________________ जिणकप्प 1474 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प आतङ्कद्वारमतिदिशति-रोगाश्च कालसडाः। आतङ्काश्च सद्यो घातिनः। एवमेव भाच्या उत्पद्यन्ते, वा न वा / यदि भवन्त्युपद्यन्ते, ततो नियमाद्विषहन्ते। वेदनाद्वारमाहअब्भुवगमाओवक-मा य तेसि वेयणा भवे दुविहा। धुक्लोआइपढमा ज - राविवागाइ विई एक्को / आभ्युपगमिकी, औपकमिकी चा तेषां जिनकल्पिकानां द्विविधा वेदना भवति। तत्रा प्रथमा–धुवलोचाद्या धुवः प्रतिदिन भावीलोचः, आदिशब्दादातापनातः प्रभृतिपरिग्रहः। द्वितीयाचौपक्रमिकी जराविपाकादिः, जरा प्रतीता। विपाकः कर्मणामुदयस्तत्समुत्था। अथ "कियन्तोजना" इति द्वारम्-(एको त्ति) एक एवायं भगवान् भवति। यदिवेद द्वारमुपरिष्ठात् व्याख्यास्यते। अथ स्थण्डिलद्वारमाहउच्चारे पासवणे, उस्सग्गं थंडिले कुणइ पढमे। तत्थेव य परिजुण्णे, कयकिच्चो उज्झए वत्थे / / उचारस्य प्रश्रवणस्य चोत्सर्ग परित्याग प्रथमे अनापाते असलोके / स्थण्डिले करोतिातीव प्रथमस्थण्डिले कृतकार्यों विहितशीतत्राणा- 1 दिवस्त्रकार्यः, उज्झति वस्वाणि। अयं च संज्ञां व्युत्सृज्य न निर्लेपयति। कुत इति चेत्? उच्यतेअप्पमभिन्नं कच्चं, अप्पं लूहं च ओअणं भणियं / दीहे विउ उवसग्गे, उभयमवि अ थंडिले न करे / / अल्पमभिन्नं च वर्चः पुरीषमस्य भवति। कुत इत्याह-यतोऽल्पं रूक्ष च भोजनमस्य भणितं भगवद्भिः। अल्पाभिन्न वर्चस्कतया तथाकल्पत्वाचासौ न निर्लेपयति। न चासौ दीर्धेऽपि बहुदैवसिके उपसर्गे उभयेऽपि संज्ञा कायिकीं वा स्थण्डिले आपातादिदोषयुक्ते भागे करोति। वसतिद्वारमाह - अममत्ता-ऽपरिकम्मा, नियमा जिणकप्पियाण वसहीओ। एमेव य थेराणं, मुत्तूण पमज्जणं एकं / / अममत्वाममेयमित्यभिष्वङ्करहिताः। अपरिकर्मा साधर्षमुपलेपनादिपरिकर्मवर्जिता, नियमात जिनकल्पिकानां वसतिः। स्थविरकल्पिकानामप्येवं वसतिरममत्वा, अपरिकर्मा च, द्रष्टव्या। मुक्तवा प्रमार्जनामेकामन्यत्परिकर्मे तिन कुर्वन्ति, इत्यर्थः। एतदेव स्पष्टयतिविले न ढवंति न खज्जमाणिं, गोणो य वारिंति न भज्जमाणिं दारे न ढकिंति, न वल्लगिंति, दप्पेण थेरा भइया उ कजे।। एते भगवन्तो बिलानि धूल्यादिना न स्थगयन्ति। न वा गवादिभिः खाद्यमाना भज्यमानां वा यसतिं निवारयन्तिा द्वारे न ढकिंति कन्नायाभ्यां न संयोजयन्ति। स्थविरकल्पिका अपि दर्पण कार्याभावे एवमेव वसतेः परिकर्म न कुर्वन्तिा कायें तु पुष्टावलम्बन भाज्याः परिकम कुर्वन्त्यपि, इतिभावः। कियचिरो-चार-प्रश्रवणा-वकाश-तृणफलक-संरक्षण संस्थापनाद्वाराणि गाथाद्वयेन भावयतिकिंचिरकालं वसिहि, इत्थ य उच्चारमाइए कुणसु। इह अत्थसु मा इह य, इह तणफलए गिण्हह मा य / / यस्यां वसतौ याच्यमानायां तदीयस्वामिन इन्थ भणन्ति, कियत् चिरंकालं वत्स्यथ यूय। यद्धा अा प्रदेशे उच्चारादीनि पुरीषप्रश्रवणादीनि कुरू। अत्र तु मा कुरू। इहास्मिन्नवकाशे आसीथ, इह मेति। एतानि का हस्तसंज्ञया निर्दिश्यमाननि तृणफलकानि गृहीयाः, मा एतानीति। सारक्खइ गोणाई, मा य पडिंति उविक्खइ उ भंते ! अन्नं वा अभियोगं, नेच्छति अचियत्तरिहारी॥ संरक्षत वा गवादीन् बहिर्निगच्छतो यूयमस्माकं क्षेत्रादौ गताना व्याकुलानां वा, मा च पतन्तीं वसतिमुपेक्षध्व। किं सुसंस्थापना पुनः संस्काररूपा विधेया (संठवण्या य त्ति) द्वारगाथायां यश्चशब्दः तेन सुचितम्-अन्यं वा स्वाध्याय निषेधादिरूपं यत्रा वसतिस्वामी अभियोग्य नियन्त्राणां करोति, तं मनसापि नेच्छन्ति। सूक्ष्मस्याप्यप्रीतिकस्य परिहारिणो अमी भगवन्त इति। प्राभृतिकाग्निदीपावधानद्वाराणि व्याचष्टेपाहुडियदीवओ वा, अग्गिपगासो व जत्थ न वसति। जत्थ य भणंति भंते! ओहाणं देहि गेहे वि।। यस्यां वसती प्राभृतिक बलिः क्रियते, दीपको वा यस्यां विधीयते / अग्निरङ्गारजवालादिकस्तस्य प्रकाशो वा या नवसन्ति। यत्रा च तिष्ठत्सु रात्सु अगारिणी भणन्ति, अस्माकमपि गेहे अवधानमुपयोगं ददत इति। तत्रापि नावतिष्ठन्ते। वत्स्यथ कति जना इति द्वारमाह - वसतिं अणुणवितो, जइ भणइकइ जणा वि न वत्थ बसे। सुहुमं पि न सो इच्छइ, परस्स अप्पित्तियं भगवं / / वसतिमनुज्ञामनुज्ञापयन् यद्यसौ भणति, कति जना यूयं वस्त्यथेति तत्रापि न वसति। कुत इत्याह- सूक्ष्ममपि नासा विच्छति परस्याप्रीतिक भगवान्। (कइ जणा उत्ति) अत्र यस्तुशब्दस्तेनान्यामपीषदप्रीतिकजननी वसतिमसौ परिहरति, इतिगम्यते। उक्तंच-पञ्चवस्तुके–'सुहुमं पि हु अचियत्तं, परिहरए सो परस्स नियमेणं। जे तेण तुसहाओ, वज्जइ अण्णं पि तजणणिं // भिक्षाचर्यापानकलेपालेपालेपद्वाराणि विवृणोति - तइयाइ भिक्खचरिया, पग्गहिया एसणा य पुववुत्ता। एमेव पाणगस्स वि, गिण्हइ अ अलेवडे दो वि।। तृतीयस्यां पौरूष्यां, भिक्षाचर्या एषणाच, प्रगृहीता अभिग्रह युक्ता, सा च (पंचसुग्गहवोसग्गहु) इत्यादिना पूर्वमेवोक्ता एवमेव पानकस्यापि तृतीयपौरुष्या प्रगृहीतया वैषणया ग्रहण कराति। तत्रा शिष्यः पृच्छति (लेवालेवेत्ति) किमसौ विकल्पको लेपकृतं गृह्यति उतालपकृतम्। अन्न सूरिः "अलेव त्ति पदं विवृणवन्नुत्तरमाह- द्वेऽपि भक्तपाने अलेपकृते वल्लचणकसौ वीरादिरूपे गृह्यति, न लेपकृते।