेति संख्यावाचकः, विधानं विधा, "उपसर्गादातः"॥५।३।११०॥ इत्यङ्प्रत्ययः। पञ्च विधाः प्रकारा यस्य तत्पञ्चविधं पञ्चप्रकार, प्रज्ञप्तं प्ररूपितं, तीर्थकरगणधरैरिति सामर्थ्यादवसीयते, अन्यस्य स्वयं प्ररूपकत्वेन प्ररूपणासंभवात्।नं०। ज्ञानं तीर्थकरैरपि सक-लकालाविलम्बिसमस्तवस्तुस्तोमसाक्षात्कारिकेवलप्रज्ञया पञ्च-विधमेव प्राप्त,गणधरैरपि तीर्थकृभिरुपदिश्यमानं निजप्रज्ञया पञ्चविधमेव प्राप्त, न तु वक्ष्यमाणनीत्या विभेदमेवेति / अथवा-प्राज्ञात्तीर्थकरादाप्तं प्राज्ञाप्तं, गणधरैरिति गम्यते। अथवा-प्राज्ञैगणधरैराप्त तीर्थकरादित्यनुमीयते; तद्यथेत्युदाहरणोपदर्शनार्थः / आभिनिबोधिकज्ञानं, श्रुतज्ञानमवधिज्ञानं, मनःपर्यायज्ञानं, केवलज्ञानं च। नं०। भ० / रा०। कर्म०। सूत्र० / ध०र० / विशे०। आ० म० / आतु० / प्रव० / दर्श०। अनु०।। (३)ज्ञानभेदकारणानिननु सकलमपीदं ज्ञानं ज्ञप्त्येकस्वभावं, ततो ज्ञप्त्येकस्वभावत्याविशेषे किंकृत एष अभिनिबोधिकाऽऽदिभेदः ? ज्ञेयभेदकृत इति चेत्।। तथाहि-वार्तमानिकं वस्त्वाभिनिबोधिकस्य ज्ञानस्य ज्ञेयं, त्रिकालसाधारणः समानः परिणामो ध्वनिगोचरः श्रुतज्ञानस्य, रूपिद्रव्याणि अवधिज्ञानस्य, मनोद्रव्याणि मनःपर्यायज्ञानस्य, समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य। तदेतदसमीचीनम् / एवं सति के वलज्ञानस्य भेदबाहुल्यप्रसक्तेः / तथाहि-ज्ञेयभेदाद् ज्ञानस्य भेदः / यानि च ज्ञेयानि प्रत्येकमाभिनिबोधि-काऽऽदिज्ञानानामिष्यन्ते तानि सर्वाण्यपि केवलज्ञानेऽपि विद्यन्ते, अन्यथा केवलज्ञानेन | तेषामग्रहणप्रसङ्गादविषयत्वात्, तथा च सति केवलिनोऽप्यसर्वज्ञत्वप्रसङ्गः, आभिनिबोधिकाऽऽदिज्ञानचतुष्टयविषयजातस्य तेनाग्रहणात्। न चैतदिष्टमिति। अथोच्येत-प्रति-पत्तिप्रकारभेदतः आभिनियोधिकाऽऽदिज्ञानभेदः / तथाहि-न यादृशी प्रतिपत्तिराभिनिबोधिकस्य ज्ञानस्य तादृशी श्रुतज्ञानस्य, किन्त्वन्यादृशी। एवमबध्यादिज्ञानानामपि प्रतिपत्तव्यं, ततो भवत्येव प्रतिपत्तिभेदतो ज्ञानभेदः / तदप्ययुक्तम्। एवं सत्येकस्मिन् अपि ज्ञानेऽनेकभेदप्रसक्तेः / तथाहि-तत्तद्देशकालपुरुषस्वरूप-भेदेन विविच्यमानमेकैकं ज्ञानं प्रतिपत्तिप्रकारानन्त्य प्रतिपद्यते, तन्नैषोऽपि पक्षः श्रेयान् / स्यादेतत् , अस्त्यावारकं कर्म, तच्चानेक-प्रकारं, ततस्तद्भेदात्तेनावार्य ज्ञानमप्येकतां प्रतिपद्यते, ज्ञाना-वारकं च कर्म पञ्चधा, प्रज्ञापनाऽऽदौ तथाऽभिधानात। ततो ज्ञान-मपिपञ्चधा प्ररूप्यते, तदेतदतीव युक्त्यसङ्गतम्।यत आवार्यापेक्षमायारकमत आवार्यभेदादेव तद्भेदः, आचार्य च ज्ञप्तिरूपा-पेक्षया सकलमप्येकरूपं, ततः कथमावारकस्य पश्चरूपता, येन तदभेदाद् ज्ञानस्यापि पञ्चविधो भेद उद्गीर्येत? अथ स्वभावत एवाऽऽभिनिबोधाऽऽदिको ज्ञानस्य भेदो, न च स्वभावः पर्यनुयोगमश्नुते. न खलु किमिह दहनो दहति, नाकाशमिति कोऽपि पर्यनुयोगमाचरति / अहो महती महीयसी भवतः शेमुषी। ननुयदिस्वभावत एवाऽभिनिबोधाऽऽदिको ज्ञानस्य भेदः, तर्हि भगवतः सर्वज्ञत्वहानिप्रसङ्गः / तथाहिज्ञानमात्मनो धर्मः, तस्य चाभिनिबोधाऽऽदिको भेदः स्वभावत एव व्यवस्थितः, ततः क्षीणाऽऽवरणस्यापि तद्भावप्रसङ्गः / सति च तद्भावेऽरमादृशस्येव भगवतोऽप्यसर्वज्ञत्वमापद्यते, केवलज्ञानभावतः समस्तवस्तुपरिच्छेदाद् नासर्वज्ञत्वमिति चेत्, ननुयदा केवलोपयोगसंभवः, तदा भवतु भगवतः सर्वज्ञत्वं, यदात्वाभिनिबोधिकाऽऽदिज्ञानोपयोगसंभवः, तदा देशतः परिच्छेदसंभवादस्मादृशस्येव तस्यापि बलादसर्वज्ञ-त्वमापद्यते / न च वाच्यं तस्य तदुपयोग एव न भविष्यत्यात्मनः स्वभावत्वेन तस्याऽपि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात् , केवलज्ञानानन्तरं केवलदर्शनोपयोगवत्,ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं, शेषज्ञानोपयोगकाले चासर्वज्ञत्वमापद्यते, तच विरुद्धमतोऽनिष्टमिति। आहच" नन्नेगसहावत्ते, आभिणिबोहाइ किं कओ भेओ? नेयविसेसाउ चिय, न सव्वविसयं जओ चरिमं / / 1 / / अह पडिवत्तिविसेसा, नेगम्मि अणेगभेयभावाओ। आवरणविभेओ वि हु, सभावभेयं विणा न भवे।।२।। तम्मि य सइ सव्वेसिं, खीणावरणस्स पावई भावो। तद्धम्मत्ताउ चिय, जुत्तविरोहा स चाणिडो॥ 3 // अरहा वि असव्वन्नू , आभिणिबोहाइभावओ णियमा। केवलभावाउ चिय, सव्वन्नू नणु विरुद्धमिणं "|| 4 || तस्मादिदमेव युक्तियुक्तं पश्यामो-यदुतावग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तपरमावधिज्ञानं तावत्सकलमप्येकं, तचासकलसंज्ञितम् , अशेषवस्तुविषयत्वाभावात् / अपरं च के वलिनः, तच सकलमसंज्ञितमिति द्वावेव भेदौ / उक्तं च-" तम्हा अवग्गहाओ, आरज्ा इहेगमेव नाण ति। जुत्तं छउमत्थस्सा; सगलं इयरं च केवलिणो॥१॥" अत्र-प्रतिविधीयते -तत्र यत्तावदुक्तं सकलमपीदं ज्ञान ज्ञप्त्येक स्वभावं, ततो ज्ञप्त्येक स्वभावत्वाविशेषे किं कृत एष अभिनिबोधाऽऽदिको भेद इति ? तत्र ज्ञप्त्ये क स्व
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy