________________ जीव 1536 - अभिधानराजेन्द्रः - भाग 4 जीव द्विविधत्रिविधचतुर्धापञ्चविधषड्विधाः। दीर्घता पुनः प्राकृत-प्रभवा। जीवाः प्राणिनः सर्वेऽपि संसारिकसत्त्वाः "यथोद्देशं तथा निर्देशः" इति न्यायात्पुनर्निर्देशमाह-चेतना कासेतरैः, वेदाश्च, गतयश्च, करणानि च, कायाश्च वेदगतिकरणकायास्तैः वेदगतिकरणकायैः करणभूतैरते एकविधाऽऽदयो जीवास्तदादयो भवन्तीति गम्यते / तत्रीकविधाश्चेतनामाश्रित्य यतः सर्वेऽपि संसारिणो, मुक्ताश्चन व्यभिचरन्ति, एकेन्द्रियवनस्पत्यादीनां तथैवोपलब्धेः। तथा हि"कालफलदाणआहा-रगहणदोहलयरोगपडियारे / नाऊण जाण सव्वे, नारि व्व सचेयणा तरुणो।।९।।' फलस्य दानं फलदानं, काले फलदानं कालफलदानम्। आहारस्य ग्रहणमाहारग्रहणम्, कालफलदानं च आहारग्रहणं च दोहदकश्च रोगश्च प्रतीकारश्च कालफलदानाहारग्रहणदोहद करोगप्रतीकारास्तान् कि ? ज्ञात्वा अवबुझ्य, जानीहि सर्वेऽपि नारीवत्सचेतनास्तरवो वृक्षाः। यथाहि नारी कालफलदानाऽऽ हारग्रहणप्रवणा दोहदाऽऽदिधर्मयुक्ता सती सचेतना, एवं वृक्षा अपि तद्धर्मयुक्तत्वेन सचेतना इतिगाथार्थः / / 1 / / द्वीन्द्रियाऽऽदीनां पुनः स्पष्टै व सा, गत्यादिविशिष्ट चेष्टावत्त्वा तेषाम्। द्विविधाः पुनस्वसस्थावरभेदाभ्याम्।ते त्रसा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाः, स्थावराः पृथिव्युदकतेजोवायुवनस्पतिभेदात्पञ्चधा / शैविध्यं स्त्रीपुंनपुंस-कत्वादागतम् / चतुर्द्धा चातुर्विध्यं नारकतिर्यड्नरामरापेक्षया / पञ्चविधाः पुनरिन्द्रियाश्रिताः / षड़ियाधा पृथिव्यप्तेजीवायुवनस्पतित्रसकाय भेदादिति गाथार्थः। एकस्मादारभ्य यावता द्विधास्तावत्प्रति पादितम् / / 2 / / इदानीं तेषामेव नवविधत्वमाह - पुढवी आऊ तेऊ, वाउ वणस्सइ तहेव वेइंदी। तेइंदिय-चउरिदिय-पंचिदियभेयओ नवहा॥३|| सुगमा चेयम्। पुनश्चतुर्दशविधत्वमाहएगिंदिय सुहमियरा, सन्नियर पणिंदिया य सवितिचऊ। पज्जत्तापज्जत्तग-भेएणं चउद्दस ग्गामा।|४|| एकेन्द्रियाः पृथिव्यतेजोवायुवनस्पतयः, तेच सूक्ष्मेतराः। तत्रा सूक्ष्माः सूक्ष्मनामकर्मोद्भवाः सर्वलोकव्यापिनः सर्वथा निरतिशयिनामदृश्याः बादराः पुनर्व्यवहारानुगाः प्रायशस्त्वनाद्य न्तवर्तिनः। तथा संज्ञीतराः पञ्चेन्द्रियाः। तत्रा संज्ञिनो मनोविज्ञानयुक्तया देवनारकगर्भजतिर्यनराः। इतराः पुनरसंज्ञिनोमनोलब्धिविकलाः समूछेजाः पञ्चेन्द्रियाः, इत्येते चत्वारोऽपि सह द्वित्रिचतुर्भिर्वर्त्तन्त इति सद्वित्रिचत्वारः, ततः सप्तापि पर्याप्त कापर्याप्तकभेदाचतुर्दश भेदा जायन्त इति गाथार्थः / / 4 / / पुनात्रिशद्विधत्वमाह - पुढविदगअगणिमारुय-वणसयणंता पणिंदिया चउहा। वणपत्तेया विगला, दुविहा सव्वे वि वत्तीसं / / 5 / / पृथिव्युदकानिमारुतवनस्पत्यनन्ताः / समासः पुनरत्रा सुकर | एव / पञ्चेन्द्रियाश्च चतुर्द्धा चतुर्भेदाः षट्चतुष्कमीलनाश्चतुविशतिर्भवन्ति / तत्रा पृथिवीकायः सूक्ष्मबादरभेदतो द्विधा | पुनरेकैकपर्याप्तकभेदतश्चतुर्द्धा भवति। एवमुदकाऽऽदिष्वप्यायोज्यम् / पञ्चेन्द्रियाः पुनः संजयसंज्ञिभेदतो द्विधा / पुनरकैकाः पर्याप्तकभेदतो भिद्यमानाश्चतुर्दा भवति। वनस्पतिप्रत्येकाः पदावयवे पदसमुदायोपचारात, पूर्वापरनिपाताश्च प्रत्येकवनस्पतयः, विकला विकलेन्द्रियाः तत्र विकलान्यपरिपूर्णानि इन्द्रियाणि येषां ते विकलेन्द्रियाःद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः, किं विधाः? द्विविधाः पर्याप्तका पर्याप्तकभेदाः, तथा चतुर्द्विकमीलनादष्टौ भवन्ति, पुनश्चतुर्विंश तिमीलनाच सर्वेऽपि द्वात्रिशद्विधा भवन्ति, इति गम्यत इति गाथार्थः / / 5 / / दर्श०४ तत्व०। त्रिषष्टयाधिकपञ्चशतभेदा जीवानाम्अम्मापिउणो सरिसा, सव्वे विखमंतु मे जीवा / (10) (अम्मापिउणो सरिस त्ति) मातापितसमानाः यथा माता पित्रारुपरि निष्कृत्रिमस्नेहो भवति, तद्वद् मम सर्वेऽपि जीवाः पृथिव्यप्तेजीवायुसाधारणवनस्पतयः सूक्ष्मबादरपर्याप्तापर्याप्ता भेदेन चतुर्विधाः, सर्वमीलने विशतिधाः, प्रत्येकवनस्पतिद्वित्रिचतुरिन्द्रियाः, पर्याप्तापर्याप्तभेदेनाष्टधाः, तिर्यक्रपञ्चेन्द्रिया जलचरस्थलचरखेचर परिसर्पभुजपरिसः पञ्चापि संज्ञय संज्ञिपर्याप्तापर्याप्ताऽऽदीनां विंशतिसंख्याः, नारकाः पृथिवीभेदेन सप्त, पर्याप्तपर्याप्तभेदेन चतुर्दशधाः। तथा कर्माकर्मभूमिजान्तरद्वीपमनुजाः पञ्चदशत्रिशत्षट्पञ्चाशत्संख्याः, पर्याप्तापर्याप्तभेदतो द्विरुत्तरशतद्वयमानाः / असांज्ञमनुजा एतद्द्वीपान्तादिभवा अपर्याप्ताएकोत्तरशतमानाः। भवनपतयो दशधाः पर्याप्तापर्याप्तरूपतो विंशतिमानाः / व्यन्तराः षोडशधाः पर्याप्तापर्याप्तत्वेन द्वात्रिशद् भेदाः / जुम्भका अपि दश पर्याप्ताऽऽदिना विंशतिधाः / ज्योतिष्काः पञ्च गतिस्थितिभेदतो दशपर्याप्तापर्याप्तवादिना विंशतिधाः। वैमानिका द्वादश, नव पञ्चाऽपि पर्याप्तापर्याप्तयोगतः पञ्चाशन्मानाः। किल्विपिकास्त्रिविधाः पर्याप्ताऽऽदिना षोढाः / लोकान्तिका नव पूर्ववदष्टादशधाः / तदेव सर्वजीवास्त्रिषष्टय धिकपञ्चशतमानाः, क्षमन्तु क्षमा कुर्वन्तु मे मम एते समस्ता अपि जीवा इत्यर्थः / संथा०। नारकाऽऽदिजीवानाश्रित्य स्थित्यादिठितिउस्सासाऽऽहारे, किं वाऽऽहारेइ सव्वओवा वि! कई भागं सव्वाणि च, कीस व भुजो परिणमंति? ||1|| ('आहार' शब्दे द्वितीयभागे 501 पृष्ठे आहारवक्तव्यता) णेरइयाणं भंते ! पुव्वाहारिया पोग्गला परिणया ? 1 आहारिया आहारिजमाणा पोग्गला परिणया?२ अणाहारिया आहा रिजेस्समाणा पोग्गला परिणया ? 3 अणाहारिया अणाहारिजस्समाणा पोग्गला परिणया ?4 गोयमा ! जेरइयाणं पुव्वाहारिया पोग्गला परिणया 1, आहारिया आहारिजस्समाणा पोग्गला परिणया, परिणमंति य 2, अणाहारिया आहारिजस्समाणा पोग्गला णो परिणया, परिणमिस्संति 3, अणाहारिया अणाहरिजस्समाणा पोग्गला णो परिणया, णो परिणमिस्संति 4 णेरइयाणं भंते ! पुवाहारिया पोग्गला चिया, पुच्छा ? जहा परिणया, तेहा चिया वि, एवं चिया, उवचिया, उदीरिया, बेइया, णिज्जिणा / /