SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ णय १८७६-अभिधानराजेन्द्रः भाग - 4 णय न्तमनभ्युपगच्छन्तं प्रति व्यवहारसाधनाय दृष्टान्तोपादानस्य साफल्यात, प्रवर्तितश्च तेनाऽपि.तत्रानेकान्तव्यवहारः। दृष्टान्तगुणप्रतिपादनायाऽऽहलोइयपरिच्छियसुहो-ऽनिच्छयवयणपडिवत्तिमग्गो य। अह पण्णवणाविसओ, त्ति तेण वीसत्थमुवणीओ / / 26 / / व्युत्पत्तिकलनाद् युक्तं प्राणिसमूहसुखग्राह्यत्वमेकानेकाऽऽत्मकभावविषयवचो वाऽऽगमजनकत्वं वा / अथेत्यवधारणार्थः, अनन्तधर्माऽऽत्मकवस्तुप्ररूपकवाक्यविषयत्वं दृष्टान्तस्यैव तैः कारणैः शङ्काव्यवच्छेदेनायमुपदर्शित इति गाथातात्यार्थः / न चाऽऽवल्यवस्थायाः प्रागुत्तरकालं च रत्नानां पृथगुपलम्भादिह च सर्वदा तथोपलम्भाभावाद्विषममुदाहरणमिति वक्तव्यम् , अवस्थाया उदाहरणत्वेनोपन्यासात्। न च दृष्टान्तदान्तिकयोः सर्वथा साम्यम् , तत्र तदभावानुपपत्तेः / रत्नाऽऽदिकारणेष्वावल्यादि कार्य सदैवेति साङ्ख्यः , तेषामेवानेन रूपेण व्यवस्थितत्वात् / तदव्यतिरिक्त विकारमात्र कार्य तदेवेति सांख्यविशेष एव। न कार्य कारणे विद्यते इति तेभ्यस्तत् पृथग्भूतं, न हि कारणमेव कार्यरूपेण व्यवतिष्ठते परिणमते इति वैशेषिकाऽऽदयः। नच कार्य कारणं वाऽस्ति, द्रव्यमात्रमेव तत्त्वमित्यपरः / एवंभूताभिप्रायवन्त एकान्तवादिनो दृष्टान्तस्य साध्यसमता मन्यन्ते। तान् प्रत्याहइहरा समूहसिद्धो, परिणामकउ व्व जो जहिं अत्थो। ते तं च ण तं तं चेव वत्ति नियमेण मिच्छत्तं / / 27 / / इतरथोक्तप्रकारादन्यथा, समूहे रत्नानां, सिद्धो निष्पन्नः परिणामकृतो वा मण्यादिष्वावल्यादिः, क्षीराऽऽदिषु दध्यादि। यो यत्राऽर्थः तं ते मण्यादय आवल्यादिकार्य, क्षीरं दध्यादिकं, तत्र तत्सद्भावात् , तस्य तत्परिणामरूपत्वात् समूहः सिद्धः परिणाम-कृतो वेति च द्वयोरुपादानं लौकिकव्यवहारापेक्षया / परमार्थतस्तु परमाणुसमूहपरिणामाऽऽत्मकत्वात् सर्व एव समूहकृतः, परिणामकृतो वेति न भेदः / अयं चाभ्युपगमो मिथ्या (मिथ्यात्वं च सम्मतौ विवृतम्)। सम्म०१ काण्ड। (12) ननु नयग्रन्थे सम्मत्यादौ बौद्धाऽऽदिदर्शनपरिग्रहेण नैयायिकाऽऽदिदर्शनखण्डन श्रूयते, तत्र दुर्नयपरिग्रहे किं न मिथ्यात्वै-कान्त इत्याशङ्कयाऽऽहबौद्धाऽऽदिदृष्टयोऽप्यत्र, वस्तुस्पर्शेन नाऽप्रमाः। उद्देश्यसाधने रत्न-प्रभायां रत्नबुद्धिवत् // 11 // (बौद्धाऽऽदीति) अत्र नयग्रन्थे उद्देश्यं यदपि निविष्टतरनयखण्ड-नं. तत्साधने तत्साधननिमित्तं, बौद्धाऽऽदिदृष्टयोऽपि बौद्धाऽऽदिनयपरिग्रहा अपि, वस्तुस्पर्शन शुद्धपर्यायाऽऽदिवस्तुप्राप्त्या, नाप्रमाः फलतो न मिथ्यात्वरूपा इत्यर्थः / किंवत् ? रत्नप्रभायां रत्नबुद्धिवत्। यथा हि तत्राऽरत्ने रत्नावगाहितया स्वरूपतो न प्रामाण्यम् , दूरविप्रकर्षात्तु वस्तुप्रापकतया फलतः प्रमाण्यम् , तथा दुर्नयान्तरच्छेदाय दुर्नयान्तरपरिग्रहेऽपीति न कश्चिद्दोषः / / 11 // (13) एवं सामान्यलक्षणं विचिन्त्य तद्विभागमाहअयं संक्षेपतो द्रव्य-पर्यायार्थतया विधा। द्रव्यार्थिकमते द्रव्यं, तत्त्वं नेष्टमतः पृथक् / / 12 / / (अयमिति) अयं सामान्यलक्षणलक्षितो नयः संक्षेपतोऽवान्तरभेदापरिग्रहेण द्रव्यपर्यायतया द्रव्यार्थिकः पर्यायार्थिकश्चेति द्विधा द्विप्रकारः, तीर्थङ्करवचनसंग्रहविशेषप्रस्तारमूलत्वेनेत्थमेव मूलनयविभजनात् / तदाह वादी-" तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी। दव्वट्टिओ व पज्ज-वणओ य सेसा विगप्पा सिं // 3 // " इति। (सम्म० 1 काण्ड) तत्राऽऽदौ द्रव्यार्थिकमत आह-द्रव्या-र्थिकस्य मते द्रव्यं तत्त्वं परमार्थ सदतः द्रव्यात् पृथग भिन्नं विकल्प-सिद्ध गुणपर्यायस्वरूपतत्त्वं नेष्टम् संप्रतिसतोऽपि तस्य परमार्थ-तोऽसत्त्वादिति भावः / / 12 / / नयो० / द्रव्या०। (14) अत्र कुण्ठधियोऽप्यन्तेवासिनो योग्यताप्रतिपादनार्थः प्रकरणाऽऽरम्भः प्रतिपादितः / सा च विशिष्टसामान्यविशेषाऽऽत्मकतदुपायभूतार्थप्रतिपादनमन्तरेणातः प्रकरणान्न संपद्यत इति प्रकरणाभिधेयं योग्यतोपायभूतमर्थम्तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी। दव्वढिओ य पज्जव-णओ य सेसा विगप्पा सिं // 3 // इत्यनया गाथया निर्दिशति / अस्याश्च समुदायार्थः पातनिकयैव प्रतिपादितः। अवयवार्थस्तु-तरन्ति संसारार्णवं येन तत्तीर्थ वाद-शाङ्गम्, तदाधारो वा सङ्घः, तत्कुर्वन्त्युत्पद्यमानमुत्पादयन्ति तत्स्वाभाव्यातीर्थकरनामकर्मोदयाद्वेति हेत्वाद्यर्थे टच् / तीर्थकराणां वचनमाचाराऽऽदि, अर्थतस्तस्य तदुपदिष्टत्वात् , तस्य संग्रहवि-शेषौ द्रव्यपर्यायौ सामान्यविशेषशब्दवाच्यावभिधेयो, तयोः प्रस्ता-र:-प्रस्तार्यते येन नयराशिना संग्रहाऽऽदिकेन स प्रस्तारः, तस्य संग्रहव्यवहारप्रस्तारस्य मूलव्याकरणी आद्यवक्ता ज्ञाता वा द्रव्या-स्तिकः द्रुतिर्भवनं द्रव्यं सत्तेति यावत्। तत्राऽस्तीति मतिरस्य द्रव्या-स्तिकः" सह सुपा"।२।१। 4 / इत्यत्र" सूपा सह " इति योगविभागाद् , मयूरव्यंसकाऽऽदित्वावा द्रव्यास्तिकशब्दयोः स-मासः। द्रव्यमेव वाऽर्थोऽस्येति द्रव्यार्थिकः, द्रव्ये वा स्थितो द्रव्य-स्थितः। परि समन्तादवनमवः पर्यवो विशेषः, तद् ज्ञाता वक्ता वा यो नयः नीतिः सपर्यवनयः। अत्र छन्दोभङ्गभयात्पर्यायास्तिक इति वक्तव्ये पर्यवनय इत्युक्तम् , तेनाऽत्राऽपि पर्याय एवाऽस्तीति द्रव्यास्तिकवद् व्युत्पतिर्द्रष्टव्या / स च विशेषप्रस्तारस्य ऋजुसूत्रशब्दाऽऽदेराद्यो वक्ता / ननु च मूलव्याकरणीति, अस्य द्रव्यास्तिकपर्यायनयावभिधेयाविति द्विवचनेन भाव्यं, न प्रत्येकं, वाक्यपरिसमाप्तेः / अतएव चकारद्वयं सूत्रनिर्दिष्टम्।शेषास्तुनैगमाऽऽदयो विकल्प्या भेदाः, अनयोर्द्रव्यार्थिकपर्यायार्थिकयोः (सिमिति) प्राकृतशैल्या" बहुवयणेण दुक्यणं " इति द्विवचनस्य बहुवचन-म् / तथाहि-परस्परविविक्तसामान्यविशेषविषयत्वाद्रव्यार्थिक-पर्यायार्थिकावेव नयौ। नच तृतीयं प्रकारान्तरमस्ति, यद्विषयोऽ-न्यस्ताभ्यां व्यतिरिक्तो नयः स्यात्। तृतीयविषयस्य चाऽसंभवः, भेदाभेदविनिर्मुक्तस्य भावात्प्रकृतविकल्पानतिवृत्तेः तत्स्वभा-वातिक्र मे वा खपुष्पसदृशत्वप्रसक्तेः, ताभ्यां तद्वतोऽन्तिरस्य सर्व-था संबन्धप्रतिपादनापायासंभवात्समयस्य तैरसंबन्धे तद्व्यपदेशानुपपत्तेः समवायान्तरकल्पनायामनवस्थाप्रसक्तेर्विशेषणविशे-ष्यसंबन्धकल्पनायामप्यपरापरतत्कल्पनाप्रसक्तेर्न संबन्धसिद्धिः। ततः स्थितमेतन्न किञ्चिन्नयद्वयबहिर्भाविभावस्वभावान्तरविकल्पनाऽऽविलं विलम्बि प्ररूपणान्तरमिति। केवलंतयोरेव शुद्ध्य
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy