________________ जीव 1521 - अभिधानराजेन्द्रः - भाग 4 जीव सिद्धो महाभाष्ये विशेषाऽऽवश्यके, तत्त्वार्थभाष्ये च धात्वर्थवा-धतो 'जीव' प्राणधारणे इति धात्वर्थानन्वयाद् जीवो न प्रोक्तः / तथा च विशेषाऽऽवश्यकवचनम् - "एवं जीव जीवो, संसारी पाणधारणाणुभवो। सिद्धो पुणरजीवो, जीवणपरिणामरहिओ त्ति // 2256 / / " // 40 // एतदेवतत्त्वार्थभाष्यवचनमनूद्य व्यवस्थापयतिजीवोऽजीवश्च नो जीवो, नो अजीव इतीहिते। जीवः पञ्चस्वपि गति-ष्विष्टो भावैर्हि पञ्चभिः।।४१।। (जीव इत्यादि) जीवोऽजीवो नो जीवो नो अजीवश्चेति चतुर्भिः पदैः कोऽर्थः प्रतिपाद्यः? इतीहिते प्रश्नयोग्यविचारविषयीकृते. सिद्धान्तिना गतिमार्गणयां पञ्चस्वपि गतिषु नारकतिर्यड्नरामरसिद्धगतिलक्षणासु, हि निश्चितं, पञ्चभिविरौदयिकलयिकक्षायोपशमिकौपशमिकपारिणामिकलक्षणैः, जीव इष्टः व्युत्पत्तिनिमित्तजीवनलक्षणोदयिकभावोपलक्षिताऽऽत्मत्वरूपपारिणामिकभावविशिष्टस्य जीवस्य भावपञ्चकाऽऽत्मनो जीवपदार्थत्वात् / न चाऽऽत्मत्वप्रवृत्तिनिमित्तोपादाननैवानतिप्रसङ्गे किं व्युत्पत्तिनिमित्तोपलक्षणग्रहणेनेति वाच्यम्, संभवति तदुपलक्षकभावे तत्यागस्यान्याय्यत्वात्। अन्यथा मण्डपाश्वकर्णाऽऽदिपदतुल्यताप्रसङ्गादिति दिक् / / 41|| नजि सर्वनिषेधार्थ , पर्युदासे च संश्रिते। पुद्रलप्रभृति द्रव्यमजीव इति संज्ञितम्॥४२॥ नोति सर्वनिषेधार्थे जीवत्वावच्छिन्नान्योन्याभाववदर्थे नजिविवक्षितं, पर्युदासे सादृश्ये च तत्र संश्रिते तात्पर्यविषयीकृते , पुद्रलप्रभृति पुद्गलाऽऽदिकं द्रव्यम् अजीव इतिपदेन संज्ञितम् पर्युदासानाश्रयणे तु जीवस्य गुणपर्याययोरपि भेदतया श्रवणेनाजावपदप्रयोगप्रसङ्ग इति भावः // 42 / / नो जीव इति नोशब्दे-ऽजीवः सर्वनिषेधके / देशप्रदेशौ जीवस्य, तस्मिन देशनिषेधके / / 43|| (नो इति) नो जीव इति शब्दवाच्ये नोशब्दे सर्वनिषेधके विवक्षितेऽजीव एव; देशनिषेधके तु नोशब्दे आश्रीयमाणे देशनिषेधस्य देशाभ्यनुज्ञानान्तरीयकत्वाज्जीवस्य देशप्रदेशावेव नोजीवशब्दव्यपदेश्यावभ्युपगन्तव्यौ // 43 // जीवो वाऽजीवदेशोवा, प्रदेशो वाऽप्यजीवगः। अनयैव दिशा ज्ञेयो, नोअजीवपदादपि॥४४|| (जीवो वेति) अनयैवोक्तयैष दिशा, नोअजीवपदादपि, नो-शब्दस्य सर्वनिषेधकत्वे जीवो जीवपदार्थो वा बोध्यः, तस्य देशनिषेधकत्ये वाऽजीवदेशो वाऽजीवगः अजीवाऽऽश्रितः प्रदेशो वा 'अमानोनाः प्रतिषेधे 'इत्यनुशासन तौल्येऽपि संसर्गा भावोऽन्योन्याभावश्च नोऽर्थः, नोशब्दस्य त्वभाव एक देशो वा; तत्रा चान्वयिताऽवच्छेदकावच्छिन्नप्रतियोगिताकत्वतदेकदेशत्वाऽऽदिव्युत्पत्तिबललभ्य मिति / सिद्धान्तपरिभाषित निगर्वः // 44 / / उक्त मतं कियतां नयानाम्? इत्याहनैगमो देशसंग्राही, व्यवहारर्जुसूत्राको। शब्दः समभिरूढये-त्येवमेते प्रचक्षते / / 45 / / (नैगम इति) नैगमो नैगमनयः देशसंग्राही अवान्तसंग्राही, सर्वसंग्रहस्य सन्मात्रार्थत्वात्तत्यागः। व्यवहारर्जुसूत्रको व्यवहारनय ऋजुसूत्रनयश्च शब्दः, समभिरूढश्चेत्यते नया एवं प्रचक्षते॥४५|| भावमौदयिकं गृह-नेवंभूतो भवस्थितम्। जीवं प्रवक्तत्यजावं तु, सिद्धं वा पुद्गलाऽऽदिकम्॥४६|| (भावमिति) एवंभूतनयस्यु औदयिकं भावं व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्ततया गृह न भवस्थितं संसारिणं जीवं प्रवक्तिजीवशब्देन व्यपदिशति, अजीवम् अजीवपदार्थ तु सिद्धं वा, पुद्गलाऽऽदि द्रव्यं वेच्छत्यसौ॥४६॥ नो अजीवश्च नो जीवो,न जीवाजीवयोः पृथक् / देशप्रदेशौ नास्येष्टा-विति विस्तृतकरे॥४७|| (नो इति) नो जीवो ने अजीवश्चैतन्नवे जीवाजीवयोर्वक्तव्ययोः सतोः पृथग्न पार्थक्यं गापद्यते, यतोऽस्य नयस्य देशप्रदेशां नेष्टाविति, नोशब्दः सर्वनिषेधार्थ एव घटते इत्येतदाकरेऽनुयोगद्वाराऽऽदौ विस्तृतम्॥४७॥ इत्थं स्वसमयसिद्धामेवंभूतनयार्थप्रक्रियामु पपाद्य, तया दिगम्बरोक्तप्रक्रियां दूषयतिसिद्धो निश्चयतो जीवः, इत्युक्तं यदिगम्बरैः। निराकृतं तदेतेन, यन्नयेऽन्त्येऽन्यथा प्रथा // 48|| (सिद्ध इति) एतेन पूर्वोक्तन सिद्धो निश्चयतो जीव इति यदिगम्बरैरुक्तम् - ''तिकाले च दुपाणा, इंदियबलमाउ आणपाणो य। ववहारा सो जीवो, णिच्छयदो दुचेदणा जस्स / / 1 / / " इत्यादिन, तन्निराकृतम् / यद् यस्मादन्त्ये एवंभूतनये अन्यथा प्रथा असिद्धो जीवः' इत्येव प्रसिद्धिः, शुद्धनिश्चयश्च स एवेति कथं निश्चयतः सिद्धो जीव इति वक्तुं शक्यमिति॥४८|| नन्वेवंभूतः पर्यायार्थिकष्वेव शुद्धनिश्चयः, तेनास्मादुक्ता नुपपत्तावपि द्रव्यार्थिकप्रभेदेन सर्वसंग्रहनयेन शुद्धनिश्चयेन तदुपपादयिष्याम इत्याकाङ्क्षायामाह - आत्मत्वमेव जीवत्व-मित्ययं सर्वसंग्रहः। जीवत्वप्रतिभूः सिद्ध-साधारण्यं निरस्य न ||46|| (आत्मत्वमिति) आत्मत्वमेव जीवत्वंजीवपदप्रवृत्तिनिमित्तं,पारिणामिकभावस्य कालत्रयानुगतत्वेनसत्यत्वात्, औदयिकभावस्य चौपाधिकत्वेन कालत्रयानुगतत्वेन च तुच्छत्वादिलयं सर्वसंग्रहनयस्तुसिद्धसाधारण्यं भवस्थतौल्यं निरस्य, जीवत्वसाधने न प्रतिभूः, सर्वत्रा तुल्यजीवत्वादेवैको व्यवहारतो जीवोऽन्यश्च निश्चयत इति विभागकरणम-समीक्षिताभिधानमेवापद्येत। सर्वसंग्रह एव हि कर्मोपाधिनिरपेक्षशुद्धद्रव्यार्थिकः, तेन च संसारिचैतन्यमपि निरुपरागं शुद्धमिति परिणष्यत एव / तदुक्तं द्रव्यसंग्रहे - "मग्गणगुणठाणेहि अ. चउदस य हवंति तह असुद्धणया। विष्णेया संसारी, सव्वे सुद्धा उसुद्धणया"||१|| इति। नच संसारिचैतन्यस्य संग्रहनयेन शक्तया शुद्धचैतन्यं, निश्चयेऽपि व्यक्तया शुद्धचैतन्यस्य सिद्ध एव निश्चयान्न साधारणमिति शङ्कनीयम्, संग्रहस्य शक्तिग्राहकत्वेन व्यक्तिग्राहकतया व्यवहार एव विश्रान्ते, निश्चयतो द्विचेतनाशाली सिद्ध एव जीव इत्यस्य व्याघातात् / / 46 / /