SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ जीयववहार 1516 - अभिधानराजेन्द्रः - भाग 4 जीयववहार तत्रा द्रव्याऽऽद्यभिधित्सयाऽऽहआहाराऽऽई दव्वं, वलियं सुलहं च नाउमहियं पि। दिजाहि दुब्बलं दु-ल्लहं च नाऊण हीणं पि।१६५|| आहाराऽऽदिक द्रव्यं यत्रा देशे वलिकं, सुलभं च, यथा-अनूपदेशे शालिकूरोवलिक, स्वभावेनैव सुलभश्च; तं ज्ञात्वाऽधिकमपि जीतोक्ताद् बहुतरमपि दद्यात् / यत्र पुनर्वल्लचणककञ्जिकाऽऽदिको रूक्षाऽऽहारो। दुर्बलो, दुर्लभश्च; तं ज्ञात्वा हीनंजीतोक्तादल्पमपि दद्यादित्यर्थः॥६५।। अथ क्षेत्रकालाभिधानार्थमाह - लुक्खं सीयल साहा-रणं च खित्तमहियं पि सीयम्मि। लुक्खम्मि य हीणतरं, एवं काले वितिविहम्मि॥६६|| रूक्ष क्षेत्रां-स्नेहरहितं, वातुलं वा; शीतलं पुनः स्निग्धम, अनूप वा; साधारणं-मध्यस्थम्, अस्निग्धरुक्षम् / इह शीते स्निग्धक्षेत्रो जीतोक्तादधिकमपि दद्यात्; रूक्षे च हीनतरं जीतोक्तादल्पतरम् / अत्र चकारोऽनुक्तसमुच्चये / तेन साधारणक्षेत्र साधारणं जीतोक्तमात्रामेव, अहीनाधिकं दद्यादिति ज्ञेयम् / कालेऽपि त्रिविधेवर्षाशिशिरग्रीष्मरूपे, एववमुनैवोक्तप्रकारेण, जीतोक्ताधिकसमहीनानि तपांसि यथासंख्य दद्यामिति सामान्यातिदेशः // 66|| विशेषतः कालं प्रपञ्चयन्नाहगिम्हसिसिरवासासुं, दिजऽट्ठमदसमवारसंताई। नाउं विहिणा णवविह-सुयववहारोवएसेणं // 67 / / अत्र कालस्त्रिधा-ग्रीष्मशिशिरवर्षालक्षणः। स च सामान्यतो द्विधास्निग्धो, रूक्षश्च / स च द्विरूपोऽयुत्कृष्टमध्यमजघन्यभेदात् त्रिधा / तत्रोत्कृष्टस्निग्धोऽतिशीतः, मध्यमस्निग्धो नातिशीतः,जधन्यस्निग्धः स्तोकशीतः / उत्कृष्टरूक्षोऽत्युष्णः, मध्यमरूक्षो नात्युष्णः जघन्यरूक्षः कवोष्णः / एवंरूपे ग्रीष्मशिशिरवर्षाऽऽख्ये कालत्रये नवविधश्रुतव्यवहारोपदेशेन नवविधोनवविधतपोदानलक्षणः, सचासौ श्रुतव्यवहारोपदेशश्च, तेन नवविधश्रुतव्यवहारोपदेशेन, विधिना वैपरीत्याभावेन, ज्ञात्वाऽष्टमदशमद्वादशान्तानि तपांसि दद्यात्। अयं भावार्थः-ग्रीष्मशिशिरवर्षासु यथाक्रमं चतुर्थषष्ठाष्टमानि जघन्यानि, षष्टाष्टमदशमानि मध्यमानि, अष्टमदशमद्वादशान्युत्कृष्टानि। उक्तंच"गिम्हासु चउत्थं दिज्जा, छडगं च हिमाऽऽगमे। वासासु अट्ठमं दिज्जा, तवो एस जहण्णगो।।१।। गिम्हासु छट्टगं दिजा, अट्टमं च हिमाऽऽगमे। वासासु दसमं दिज्जा, एस मज्झिमगो तवो।।२।। गिम्हासु अट्ठमं दिल्ला, दसमं च हिमाऽऽगमे। वासासुदुवालसम, एस उक्कोसओ तवो // 3 // " एष नवविधतपोदानलक्षणः श्रुतव्यवहारोपदेशः। अथवा - नवविधश्रुतव्यवहारोपदेशो द्विधा-ओघतो, विभागतश्च। तौघतौ गुरुः 1, गुरुतरो 2, गुरुतमश्च 3 / लघुः 1. लघुतरो 2, लघुतमश्च ३।लघुको 1, लघुकतरो २,लघुकतमश्चेति 3 / एवं नवविध H / उक्त च"गुरुओ गुरुअतराओ, अहागुरू चेव होइ ववहारो। लहुओ लहुअतराओ, हालडू चेव ववहारो / / 1 / / लहुसो लहुसतराओ, अहलहुसो चेव होइ ववहारो।" अहागुरु अहालहु - अहालहुसशब्दैगुरु तमलघुतम लघुकतमा उच्यन्ते / एष चनवविधोऽधि आपत्तिदानतपोभ्यां, कालेन च योजनीय। तोदमापत्तितप :गुरुमासो 1, गुरुलघुचतुर्मासो 2, गुरुलधुषण्मासश्च 3 / लधुमासो 1, भिन्नमासो 2, विंशतिकं च 3 / पञ्चदशकं 1, दशकं 2, पञ्चकं चेति 3 / उक्तंच- "गुरुगोय होइमासो, गुरुयतरो चेव होइचउमासो। अहगुरुओ छम्मासो, गुरुपक्खे होइ पडिवत्ती // 1 // अत्रा सामान्येनाभिधानात् चतुर्मासकशब्देन गुरुचतुर्मास लघुचतुर्मासाऽऽख्योभयमपि ग्राह्यम्, षण्मासशब्देन च गुरुषण्मासलघुषण्मासाऽऽख्यद्वयमपि ग्राह्यम्। "तीसा य पण्णवीसा, वीसा वि य होइलहुयपक्खम्मि // ' अत्रा 'तीसा' चैतत् स्थूलतयैवोक्तम्, अन्यथा लघुमासे सार्धसप्तविंशतिरेव दिनानि भवन्ति / "पनरस दस पंचेव य, लहुसयपक्खम्मि पडिवत्ती' ||1|| प्रतिपत्तिरापत्तिरित्यर्थः। अथेदानीमेषु गुरुकादिषु दानतपःअष्टमम् 1, दशमम् 2, द्वादशं च 3 / षष्ठम् 1, चतुर्थम् 2, आचाम्लं च 3 / एकाशनम् 1, पुरिमार्द्धम् 2, निर्विकृतिकं च 3 इति वर्षाशिशिरग्रीष्मेषु दीयते। उक्तंच"गुरुगं च अट्टमं खलु, गुरुयतरायं च होइ दसमं तु। अहगुरुयं वारसम, गुरुपक्खे होइ दाणं तु / / 1 / / छट्टं चउत्थयंबिल, लहुपक्खे होइ तवदाणं / एगासण पुरिमड्ढे, निव्वीय लहुस सुद्धो वा // 2 // " (सुद्धो व त्ति) यस्तुनिर्विकृतिकमात्रामपितपः कर्तुमशक्तः स मिथ्यादुष्कृतेनैव शुद्ध्यतीत्यर्थः। एवमोघेनोक्तो नवविधः श्रुतव्यवहारोपदेशः। साम्प्रतं विभागतः कथ्यते"ओहेण एस भणिओ, इत्तो वुच्छं विभागेणं। तिगनवसत्तावीसा-एक्कासीईहिँ भेएहिं / / 1 / / " अौष नवविधव्यवहार स्त्रिभिर्नवभिः सप्तविंशतिभिरेकाशीतिमिश्च भेदैर्भवति। तत्र संक्षेपतस्तावदयं त्रिभेदःउत्कृष्टो, मध्यमो, जघन्यश्च / तत्रा गुरु-गुरुतर-गुरुतमाऽऽख्यो गुरुपक्ष उत्कृष्टः। लघु-लघुतरलघुतमाऽऽख्यो लघुपक्षो माध्यमः। लघुक-लघुकतर-लघुकतमाऽऽख्यो लघुकपक्षो जघन्य इति। यदाह'नवविह बवहारेसो, संखेवेणं तिहा मुणेयव्यो। उक्नोसो मज्झिमगो, जहण्णगो चेवं तिविहेसो।।१।। उधोसो गुरुपक्खो, लहुपक्खो मज्झिमो मुणेयव्यो। लहुसपक्खो जहन्नो, तिविगप्पो एस नायव्वो' ||2|| नवभेदस्त्वेवम् - गुरुपक्ष एकोऽप्युत्कृष्टमध्यमजघन्य भेदात् त्रिधा। एवं लघुपक्षोऽपि त्रिधा। लघुकपक्षोऽवि चैवं निधेति / तत्रा गुरुपक्षे विध्यमिदम् - गुरुपक्षः षाण्मासिक-पाञ्चमासिकाऽऽख्य उत्कृष्टः, चातुर्मासिक-ौमासिकाऽऽख्यो मध्यमः, द्वैमासिकगुरुमासिकाऽऽख्यो जघन्यः / लघुपक्षे लघुमास उत्कृष्टः, भिन्नमासो मध्यमः, विंशतिकं जघन्यम् / लघुकपक्षे पञ्चदशकमुत्कृष्टम, दशकं मध्यमम्, पञ्चम जघन्यमित्येष नवविधाऽऽपचितः स्वरूपश्रुतव्यवहारो दर्शितः।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy