SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ णक्खत्त 1764 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त जोयं जोएति / अस्थि णक्खत्ता, जे णं छ अहोरत्ते एगवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोइंति / अस्थि णक्खत्ता; जे णं तेरस अहोरत्ते वारस य मुहुत्ते सूरेण सद्धिं जोयं जोइंति / अस्थि णक्खत्ता, जेणं वीसं अहोरते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोइंति। ता एतेसिणं अट्ठावीसाए णक्खत्ताणं कतरे णक्खत्ते, जं चत्तारि अहोरत्ते छच्च मुहुत्ते णं सूरेण सद्धिं जोयं जोएति ? कतरे णक्खत्ता, जेणं छ अहोरत्ते एगवीसंच मुहुत्ते सूरणे सद्धिं जोयं जोइंति? कतरे णक्खत्ता, जेणं तेरस अहोरत्ते वारस य मुहुत्ते सूरेण सद्धिं जोयं जोइंति ? कतरे णक्खत्ता, जे णं वीसं अहोरत्ते तिपिण य मुहुत्ते सूरेण सद्धिं जोयं जोइंति। ता एतेसि णं अट्ठावीसाए णक्खत्ताणं, तत्थ जे से णक्खत्ते, जे णं चत्तारि अहोरत्ते छचमुहुत्ते सूरेण सद्धिं जोयं जोएति, से णं एगे अभिई। तत्थ जे ते णक्खत्ता, जे णं छ अहोरत्ते एगवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोइंति, ते णं छ / तं जहा-सतभिसया, भरणी, अद्दा, अस्सेसा, साती,जेट्ठा। तत्थ जे ते णक्खत्ता, जे णं तेरस अहोरते दुवालस य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं पण्णरस। तं जहा-सवणो, धणिट्ठा, पुव्वभवता, रेवती, अस्सिणी, कत्तिया, मग्गसिरं, पुस्सो, महा, पुव्वाफग्गुणी, हत्थो, चित्ता, अणुराधा, मूलो, पुवासाढा / तत्थ जे ते णक्खत्ता, जे णं वीसं अहोरते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोइंति, ते णं छ। तं जहा-उत्तराभद्दवता,रोहिणी, पुणव्वसू, उत्तराफग्गुणी, विसाहा, उत्तरासाढा / " ता एतेसिणं " इत्यादि। ' ताइति पूर्ववत् / एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये अस्ति तन्नक्षत्रं, यच्चतुरो अहोरात्रान् षट् च मुहूर्तान यावत्सूर्येण सार्द्ध योगमुपैति। तथाऽस्तीति सन्ति तानि नक्षत्राणि, यानि षडहोरात्रानेकाविंशतिं च मुहूर्तान् सूर्येण सार्द्ध योगं युञ्जन्ति / तथा सन्ति तानि नक्षत्राणि, यानि त्रयोदश अहोरात्रान् , द्वादश च मुहूर्तान यावत्सूर्येण सह योगमुपयान्ति। तथा सन्ति तानि नक्षत्राणि, यानि विंशतिमहोरात्रान् त्रीन् मुहूर्तान् यावत्सूर्येण समं योगं युञ्जन्ति / एवं भगवता सामान्येनाक्तौ विशेषावगमनिमित्तं भयोऽपि भगवान गौतमः पृच्छति-" ता एतेसि ण " इत्यादि सुगमम् / भगवान् निर्वचनमाह-"ता एतेसिणं " इत्यादि। 'ता' इति पूर्ववत्। एतेषामष्टाविंशतेनक्षत्राणां मध्ये यन्नक्षत्रं चतुरो अहोरात्रान् षट् च मुहूर्तान् सूर्येण सार्द्ध योग युनक्ति, तदेकमभिजिन्नक्षत्रमसेयम्। तथाहि-सूर्ययोगविषयं पूर्वाऽऽचार्यप्रदर्शितमिदं करणम्"जं रिक्खं जावइए, वच्चइ चंदेण भाग सत्तट्टी। तं पणभागे राई-दियस्स सूरेण तावइए ||1|| अस्या अक्षरगमनिका-यत् ऋक्ष नक्षत्रं यावतो रात्रिन्दिवस्याहोरात्रस्य सम्बन्धिनः सप्तषष्टिभागान् चन्द्रेण सह योगंव्रजति, तन्नक्षत्र रात्रिन्दिवस्य पञ्च भागान् तावतः सूर्येण समं व्रजति। तत्राभिजिदेकविंशतिसप्तषष्टिभागान चन्द्रेण समं वर्तते, तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण सम वर्तमानमवसेयम् / एकविंशतिश्च पञ्चभिभाग हृते लब्धाश्चत्वारोऽहोरात्राः, एकः पञ्चमो भागोऽवतिष्ठते, स मुहूर्ताऽऽनयनाय त्रिंशता गुण्यते. जातास्त्रिंशत् , तस्याः पञ्चभिर्भागे हृते लब्धः षण्मुहूर्ता इति। उक्तंच" अभिई छ / मुहत्ते, चत्तारि य केवले अहोरत्ते। सूरेण समं वच्चइ, इत्तो सेसाण वुच्छामि।। 