________________ णय 1863 - अभिधानराजेन्द्रः भाग - 4 णय अथोक्तविषयस्वामित्वमाहनयाश्योपनयाश्चैते, तथा मूलनयावपि / इत्थमेव समादिष्टं, नयचक्रेऽपि तत्कृता / / 8|| (नयेति) एते नया उक्तलक्षणाः, च पुनरुपनयास्तथैव द्वौ मूलनयौ, अपि निश्चयेन इत्थनमुना प्रकारेण एव, नयचक्रेऽपि दिगम्बरदेवसेनकृते शास्त्रे नयचक्रेऽपि, तत्कृता तस्य नयचक्रस्य कृता उत्पादकेन समादिष्ट कथितम् / एतावता दिगम्बरमतानुगतनय-चक्रग्रन्थपाठपठितनयोपनयमूलनयाऽऽदिकं सर्वमपि सर्वज्ञप्रणीत-सदागमोक्तयुक्तियोजनासमानतन्त्रत्वमेवाऽऽस्ते, न किमपि विसं-वादितयाऽस्तीति। 8 / अथ पुनरपि श्वेताम्बरदिगम्बरयोः समानतन्त्रत्व मुपदिशन्नाहयद्यपीहार्थभेदो न, तस्याऽस्माकमपि स्फुटम्। तथाऽप्युत्क्रमशैल्याऽसौ, दह्यते चाऽन्तराऽऽर्मना / / 6 / / यद्यपि तस्य देवसेनस्य दिग्वाससोऽपि, तथा अस्माकं श्वेतभि-क्षूणां, स्फुटं प्रकटं यथा स्यात्तथा, इह द्रव्याऽऽदिपरिज्ञानोपयोगि-नि नयविचारे, अर्थभेदो विषयभेदो नास्ति, उभयोरप्याऽऽदेशे विषयाभेदत्वमेव, शब्दाऽऽदेशे किमपि पाठान्तरत्वाद् न किमपि दोषः / यथा हि अर्थे प्रयोजनवन्तस्तार्किकाः, शब्दस्याऽप्रयोजक-त्वात्। तथाऽप्यसौ देवसेनो दिगम्बर उत्क्रमशैल्या विपरीतपरि-भाषया अर्थस्य तादृशत्वेन शब्दस्यातादृशत्वेन च उत्क्रमशैल्या कृत्वा, अन्तराऽऽत्मना अन्तरङ्गपरिणामेन ईर्ष्यालुत्वाद् , दह्यते खिद्यते / ईलिवो हि अन्तरुपतापपरा एव भवन्ति निष्कारण-मेवेति। यतः-" यद्यपि न भवति हानिः, परकीयां चरति रासभो द्राक्षाम्। असमञ्जसं तु दृष्ट्वा, तथाऽपि परिखद्यते चेतः // 1 // " इति वचनाद् यथोक्तभागवतसिद्धान्तशुद्धपरिभाषां त्यक्त्वा स्वकपोलकल्पितसंस्कृतभाषया श्रीवीतरागोतार्थविषयमङ्गीकृत्य नवीनग्रन्थं विरचय्य प्रभावं ख्यापयतीत्यर्थः / / 6 / / (30) अथ वोटिकमताऽभिमतविपरीतपरिभाषां दर्श यन्नाहतत्त्वार्थेऽपि नयाः सप्त, पञ्चाऽऽदेशान्तरेऽपि वा। अन्तर्भूतौ समुद्धृत्य, नवेति किमु कल्पते ? // 10 // तत्त्वार्थसूत्रे नयाः सप्त उक्ताः, पुनरादेशान्तरे मतान्तरे तत्रैव नयाः पञ्च प्रतिपादिताः। तथा च तत्सूत्रम्-"सप्त मूलनयाः, पञ्च इत्या-देशान्तरे' इति / शब्दः, समभिरूढः, एवंभूत इति नयत्रिक शब्द-नय इति नाम्ना संगृहीतानां त्रयाणामेवैकं नाम शब्दनय इति जायते, ततः प्रथमे चत्वारोऽतस्तैः सह पञ्च नया इति। अथैकैकस्य भेदानां शतमस्ति, तत्र च सप्तशतं तथा पञ्चशतम् , एवं मतदयेऽपि भेद-कल्पनम्।तथोक्तमावश्यके-" इक्किको यसयविहो, सत्तणयसया हवंति एमेव। अण्णो वि हु आएसो, पंचेव सया णयाणं तु " // (2264) एतादृशीं शास्त्रपरिभाषा त्यक्त्वा द्रव्यार्थिकपर्यायार्थि-कनामानौ एष्वन्तर्भावितावेव उद्धृत्य दूरे कृत्वा नव नयाः कथिताः, इति किमु कल्पते देवसेनेन कः प्रपञ्चः क्रियते ? // 10 // पुनश्चर्या कथयन्नाह यदि पर्यायद्रव्यार्थ-नयौ मिन्नौ विलोकितौ। अर्पितानर्पिताभ्यां तु, स्युर्नकादश तत्कथम् ? // 11 // (यदीति) यदि पर्यायार्थद्रव्यार्थनयौ भिन्नौ विलौकितौ पृथक् दृष्टी, तत्तस्मान्नव नया इति कथम् ? अर्पितानर्पिताभ्यां सह एका-दश नया इति कथं न स्युः, अपि तु स्युः / भावार्थस्त्वयम्-नैगम-संग्रहव्यवहारभेदाद् आधो द्रव्यार्थिकस्त्रिधा, पर्यायार्थिकश्वतु ऋजुसूत्रं, शब्दः, समभिरूढः, एवंभूतश्चेति। अर्पितानर्पिताभेदावपि सामान्यविशेषपर्यायौ,तौ च द्रव्यपर्याययोश्चेति। तथाहि-सामान्यं द्विप्रकारम् . ऊर्द्धतासामान्यं, तिर्यक्सामान्यं च / तत्र ऊर्द्धतासामान्यं द्रव्यमेव, तिर्यक्सामान्यं तु प्रतिव्यक्ति सदृशपरिणतिलक्षणं व्यञ्जनपर्याय एव, स्थूलाः प्रावचनिकप्रसिद्धेः / विशेषोऽपि वैसदृश्यविवर्त्तलक्षणः पर्याय एवान्तर्भवतीति, नैताभ्यामधिकनयावकाशः / / 11 // संग्रहे व्यवहारे च, यदीमा युङ्क्थ केवलम् / तदाद्यन्तनयस्तोके, किं न युफ्थ हि तावपि ? / / 12 // अथ संग्रहे च पुनर्व्यवहारे यदि इमौ अर्पितानर्पितौ युक्थ, तर्हि आद्यन्तनयस्तोके तावपि(द्रव्यपर्यायौ)किं न युथ इति? यदि एवं कथयथ अर्पितानर्पितसिद्धेरित्यादिसूत्रेषु अर्पिता विशेषाः, अनर्पिताः सामान्याः / तत्र अर्पिता व्यवहाराऽऽदिविशेषनयेषु अन्तर्भवन्ति, अनर्पिताः संग्रहेऽन्तर्भवन्ति, तदा आद्येषु प्रथमेषु, अन्त्येषु पाश्चात्येषु नयस्तोकेषु इमौ द्रव्यपर्यायौ कथं न युञ्जीत सप्तनयसंबन्धसिद्धेरिति विचारणीयम् ? सिद्धान्ते श्रीजिनवाणी सप्तनयाऽवतारिका एवाऽस्ति, न न्यूनाधिका / यतः-" से किं तं नए ? सत्त मूलनया पण्णत्ता / तं जहा-णगमे 1, संगहे 2, व्यवहारे 3, उज्जुसुए४, सद्दे 5, समभिरूढे 6, एवंभूए७।" इत्यादिसूत्र-पाठोऽपि ज्ञेयोऽतस्तत्सूत्रमार्ग त्यक्त्वा नया नव इत्यधिकयोजना न साधीयसी। अथ अन्तर्भूतानां पृथक्करणमपि पिष्टपेषणमेवेति // 12 // द्रव्या० 8 अध्या०। (31) व्यवहारनयात्साङ्ख्यम्अशुद्धाद्व्यवहाराख्या-त्ततोऽभूत्साङ्ख्यदर्शनम्। चेतनाऽचेतनद्रव्या-ऽनन्तपर्यायदर्शकम्॥१११॥ (अशुद्धादिति) व्यवहाराऽऽख्याद् व्यवहारनामधेयादशुद्धात्ततो द्रव्यार्थिकनयात् साङ्ख्यदर्शनमभूत्। कीदृशं तत् ? चेतनश्चाचेतनद्रव्यं चानन्तपर्यायाश्चाविर्भावतिरोभावाऽऽत्मकास्तेषां दर्शकं प्रतिपादकमिति / (111) नयोः / अशुद्धस्तु द्रव्यार्थिको व्यवहारनयमतावलम्बी एकान्तनित्यचेतनवस्तुद्वयप्रतिपादकसाङ्ख्यदर्शनाश्रितोऽत एव तन्मताऽनुसारिणः साङ्ख्याः / सम्म०१ काण्ड। (32) अथवेदान्तिसाङ्ख्यदर्शनयोः शुद्धाशुद्धद्रव्यार्थिकप्रकृतिकत्वं यदुक्तं, तत्राऽविशेष दृष्ट्या भेदबीजाभावमाशङ्कतेयद्यप्येतन्मतेऽप्यात्मा, निर्लेपो निर्गुणो विभुः। अध्यासाव्यवहारच, ब्रह्मवादेऽपि संमतः // 112 / / (यद्यपीत्यादि) यद्यपि एतन्मतेऽपि सा ख्यमतेऽप्यात्मा निर्लेपः कर्तृत्वाऽऽदिले परहितो निर्गुणो गुणस्पर्शशून्यो विभुयापकश्चेति शुद्धाऽऽत्माऽभ्युपगमेनोभयत्र शुद्धितौल्यम्। नच