________________ घण्टापथः। (16) संपत्समन्वितो वेदतिव्यः, इतरस्य तदनुरूपानुष्ठानप्रवृत्त्यभावेन तस्य मिथ्यारूपत्वात्। आह च-"नाणी तवम्मि निरओ, चारित्ती भावणाइजोगे' त्ति। सा च रागाऽऽदिदोषनिदानस्वरूपविषयफलगोचरा यथाऽऽगममेवमवसेया'ज कुच्छियाणुओगो, पयइविसुद्धस्स होइ जीवस्स। एएसि भो नियाणं, बुहाण न य सुंदरं एयं // 1 // रुवं पि सकिलेसो-ऽभिस्संगा पीइमाइ लिंगो उ। परमसुहपचणीओ, एअंपि असोहणं चेव।।२।। विसओ यभंगुरो खलु, गुणरहिओ तह तहारुवो। संपत्तिनिप्फलो केवलं तु मूल अनत्थाणं / / 3 / / जम्मजरामरणाई, विचित्तरूवो फलं तु संसारो। बहुजणनिव्वेयकरो, एसो वि तहाविहो चेव // 5 // " इति। अपि च-सूत्रानुसारेण ज्ञानाऽऽदिषु यो नैरन्तर्येणाभ्यासस्तद्रूपाऽपि भावना वेदितव्या, तस्या अपि रागाऽऽदिप्रतिपक्षत्वात्। न हि तत्त्ववृत्त्या सम्यग्ज्ञानाऽऽद्यभ्यासे व्यापृतमनस्कस्य स्वीशरीररामणीयकाऽऽदिविषये चेतः प्रवृत्तिमातनोति, तथाऽनुपलम्भात्। एतेन सिद्ध रागाऽऽदिविरहवत्त्वं तीर्थकृता भगवताम्। अत एव रागद्वेषाऽऽदिशत्रून् जयन्त्यभिभवन्तीति तीर्थकृत् पर्यायस्य जिनशब्दस्य व्युत्पत्तिनिमित्तं, प्रवृत्तिनिमित्तं च भावयन्ति भावुकाः। सिद्धे च तस्मिन् रागाऽऽद्यभावेऽनृतभाषणकारणाभावात् समुपादेयवचनताऽनिर्वचनीयतामावहत्येव जिनवरस्य। उक्तं च-''रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतम्। यस्यतु नैते दोषास्तस्याऽनृतकारणं किं स्यात्? / / 1 / / ' किश-"अणुवकयपरागुग्गहपरायणा ज जिणा जगप्पवरा। जियरागदोसमोहा, य नऽण्णहावाइणो तेणं // 50 // " इति सिद्ध पराभिसंधानविमुखत्वेन जिनवचनस्य विविश्वस्तसूत्रितत्वम् / अस्तुतावत् तीर्थकृतां जितरागद्वेषत्वं तथाऽपि मिथ्यादर्शनसमूहमयत्वाद् जिनवचनस्य कथं प्रामाण्यमङ्गीकरणीयम्? जिनवचनस्य मिथ्यात्विदर्शनसमूहरूपत्वं तु श्रीसिद्धसेनदिवाकरोऽप्यभ्युपगच्छति। तथाहि-"भदं मिच्छादसणसमूहमइयरस अमयसारस्स। जिणवयणस्स भवगओ, सविग्गसुहाहिगम्मस्स // 66 // ' (सम्म०३ काण्ड) ततश्चयन्मिथ्यादर्शनसमूहमयं तत्कथं सम्यग्रपतामासादयति? न हि विषकणिकासमूहमयस्यामृतरूपतापत्तिः प्रसिद्धा / अत्र प्रतिविधीयतेनैतद् युक्तम् / परस्पर-निरपेक्षसंग्रहाऽऽदिनयरूपाऽऽपन्नसा ख्याऽऽदिमिथ्यादर्शनानां परस्परसव्यपेक्षतासमासादितानेकान्तरूपाणां विषकणिकासमूहविशेषमयस्यामृतसंदोहस्येव सम्यक्त्वाऽऽपत्तेः / दृश्यन्ते हि विषाऽऽदयोऽपि भावाः परस्परसंयोगविशेषमवाप्ताः समासादितपरिणत्यन्तरा अगदरूपतामात्मसात्कुर्वाणाः, मध्वाज्यग्रभृतयस्तु विशिष्ट संयोगावाप्तद्रव्यान्तरस्वभावा मृतिप्राप्तिनिमित्तविषरूपतामासादयन्तः / न चाध्यक्षप्रसिद्धार्थस्य पर्यनुयोगविषयता, अन्यथाऽग्न्यादेरपि दाह्मदहनशक्त्यादिपर्यनुयोगाऽऽपत्तेः / अत एव निरपेक्षा नैगमाऽऽदयो दुर्णयाः, सापेक्षास्तु सुनया उच्यन्ते / अभिहितार्थसंवादि चेदं वादिवृषभस्तुतिकृत्सिद्धसेनाऽऽचार्यवचनम्-'नयास्तव स्यात्पदलाच्छना इमे, रसोपविष्टा इव लोहधातवः। भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः।।१।।" इति / अथवा साड् ख्याऽऽदेरेकान्तवादिदर्शनसमूहमयस्य चूर्णनस्वभावस्य, मिथ्यादृष्टिपुरुषसमूहविघटनसमर्थस्य वा / यद्वा-मिथ्यादर्शनसमूहा नैगमाऽऽदयः, एकै क नैगमाऽऽदेनयस्य शतविधत्वात् “एकको वि सयविहो।" | इत्याद्यागमप्रामाण्यात् अवयवा यस्य तन्मिथ्यादर्शनसमूहमयम, जिनवचनस्य नैगमाऽऽदयः सापेक्षाः सप्ताऽवयवाः, तेषामप्येकैकः शतधा व्यवस्थित इत्यभिप्रायः। समूहरूपसप्तनयोदाहरणापेक्षया च सप्तभङ्गीप्रदर्शनमागमज्ञो विदधति,सामान्यविशेषाऽऽत्मकत्वात् वस्तुतत्वस्य,सामान्यस्यैकत्वात, तद्विवक्षायां यदेव घटाऽऽदिद्रव्यं स्यादेकमिति प्रथमभङ्गीविषयः, तदेव देशकालप्रयोजनभेदाद् नानात्वं प्रतिपद्यमान तद्विवक्षया स्यादनेकमिति द्वितीयभङ्गविषयः, तदेवोभयाऽऽत्मकमेकदैकशब्देन यदाऽभिधातुं न शक्यते तदा स्यादवक्तव्यमिति तृतीयभङ्गविषयः, यदेवावकाशदातत्वेनासाधारणेनैकमाकाश. तदेवावगाह्यावगाहकावगाहनक्रियाभेदादनेकं भवति, तद्रूपैर्विना तस्या वस्तुत्वाऽऽपत्तेः, प्रदेशभेदापेक्षयाऽपि च तदनेकम्। अन्यथा हिमवद् विन्ध्ययोरप्येकदेशताप्राप्तेः। तस्य च तथाविवक्षायां स्यादेकं चानेकं चेति चतुर्भङ्गविषयता। यदेकमाकाशं भवतः प्रसिद्धं तदेकस्मिन्नवयवे विवक्षिते एकमबयवस्यावयवान्तराद् भिन्नभिन्नानां वाचकस्य शब्दस्याऽभावादवक्तव्य चेति, तथा विवक्षायां स्यादेकमवक्तव्यं चेति पक्षमभङ्ग विषयः। तद् यदेवैकमाकाशं प्रसिद्धं भवतः, तदवगाह्याऽवगाहनक्रियाभेदादनेकम् एकाऽनेकत्वप्रतिपादकशब्दाभावादवक्तव्यं चेति षष्ठभङ्गविषयः। यदेवैकमाकाशाऽऽत्मकतयाऽऽकाशं भवतः प्रसिद्धं, तदेव तथैकमवगाह्यावगाहनक्रियाऽपेक्षयाऽने कं, युगपत्प्रतिपादनापेक्षयाऽवक्तव्यं चेति स्यादेकमनेकमवक्तव्यं चेति सप्तमभङ्ग विषयः / एवं स्यात् सर्वगतः स्यादसर्वगतो घटाऽऽदिरित्यादिकाऽपि सप्तभङ्गीवलव्या एन मिथ्यादशनसमूहमयत्वेऽपि जिनवचनस्य, विषकणिकासमूहविशेषमयस्यामृतसारवदुपादेयत्वमविरुद्धम् / विशेषविस्तरस्तु 'जिणवयण' शब्द 1503 पृष्ठादारभ्य 1505 पृष्ठपर्यन्तं विपश्चिद्भिरवलोकनीयः। ततः स्थितमेतत्"जिणवयणकप्परुक्खो,अणेगसुत्तत्थसालवित्थिन्नो। तवनियमकुसुमगुच्छो, सुग्गइफलबंधणो जयइ। 1 // सव्वे विय सिद्धता, सदव्वरयणामया सतेल्लोक्का। जिणवयणस्स भगवओ, न तुल्लमिय तं अणग्घेय // 2 // " "जयति जगदेकमङ्गल-मपहतनिःशेषदुरितघनतिमिरम्। रविबिम्बमिव यथास्थित-वस्तुविकाशं जिनेशवयः॥१॥" 'नर-नरग तिरिय सुरगण-संसारियसव्वदुक्खरोगाणं। जिणवयणमेगमोसह--मपवग्गसुहक्खयं फलयं / / 1 / / जिणवयणमोयगस्स य, रत्तिं व दिवा य खजभाणस्स। तित्तिं बुहो न गच्छइ, हेउसहस्सोवगूढस्स॥२॥ जीवाइवत्थुचिंतण-कोसल्लगुणेणऽनन्नसरिसेण। सेसवयणहिँ अजियं, जिणिंदवयणं महातिसयं / 3 // " "जन्मजरामरणभयै-रभिद्रुते व्याधिवेदनाग्रस्ते जिनवरवचनादन्य-त्र नास्ति शरणं क्वचिल्लोके / / 1 / / " तस्मात्। जिनवचनरुचिनाऽविप्रतिपन्नेन भव्येन भाव्यम्। यतः"सवणकरणेसु इच्छा, होइ राई सद्दहाणसंजुत्ता। एईइ विणा कत्तो, सुद्धी सम्मत्तरयणस्स // 1 // " ततः"जिणवयणे अनुरत्ता, जिणवयणं जे करिति भावेण /