________________ जीव 1523 - अभिधानराजेन्द्रः - भाग 4 जीव याः संसारिणः, अनिन्द्रियाः सिद्धाः / (जी० 1 प्रति०) सेन्द्रियाः / संसारिणः, अनिन्द्रिया अपर्याप्तककेवलिसिद्धाः। (स्था०) "सकाइया चेव'' इत्यादि। सकायाः पृथिव्यादिषडविधकायविशिष्टाः संसारिणः, अकायाः तद्विलक्षणाः सिद्धाः / (स्था०) ''सजोगा चेव'' इत्यादि। सयोगाः संसारिणः अयोगा अयोगिनः सिद्धाश्च / (स्था०) "सवेदगा चेव'' इत्यादि। सवेदाः संसारिणः अवेदा अनिवृत्तबादरसंपरायविशेषाऽऽदयः षट् सिद्धाश्च। (स्था०)"सकसाया चेव'' इत्यादि। सकषायाः सूक्ष्मसंपरायान्ताः, अकषाया उपशान्तमोहाऽऽदयः चत्वारः सिद्धाश्च / (स्था०) "सलेसा य" इत्यादि। सलेश्याः सयोग्यन्ताः संसारिणः, अलेश्या अयोगिनः सिद्धाश्च। (स्था०) "णाणी चेव' इत्यादि। ज्ञानिनः सम्यग्दृष्टयः, अज्ञानिनो मिध्यादृष्टयः। (स्था०) "सागारोवउत्ता चेव" इत्यादि। सहाऽऽ-कारेण विशेषांशग्रहणशक्तिलक्षणेन वर्तते य उपयोगः स साकारो, ज्ञानोपयोग इत्यर्थः / तेनोपयुक्ताः साकारोपयुक्ताः / अनाकारस्तु तद्विलक्षणो, दर्शनोपयोग इत्यर्थः / अभिधीयते च -"ज सामन्नग्गहण, भावाणं नेय कटु आगारं। अविसेस ऊण अत्थे, दंसणमिति वुच्चए समए'' ||1|| त्ति / तेनोपयुक्ता अनाकारोपयुक्ता इति / (स्था०) (''आहारगा चेव'' इत्यादि सूत्रास्य व्याख्या 'आहार' शब्दे द्वितीयभागे 510 पृष्ठे गता) दुविहा सव्वजीवा पण्णत्ता। तं जहा-भासगा य, अभा सगा य / (जी०) दुविहा सव्वजीवा पण्णत्ता / तं जहा चरिमा चेव, अचरिमा चेव / (जी०) दुविहा सव्वजीवा पण्णत्ता / तं जहाससरीरी य, असरीरी य। (जी०१ प्रति०) "भासमाय'' इत्यादि। भाषकाः भाषापर्याप्तिपर्याप्तकाः, तन्निषेधादभाषकाः-अयोगिसिद्धाः, एकेन्द्रियाश्च / (स्था०) ("चरिमा चेव' इत्यादिसूास्य विस्तरः 'चरम' शब्दे तृतीयभागे 1138 पृष्ठे उक्तः) "ससरीरी य" इत्यादि / सशरीरिणः संसारिणः, अशरीरिणस्तु शरीरमेषामस्तीति शरीरिणः, तन्निषेधादशरीरिणः सिद्धाः / स्था०२ ठा०४ उ०। संग्रहणीगाथा चेयम् - "सिद्धसइंदियकाए, जोगे वेए कसायलेसाय। णाणुवओगाहारे, भासगचरिये य ससरीरी" ||1|| स्था०२ अ०४ उ०। संप्रति संसारसमापन्नजीवाभिगममभिधित्सुस्तत्प्रश्न सूत्रमाहसंसारसमावण्णएसु णं जीवेसु इमाओ णव पडिवत्तीओ एवमाहिजंति।तं जहा-एगे एवमाहंसु-दुविहा संसारसमावण्णगा जीवा पण्णत्ता। एगे एवमाहंसु-चउविहासंसारसमावण्णगा जीवा पण्णत्ता / एगे एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पण्णत्ता। ते एएणं अभिलिबेणं० जावदसविहा संसारसमावण्णगा जीवा पण्णत्ता। संसारसमापन्नेषु णमिति वाक्यालङ्कारे। जीयेषु, इमा वक्ष्यमाणलक्षणा नव प्रतिपत्तयो, द्विप्रत्यवतारमादौ कृत्वा दशप्रत्यवतारं यावद् येनव प्रत्यवतारास्तद्रूपाणि प्रतिपादनानि, संवित्तय इति यावत् / एवं वक्ष्यमाणया रीत्या आख्यायन्ते पूर्वसुरिभिः / इह प्रतिपत्याख्यानेन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं, प्रतिपत्तिभावेऽपि शब्दादर्थे प्रवृत्तिकरणात् / तेन यदुच्यतेशब्दाद्वैतवादिभिः, शब्दमात्र विश्वमिति / तदपास्तं द्रष्टव्यम्। तदपासने चेयमुपपत्तिः-एकान्तकस्वरूपेवस्तुन्यभिधानद्वया संभवात्, भिन्नप्रवृत्तिनिमित्ताभावात्, ततश्च शब्दमात्र मित्येव स्यात्, न विश्वमिति प्रणालिकयाऽर्थाभिधानमेवोपदर्शयति। तद्यथाएके आचार्या एवमाख्यातवन्तःद्विविधाः संसारसमापन्ना जीवाः प्रज्ञप्ताः / एके एवमाख्यातवन्तः-त्रिविधाः संसारसमापन्ना जीवाः प्रज्ञप्ताः। एवं यावद्दशविधा इति। इह एके इतिन पृथग मतावलम्बिनोदर्शनान्तरीया इव केचिदन्ये आचार्याः, किंतुय एव पूर्व द्विप्रत्यवतारविवक्षायां वर्तमाना एवमुक्तवन्तः / यथा-द्विविधाः संसारसमापन्ना जीवा इति, एवं त्रिप्रत्यवतारविवक्षायां वर्तमानाः। द्विप्रत्यवतारविवक्षामपेक्ष्य त्रिप्रत्यवतारविवक्षाया अन्यत्वात्, विवक्षा विवक्षावतां च कथञ्चिदभेदादन्ये इति वेदितव्याः / अत एव प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणीति प्रतिपत्तव्यम्। इह य एव द्विविधास्त एव त्रिविधास्त एव चतुर्विधा इति, तेषामनेकस्वभावतायां तत्तद्धर्मभेदेन तथातथाऽभिधानता युज्यते, नान्यथाः, एकान्तकस्वभावतायां तेषां वैचित्र्यायोगतस्तथातथाऽभिधान प्रवृत्तेरसंभवात्। एवं सति अष्टविकल्पम् दैवं, तिर्यग्योनिं च पञ्चधा भवति, मानुष्यं चैकविधं समासतो भौतिकः सर्ग इति वाड्मात्रामेव अधिष्टातृजीवानामेकरूपत्वाभ्युपगमनेन तथारूपवैचित्र्यासंभवादिति। एवमन्येऽपि प्रवादास्तथा वस्तुवैचित्र्यप्रतिपादनपरा निरस्ता द्रष्टव्याः, सर्वथैक स्वभावत्वाभ्युपगतौ वैचित्र्यायोगात्। संप्रत्येता एव प्रतिपत्तीः क्रमेण व्याचिख्यासुः प्रथमत आद्यां प्रतिपत्ति विभावयिषुरिदमाह - तत्थ जे ते एवमाहंसु दुविहा संसारसमावण्गा जीवा पण्णत्ता / तं जहा-तसा चेव, थावरा चेव / / (तत्थ जे ते इत्यादि) ता तासु नवसु प्रतिपत्तिषु मध्ये ये तद्विप्रत्यवतारविवक्षायां वर्तमानां एवमाख्यातवन्तःद्विविधाः संसारसमापनका जीवाः प्रज्ञप्ता इति / ते णमिति वाक्यालङ्कार। एवं वक्ष्यमाणरीत्या द्विविधत्वभावनाऽर्थमाख्यातवन्तः। तद्यथे -त्युपन्यस्तद्वैविध्योपदर्शनार्थमाहासाश्चैव, तत्रा सन्ति उष्णाद्यभितप्ताः सन्तो विवक्षितस्थानादुद्विजन्ते गच्छन्ति च छायाऽऽद्यासेवनाऽर्थ स्थानान्तरमिति ासाः / अनया च व्युत्पत्त्या त्रसास्वसनामकर्मोदयवर्तिन एवपरिगृह्यन्ते, नशेषाः। अथच-शैषेरपीह प्रयोजनं, तेषामप्यग्रे वक्ष्यमाणत्वात् / तत एवं व्युत्पत्तिः-त्रसन्ति अभिसिन्धुपूर्वकमनभि सन्धिपूर्वकं वा ऊर्ध्वमधस्तिर्यक्षु चलन्तीति साः। तैजसा वायवो द्वीन्द्रियादयश्च / उष्णाऽऽद्यभितापेऽपि तत्स्थानपरिहारा समर्थाः सन्तस्तिष्ठन्तीति एवंशीलाः स्थावराः पृथिव्यादयः। च शब्दौ स्वगतानेकभेदसमुचयार्थी / एवकारववधारणार्थो / एते एव संसारसमापनका जीवाः, एतद्व्यतिरेकेण संसारिणामभावात्। जी० 1 प्रति०। स्था०।। जीवानां नौविध्यम् - तिविहा सव्वजीवा पण्णत्ता। तं जहा-तसा य, थावरा य,