1 // " तथा तत्र तेषामष्टाविंशतेनक्षत्राणां मध्ये यानि नक्षत्राणि षडहोरात्रानेकविंशतिं च मुहूर्तान् यावत् सूर्येण समं योगमुपयान्ति। तानि षट्। तद्यथा-" सयभिसया" इत्यादि / तथाहि-एतानि नक्षत्राणि प्रत्येकं चन्द्रेण समं सार्धान् त्रयस्त्रिंशत्संख्याकान् सप्तषष्टिभागानहोरात्रस्य व्रजन्ति, अपार्द्धक्षत्रत्वादेतेषाम् , तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण समंव्रजन्तीति प्रत्येतव्यं, प्रागुक्तकरण-प्रामाण्यात्। त्रयस्त्रिंशतश्च पञ्चभिर्भागे हृते लब्धाः षडहोरात्राः, पश्चादवतिष्ठन्ते सास्त्रियः पञ्चभागाः, ते सवर्णनाया जाताः सप्त-तिः, मुहूर्ताऽऽनयनाय त्रिंशता गुण्यन्ते, जाते द्वे शते दशोत्तरे 210 / एते च मुहूर्तार्द्धगते, ततः परिपूर्णमुहूर्ताऽऽनयनाय दशभि-र्भागो हियते, लब्धा एकविंशतिर्मुहूर्ताः / उक्तंच-" सयभिसया भरणीओ, अद्दा अस्सेस साइ जिट्ठा य / वचंति मुहुत्ते इगवीसंछ चेवऽहोरत्ते॥१॥" तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणा मध्ये तानि नक्षत्राणि त्रयोदश अहोरात्रान् द्वादश मुहूर्तान् यावत् सूर्येण समं योग युञ्जन्ति, व्रजन्तीति पाठान्तरे / तानि पञ्चदश। तद्यथा-" सवणो " इत्यादि / तथाहि-अमूनि परिपूर्णान् सप्तषष्टिभागान् चन्द्रेण समं व्रजन्ति, ततः सूर्येण सह एतानि पञ्चभागानप्यहोरात्रस्य सप्तषष्टिसंख्यान् गच्छन्ति। सप्तषष्टश्च पञ्चभिर्भाग हृते लब्धास्त्रयो-दश अहोरात्राः, शेषौ च द्वौ भागौ तिष्ठतः, तौ त्रिंशता गुण्येते, जाता षष्टिः, तस्याः पञ्चभिर्भाग हृते लब्धा द्वादश मुहूर्ताः / उक्तं च-" अवसेसा नक्खत्ता, पनरस वि सूरसहगया जति। वारस चेव मुहुत्ते, तेरस य समे अहोरत्ते " / / 1 / / तथा तत्र तेषामष्टाविंशतेनक्षत्राणां मध्ये यानि नक्षत्राणि विंशतिमहोरात्रान् त्रीन मुहूर्तान् यावत्सूर्येण समं योगमश्नुवते. तानि षट् / तद्यथा-" उत्तरभद्दवया " इत्यादि। एतानि हि षडपि नक्षत्राणि प्रत्येक चन्द्रेण समं सप्तषष्टि-भागाना, शतमेकस्य च सप्तषष्टिभागस्या? यजन्ति / तत एतावतः पञ्च भागान् अहोरात्रस्य सूर्य ण समं व्रजन्तीत्येवमवगन्तव्यम् , शतस्य च पञ्चभिर्भाग हृते लब्धा विंशतिरहोरात्राः / यदपि चैकस्य पञ्चभागस्याड़मुद्वरति, तदपि त्रिंशता गुण्यते, जाता त्रिंशत् , तस्या दशभिर्भाग हृते लब्धास्त्रयो मुहूर्ताः / सू० प्र०१० पाहु०२ पाहु० / ज्यो। (12) नक्षत्राणामादानविसर्गपरिज्ञाननिमित्तनिरूपणम्एएसिं रिक्खाणं, आयाणविसग्गजाणणाकरणं। चंदम्मि य सूरम्मि य, वोच्छामि अहाणुपुव्वीए / / एतेषामनन्तरोदितानां नक्षत्राणामष्टाविंशतिसंख्यानाम, आदानविसर्गज्ञानकरणमादानविसर्गपरिज्ञाननिमित्तम्। तत्र विवक्षिते दिने चन्द्रेण सूर्येण वा सह वर्ततेयन्नक्षत्रं, तस्य किल चन्द्रेण सूर्येण वा कृतः परिग्रह इत्यादानम्। पाश्चात्त्यादिनक्षत्राणि गतानि, तानि किल मुक्तानि, परित्यक्तानि, तेषां परित्यागो विसर्गः / तयोः परिज्ञानकेन नक्षत्रेण सह चन्द्रस्य सूर्यस्य वा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy