SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ णक्खत्त 1782 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त तिणि मुहुत्ता, एगूणवीसंच वावट्ठिभागा मुहुत्तस्स, वावट्ठिभागं च सत्तट्ठिहा छेत्ता पण्णट्ठिचुणियाभागासेसा। " तत्थ खलु " इत्यादि। तत्र युगे खलुइमा वक्ष्यमाणस्वरूपाः द्वाषष्टिः पौर्णमास्यो, द्वाषष्टिरमावास्याः प्रज्ञप्ताः / एवमुक्ते भगवान् गौतमः पृच्छति-" ता" इत्यादि।' ता इति। तत्र युगे एतेषामनन्तरोदिताना चन्द्राऽऽदीनां पञ्चानां संवत्सराणां मध्ये प्रथमा पौर्णमासी चन्द्रः कस्मिन् देशे युनक्ति परिसमापयति? भगवानाह-" ताजंसिण" इत्यादि। तत्र यस्मिन् देशे चन्द्रश्चरमा पाश्चात्य युगपर्यन्तवर्तिनी द्वाषष्टिमा पौर्णमासी युनक्ति परिसमापयति, तस्मात् पौर्णमासीस्थानाघरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिस्थानात् परतो मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा विभज्य, तद्गतान्द्वात्रिंशद्भागानुपादाय गृहीत्वा, अत्र द्वात्रिंशद्भागरूपे देशे चन्द्रः प्रथमां पौर्णमासी युनक्ति परिसमापयति।भूयः प्रश्नं करोति" ता एतेसि णं " इत्यादि।' ता ' इति / तत्र युगे एतेषामनन्तरोदितानां पशानां संवत्सराणां मध्ये या द्वितीया पौर्णमासी, तां चन्द्रः कस्मिन् देशे परिसमापयति? भगवानाह-"ता जसिणं " इत्यादि। तत्रयस्मिन् देशे चन्द्रः प्रथमां पौर्णमासी युनक्ति परिसमापयति, तस्मात् पौर्णमासीस्थानात् प्रथमपौर्णमासीपरिसमाप्तिस्थानात् परतो मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा तद्गतान्द्वात्रिंशद्भागानुपादायात्र प्रदेशे स चन्द्रो द्वितीयां पौर्णमासी परिसमापयति / एवं तृतीयपौर्णमासीविषयमपि सूत्र व्याख्येयम्। एवं द्वादशपौर्णमासीविषयमपि। नवरं(दोण्णि अट्ठासीते भागसते त्ति) तृतीयस्याः पौर्णमास्याः परतो द्वादशो किल पौर्णमासी नवमी भवति, ततो नवभिभत्रिंशतो गुणने द्वे शतेऽष्टाशीत्यधिके भवतः 288 / संप्रत्यतिदेशमाह-"एवं खलु" इत्यादि। एवमुक्तेन प्रकारेण खलु निश्चितमेतेनानन्तरोदितेनोपायेन यां पौर्णमासी यत्र यत्र देशे परिसमापयति, तस्याः तस्याः पौर्णमास्यास्ततोऽनन्तरां पौर्णमासी तस्मात्तस्मात् पाश्चात्यपाश्चात्यपौर्णमासीपरिसमाप्तिस्थानाद मण्डलं चतुर्विशत्यधिके न शतेन छित्त्वा परतस्तद्गतान् द्वात्रिंशद्वात्रिंशतं भागानुपादाय तस्मिन् तस्मिन् देशे तां ता पौर्णमासी चन्द्रः परिसमापयति। स चैवं परिसमापयंस्तावद्वेदितव्यो, यावद्भूयोऽपि चरमां द्वाषष्टिं पौर्णमासी तस्मिन् देशे परिसमापयति, यस्मिन् देशे पाश्चात्ययुगे चरमां द्वाषष्टिं पौर्णमासी परिसमापितवान् / कथमेतदवसीयते ? इति चेत् / उच्यते-गणितक्रमवशात् / तथाहि-पाश्चात्ययुगे चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिस्थानात् परतो मण्डलस्य चतुर्विशत्यधिकशतप्रविभक्तस्य सत्कानां द्वात्रिंशतो भागानामतिक्रमे तस्यास्तस्याः पौर्णमास्याः परिसमाप्तिः, द्वाषष्टिश्च सर्वसंख्यया युगे पौर्णमास्यः। ततो द्वात्रिंशद्वाषष्ट्या गुण्यते, जातान्येकोनविंशतिशतानि चतुरशीत्यधिकानि 1684 / तेषां चतुर्विंशत्यधिकेन शतेन भागो हियते, लब्धाः षोडश सकलमण्डलपरावर्ताः, समस्तस्यापि च राशेर्निर्लेपीभवनादागतंयस्मिन् देशे पाश्चात्ययुगसंबन्धिचरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिः, तस्मिन्नेव देशे विवक्षितस्यापि च युगस्य चरमद्वाषष्टित- 1 मपौर्णमासीपरिसमाप्तिः। संप्रति चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिदेशं पृच्छति-" ता एतेसि णं " इत्यादि।' ता' इति पूर्ववत्। तत्र युगे | एतेषामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये चरमां द्वाषष्टितमा पौर्णमासी चन्द्रः कस्मिन् देशे युनक्तिपरिसमापयति? भगवानाह-(ता जंबुद्दीवस्स णं दीवस्स इत्यादि)' ता' इति पूर्ववत् / जम्बुद्वीपस्य, णमिति वाक्यालङ्कारे / द्वीपस्योपरि प्राचीनापाचीनाऽऽयतया, इह प्राचीनग्रहणेनोत्तरपूर्वा गृह्यते, अपाचीनग्रहणेन दक्षिणापरा / ततोऽयमर्थःपूर्वोत्तरदक्षिणापराऽऽयतया: एवमुदीच्यदक्षिणाऽऽवतया, पूर्वदक्षिणोत्तरापराऽऽतया जीवया प्रत्यञ्चया, दवरिकया इत्यर्थः / मण्डल चतुर्विशेन शतेन चतुर्विशत्यधिकेन शतेन छित्त्वा विभज्य, भूयश्चतुर्भिविभज्यते / ततो दक्षिणात्ये चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे सप्तविंशतिभागानुपादायाष्टाविंशतितमं च भागं विशतिधा छित्त्वा, तद्गतानष्टाविंशतिभागानुपादाय शेषैस्विभि गश्चतुर्थस्य भागस्यद्वाभ्यां कलाभ्यां पाश्चात्यचतुर्भागमण्डलसंप्राप्तोऽस्मिन् प्रदेशे चन्द्रो द्वाषष्टितमा चरमां पौर्णमासी परिसमापयति / तदेवं चन्द्रस्य पौर्णमासीपरिसमाप्तिदेश उक्तः। संप्रति सूर्यस्य पौर्णमासीपरिसमाप्तिदेशं प्रतिपिपादयिषुस्तद्विषय प्रश्नसूत्रमाह-(ता एतेसि णं इत्यादि)'ता' इति / तत्र युगे एतेषामनन्तरोदितानां पञ्चाना संवत्सराणा मध्ये प्रथमां पौर्णमासी सूर्यः कस्मिन् देशे स्थितःसन्युनक्तिपरिसमापयति? भगवानाह-(ताजंसि णं इत्यादि) तत्र यस्मिन् देशे स्थितः सन् सूर्यश्वरमा पाश्चात्ययुगवर्तिनी द्वाषष्टितमा पौर्णमासींयुनक्तिपरिसमापयति, तस्मात् पौर्णमासीस्थानात् चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात परतो मण्डल चतुर्विशत्यधिकेन शतेन छित्वा विभज्य, तद्गतान् चतुर्नवतिभागान् उपादाय, अत्र प्रदेशे सूर्यः प्रथमा पौर्णमासी परिसमापयति / किमत्र कारणमिति चेत् ? उच्यते-इह परिपूर्णेषु त्रिंशदहोरात्रेषु परिसमाप्लेषु सत्सु स एव सूर्यस्तस्मिन्नेव देशे वर्तमानः प्राप्यते, न कतिपयभागन्यूनेषु, पौर्णमासी च चन्द्रमासपर्यन्ते परिसमाप्तिमुपैति; चन्द्रमासस्य च परिमाणमेकोनत्रिंशदहोरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वाषष्टिभागाः / ततस्विशत्तमेऽहोरात्रे द्वात्रिंशतिद्वाषष्टिभागेषु गतेषु सूर्यश्वरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् चतुर्नवतौ चतुर्विशत्यधिकशतभागेष्वतिक्रान्तेषु प्रथमां पौर्णमासी परिसमापयन्नवाप्यते / किमुक्तं भवति?-त्रिंशता भागैस्तमेव देशमप्राप्तः सन्नवाप्यते, त्रिंशतो द्वाषष्टिभागानामहोरात्रसत्कानामद्यापि स्थितत्वात् / भूयः प्रश्नयति(ता एतेसि णमित्यादि) ता' इति / तत्र युगे एतेषां पञ्चानां संवत्सराणां मध्ये द्वितीयां पौर्णमासी सूर्यः कस्मिन् देशे स्थितः सन् युनक्तिपरिसमापयति? भगवानाह-(ता जंसि णमित्यादि)'ता' इति / तत्र यस्मिन् देशे स्थितः सन् सूर्यः प्रथमां पौर्णमासी परिसमापयति, तस्मात् पौर्णमासीस्थानात् प्रथमपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् परतो मण्डलं चतुर्विंशत्यधिकेन शतेन छित्त्वा तद्गतान चतुर्नवतिभागान उपादाय अत्र देशे स्थितः सन् सूर्यो द्वितीयां पौर्णमासी परिसमापयति। एवं तृतीयपौर्णमासीविषयमपि सूत्र वक्तव्यम्। एवंद्वादशपौर्णमासीविषयमपि / नवरं (अट्ठचत्ताले भागसते त्ति) तृतीयस्याः पौर्णमास्याः परतो द्वादशी किल पौर्णमासी नवमी, ततश्चतुर्नवतिर्नवभिर्गुण्यते, जातान्यष्टौ शतानि षट् चत्वारिंशुदधिकानि 846 / संप्रति शेष
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy