________________ जिणकप्प 1486 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प उपशमश्रेण्यामेव वेद उपशमिते सति अवेदो भवति, न तु क्षपिते। कुतः ? इत्याह-- तज्जन्मन्यस्य केवलप्रतिषेधभावादिति गाथार्थः। कल्प-द्वारमधिकृत्याऽहठिअमट्टिए अ कप्पे, आचेलकाइएसु ठाणेसु / सव्वेसु ठिआ पढमो, चउ-ठिय छसु अ ट्ठिया विइओ।। 466|| स्थिते, अस्थिते च कल्प एष भवति, न कश्चिद्विरोधः / अनयोः स्वरूपमाह-आचेलक्यादिषु स्थानेषु वक्ष्यमाणलक्षणेषु सर्वेषु दशस्वपि स्थिताः, इति प्रथमः स्थितकल्पः / चतुर्षु स्थिता इति-शय्यातरराजपिण्डकृतिकर्मज्येष्ठपदेषु स्थिताः, मध्यम-तीर्थकरसाधवोऽपि षट्सु | स्थिता आचेलक्यादिष्वनयिमवन्तः, इति द्वितीयः स्थितकल्पः, इति गाथार्थः। स्थानान्याहआचेलकुद्देसिय-सिज्जायररायपिंडकम्मे वा। वयजिट्ठपडिक्कमणे, मासं पजोसणाकप्पे // 500 / / आचेलक्यौद्देशिकशय्यातरराजपिण्डकृतिकर्माणि पञ्च स्थानानि, तथा व्रतज्येष्ठप्रतिक्रमणादीनि, त्रीणि, मासपर्युषणाकल्पौ द्वे स्थाने; इति गाथार्थः। लिङ्ग-द्वारमधिकृत्याऽऽहंलिंगम्मि होइ भयणा, पडिवज्जइभ उभयलिंगसंपन्नो। उवरित्त भावलिंगं, पुव्वपवणस्स णिअमेणं / / 501 // लिङ्गे इति भवति भजना, वक्ष्यमाणस्य प्रतिपद्यते कल्पम्, उभयलिङ्गसंपन्नो, द्रव्यभावलिङ्गयुक्त इत्यर्थः / उपरि तु उपरिष्ठात्, भावलिङ्ग चारित्रपरिणामरूपं पूर्वप्रतिपन्नस्य कल्पं नियमेन भवतीति गाथार्थः। इयरं तु जिण्णभावाइ-एहि सअअंन होइ वि कयाइ। एय तेण विणाऽवि तहा, जायइ से भावपरिहाणी।। 502 / / इतरत् तु द्रव्यलिङ्ग, जीर्णभावादिभिर्जीर्णहृतादिभिः कारणैः सततं न भवत्यपि, कदाचित्संभवत्यपि कदाचिन्न संभवत्येतत् / न च तेन विनाऽपि, तथा तेन प्रकारेण, जायते (से) तस्य भावपरिहाणिरप्रमादाभ्यासादिति गाथार्थः। लेश्या-द्वारमधिकृत्याऽऽहलेसासु विसुद्धासुं, पडिवजइ तीसुन पुण सेसासु। पुव्वपडिवन्नओ पुण, होज्जा सव्वासु वि कहंचि / / 503 / / लेश्यासु विशुद्धासु तैजस्यादिषु प्रतिपद्यते तिसृषु कल्पम्, न पुनः शेषास्वाद्यासु / पूर्वप्रतिपन्नः पुनः कल्पस्थो भवेत् सर्वास्वपि शुद्धासु, कथञ्चित् कर्मवैचित्र्यादिति गाथार्थः। एऽचंतसंकिलिट्ठा-सु थोवकालं च हंदि इअरासु। चिंत्ता कम्माण गई, तहा वि विरियं फलं देइ / / 504 / / नात्यन्तसंक्लिष्टासु वर्तते भगवान्, स्तोककालं च हन्दीतरासु अशुद्धासु, चित्रा कर्मणां गति; येन तास्वपि वर्तते. तथापि वीर्य फलं ददाति, येन तद्भावेऽपि भूयश्चारित्रशुद्धिरिति गाथार्थः / ध्यान-द्वारमधिकृत्याऽऽह झाणम्मि वि धम्मेणं, पडिवज्जइ सो पवड्डमाणेणं / इअरेसु वि झाणेसुं, पुव्वपवण्णे ण पडिसिद्धो / 505 / / ध्यानेऽपि प्रस्तुते, धर्मेण ध्यानेन, प्रतिपद्यतेऽसौ कल्पं, प्रवर्द्धमानेन सता। इतरेष्वपि ध्यानेश्वार्तादिषु, पूर्वप्रतिपन्नोऽयं न प्रतिषिद्धो भवतीत्यपीति गाथार्थः। एवं च कुसलजोगे, उद्दामे तिव्वकम्मपरिणामा।। रोघऽट्टेसु वि भावो, इमस्स पायं निरणुबंधो / / 506 / / एवं कुशलयो गे जिनकल्पप्रतिपत्त्योदामे सति, तीव्र कर्म - परिणामामौदयिकाद् रौद्रार्तयोरपि भावोऽ ज्ञेयः, सच प्रायोनिरनुबन्धः, स्वल्पत्वादिति गाथार्थः / गणना-द्वारमधिकृत्याऽऽह-- गणण त्ति सयपुहत्तं, एएसिं एगदेव उक्कोसा। होइ पडिवज्जमाणे, पडुच्च इअरा उ एगाई // 507 // गणनेति शतपृथक्त्वमेतेषां जिनकल्पिकानामेकदैवोत्कृष्टा भवति प्रतिपद्यमानकान् प्रतीत्य, इतरा तु जघन्या गणनैकाद्येति गाथार्थः / पुव्वपडिवण्णगाण उ, एसा उक्कोसिआ उचिअ खित्ते। होइ सहस्सपुहत्तं, इयरा एवं विहा चेव / / 508 / / पूर्वपतिपन्नानां त्वमीषामेषा गणना उत्कृष्टोचिता क्षेत्रे यत्त्वेषां भावो भवति यदुत सहस्रपृथक्त्वमिति, इतराऽपि जघन्यैवंविधैव सहस्रपृथक त्वमेव लघुतरमिति गाथार्थः। अभिग्रह-द्वारमधिकृत्याऽऽहदव्वाईआऽभिग्गह, विचित्तरूवाण होंति इत्तरिआ। एअस्स आवकहिओ, कप्पो चिभऽभिग्गहो जेण / / 506 / / द्रव्याद्या अभिग्रहाः सामान्या विचित्ररूपा न भवन्तीत्वराः / कृतः ? इत्याह अस्य यावत्कथिकः कल्प एव प्रकान्तोऽभग्रहो येनेति गाथार्थः / एयम्मि गोअराई, णिअया णिअमेण णिरववाया य। तप्पालणं चिअ परं, एअस्स विसुद्धिठाणं तु / / 510 / / एतस्मिन् गोचरादयः सर्व एव नियता नियमेन, निरपवादाश्च वर्तन्ते / यत एवमतस्तत्पालनमेव परं प्रधानमेतस्य विशुद्धिस्थानम्, किं शेषाऽभिग्रहैरिति गाथार्थः / व्याख्याता प्रथमा द्वारगाथा। अधुना द्वितीया व्याख्यायते, तत्र प्रव्राजनाद्वारमधिकृत्याऽऽहपव्वावेइ ण एसो, अण्णं कप्पट्ठिउत्ति काऊणं / आणाउ तह पयट्टो, चरमाणसणि व्व णिरविक्खो / / 511 / / प्रव्राजयति नैषोऽन्यं प्राणिनं कल्पस्थित इति कृत्वा, जीतमेतत्, आज्ञातस्तथा प्रवृत्तोऽयं महात्मा चरमानशनिवन्निरपेक्षो यावत्कारणेनेति गाथार्थः। उवएस पुण विअरइ, धुवं पवित्तं विआणिउं किंचि / तं पि जहासण्णेणं, गुणओ ण दिसादविक्खाए / 512 / / उपदेशं पुनर्वितरति ददाति ध्रुवं प्रव्रजनशीलं विज्ञाय किञ्चि-त्सत्त्वम्। तमपि यथासन्नेन वितरति गुणान्, न दिगाद्यपेक्षया कारणेनेति गाथार्थः / मुण्डन-द्वारमधिकृत्याऽऽहमुंडावणा वि एवं, विण्णेआ एत्थ चोअगो आह / of-