________________ ठवणाकुल 1688 - अभिधानराजेन्द्रः भाग - 4 ठवणाकुल ण चेव आणेयव्यं, न विसेसेण सोहणं तस्स आणेयव्व। विइओ पाहुणयसाहू भणइ-परं मे नेहरहिया विधूवलिया सुकुमाला होइ। तइओ भणइमहुरं नवरि मे होउ। चउत्थो भणइअन्नं वा पाणं वा निप्पडिगंधं मे आणेह। एवं ताणं भयंताणं जजोगं तं सुड्ढयकुलेहितो विसेसियं आणिज्जइ।तंठविएसु चेव सड्डयकुलेसुलभइ, ता ठविएसुं पाहुन्नेय कीरमाणे महतो निजरालाभो, साहुक्कारो य पावि-जइ। अतो कायव्वं तं जहाविहिं साहूहिं ति।" आह-यद्येवं तर्हि श्राद्धकुलेषु मा सोऽपि प्रवेशमकार्षीत् , यदा प्राघूर्णकाऽऽदिकार्यं समुत्पन्नं भविष्यति, तदा प्रवेशं करिष्यामः, ततश्च बहुतरमुत्कृष्टं च लप्स्यामहे। सूरिराहएवं च पुणो ठविए, अप्पविसंते इमे भवे दोसा। वीसरण संजयाणं, विसुक्कगोणीइ आरामे / / 756 // एवं च तावद्यमढणायां दोषा अभिहिताः। पुनःशब्दो विशेषणा-र्थः / यदि पुनः स्थापनाकुलानि सर्वथैवस्थाप्यन्ते, ततो (ठविए त्ति) सर्वथैव स्थापितेषु अप्रविशतां साधूनामेते दोषा भवेषुः / तद्यथा-विस्मरण सेवतानां भवति, भिक्षा दातव्येतिनियमाभावात् / अत्र च विशुष्कया गवा, आरामेण च दृष्टास्तः- " जहा एगस्स चोदधिज्जाइयस्स गोणीधेणू। सा य पओसपचूसेसु कुलवं कुलवं दुद्धस्स य पयच्छे / तस्सय दसहिं दिवसेहिं संखडी भविस्सइ।ताहे सो चिंतेइ-एसा यावी ताव बहुयं खीरं देइ, तया य दुल्लहं खीरं भविस्सइ, समयतया अवस्सं कज्जं, तो इयाणि न दुहामि / तया चेव एकसराए दुहिस्सामि, वरं मे दस कुलवा होतया। पत्ते च संखडिदिवसे महतं कुंडय गहाय गोणीदुहणट्टयाए दुक्को जाय विसुक्ला, चुलुओ वि नत्थि दुद्धस्स। एवं संजया वि अणल्लियंतो तेसिं सवाणं पम्हुट्ठा न चेव जाणंतिकिं संजया अस्थि, न वा ? ते वि संजया जम्मि दिवसे कजं ति मिगया जावन संति ताणि दव्वाणि; तम्हा दोण्ह वा तिण्ह वा दिवसाणं अवस्संगंतव्यं।। अहवाआरामदिट्ठतो-जहा एगोआरामिओसो चिंतेइमम आरामे पुष्पाणं आढयं दिणे दिणे उढेइ, इंदमहदिवसे अ बहुजणो पुप्फाणं कायओ भविस्सइ, तो मा दिणे दिणे पुप्फाइं उच्चेमि, तदिवसं वरं बहूणि पुप्फाणि होंताणि त्ति / पत्ते य इंदमहदिवसे सो पत्थिया उ घेत्तुं गओ, ताव सो आरामो उप्फुल्लो, एगमवि पुप्फ नत्थि / एवं ते यदिवसं कज्जमुप्पन्नं तदिवसंपविट्ठा ठवणाकुलेसु। ताहेसड्ढा भणंतितुन्भे इहं चिय अत्थंतान मुणह वेलअम्हं, एएचत्ता वेला अप्पविसंतेसुयन कोइदंडणं पडिवजइ। न वा अणुप्वए गिलाणपाउग्गं वि नत्थि।" यतश्चैवमतः प्रवेष्टव्यं स्थापनाकुलेषु गीतार्थसंघाटकेन। सकीदृग्दोषैर्विरहितः? इत्यत आहअलसं घसिरं सुविरं, खमगं कोहमाणमायलोहिल्लं। कोहलपडिबद्धं, वेयावचं न कारिजा / / 760 // अलसं निरुद्यम, ग्रसितारं बहुभक्षिणं, सुप्तारं स्वप्नशीलम् / " शीलाऽऽद्यर्थस्येरः।। 8 / 2 / 145 // इति प्राकृतलक्षणबलादुभयत्रापि तृन्प्रत्ययस्येरादेशः / क्षपकं प्रतीत (कोहमाणमायालोहिल्लं ति) को धवन्तं, मानवन्तं, मायावन्तं, लोभवन्तम् / सर्वत्रापि मतुपप्रत्ययः। / यथा गोमानिति। (कोऊहल्ल त्ति) मत्वर्थीयप्रत्ययलोपात्कौतूहलिनं, प्रतिबद्धं सूत्रार्थग्रहणसक्तम् / एतान् वैयावृत्यमाचार्यो न कारयेदिति समासार्थः। अथैनामेव गाथां विवरीषुः प्रथमतः प्रायश्चित्तमाहतिसु लहुओ तिसु लहुआ, गुरुओ य लहुस लहुगो य। पेसगकरितगाणं, आणाइ विराहणा चेव // 761 / / अलसाऽऽदीन्य आचार्यः स्ववैयावृत्त्यर्थ प्रेषयति, व्यापारयतीत्यर्थः / यश्चैभिर्दोषैर्दुष्टः स्वयं वैयावृत्त्यं करोति; तयोः प्रेषककुर्वतोः प्रायश्चित्तम्। तद् यथात्रिषु अलसबह्वाशिनिद्रासुषु लघुको मासः, त्रिषु क्षपक कोपनाभिमानिषु चत्वारो लघवः, मायावति गुरुको मासः / लोभवति चत्वरो गुरुकाः / कौतूहलवति चत्वारो लघुकाः, सूत्रार्थप्रतिबद्धे लघुमासः / आज्ञाऽऽदयश्च दोषाः ; विराधना चाऽऽत्मसंयमविषया। तत्रालसस्वप्नशीलयोजनादोषानाहता अत्थइना फिडिओ, सइकालो अलससाविरे दोसा। गुरुमाई तेण विणा, विराहणुस्सकठवणादी॥ 762 / / अलसः स्वप्नशीलश्च तावदुपविष्टः शयानो वा आस्ते, यावत् सन् विद्यमानकालः सत्कालः, भिक्षायाः स्फिटितोऽतिक्रान्तः, तदा च पर्यटन्नसौ यद्वा तद्वा भक्तपानं लभते, न प्रायोग्यं, तेन प्रायोग्येण विना या गुर्वादीनामाचार्यबालवृद्धग्लानाऽऽदीनां विराधना तन्निष्पन्नं प्रायश्चित्तम् / यद्वा-अतिक्रान्तायां वेलायामायान्तं वैयावृत्यकरं मत्वा प्रायोग्यस्थानुष्वष्कणं श्राद्धकानि कुर्युः, उत्सुरे तद्विदध्युरिति भावः। यद्वा-तदुपस्कृतं प्रायोग्यं भक्तं स्थापयेयुः, ततः स्थापनादोषः / आदिशब्दात्साधूनामसंविभक्तं भक्तं कथं मुखे प्रक्षिप्यते ? इति बुद्ध्या तेषामभुज्यमानानामन्तरायाऽऽदयो दोषाः / / अप्पत्ते वि अलंभो, हाणी ओसक्कणा य अइभद्दे। अणहिंडतो अचिरं, न लहइ जं किंचि आणेइ / / 763 // अथ यदेतत् कर्मास्माकं मध्ये समापतितं तन्निहितं भवत्विति कृत्वा अप्रासे काले भिक्षामटति, तदा अलाभोन किमपि प्राप्यते / ततश्चाऽऽचार्याऽऽदीनां हानिरसंस्तरं भवति / यस्तु अतिभद्रकोऽतीव धर्मश्रद्धावान् , गूहयति सोऽवष्वष्कणं, विवक्षितकालादर्वाक् भक्तनिष्पादनं कुर्यात् / यद्वा-असावलसत्वान्निद्रासुत्वादा चिरमहिण्डमानः सन् किमपि लभते ; यत्किञ्चिद्वा पर्युषितं वल्लचणकाऽऽदिकं वा आनयति, तेन भुक्तेनापथ्यतया गुर्वादीनां ग्लानत्वं भवति, ततः परितापमहादुःखाऽऽदिका ग्लानाऽऽरोपणा। अय' घसिर त्ति पदं भावयतिगिण्हामि अप्पणो ता, पज्जतं तो गुरूण चित्थामि / घेत्तुं च तेसि घेत्थं, सीयलओसक्क ओमाई।। 764 / / यो महोदरः से वैयावृत्त्ये नियुक्तो भिक्षामटन चिन्तयति-गृह्णामि तावदात्मनो योग्यं पर्याप्त, ततो गुरूणां हेतोहीष्यामि। यद्वा-तेषां गुरूणां योग्यं गृहीत्वा, तत आत्मनो अर्थाय ग्रहीष्ये, इत्थं विचिन्त्य यदि प्रथम गुरूणां योग्यं गृहीत्वा पश्चादात्मार्थं गृह्णान्ति, ततो यावता कालेनाऽऽत्मना पूर्यते, तत्पर्याप्तं भवति, तावता स्थापनाकुलेसु वेलाऽतिक्रमो भवेत् /