SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ जिणकप्प 1467 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प उपदेशः, स्मारणे चैव, तृतीया प्रतिस्मारणा चैव। ततः छन्दे उपदेशेऽवर्तमानं विनेयं गुरूरपि आत्मच्छन्देनात्माभिप्रायेण वर्जयेत्. परित्यजे दिति वियुक्तिश्लोकसमासार्थः। अथ विस्तरावस्तत्र गुरूभिस्तान्प्रति वक्तव्यमस्माकमेषा सामाचारी, यन्निछाविकल्प्रादयः प्रमादाः परिहर्तव्या एष उपदेशः। अथ स्मारणामाह - निद्दापमायाइसु, सई तु खलियस्स सारणा होइ। नणु कहिय ते पमाया, मा सीयसु तेसु जाणंतो।। निद्वैव प्रमादो निद्धाप्रमादः आदिशब्दादप्रत्युपेक्षितदुष्प्रत्यु पेक्षितादिपरिग्रहः। तेषु सकदेकवारं स्खलितस्य स्मारणा कर्तव्या भवति। यथा-भो महाभाग! नन्वेते पूर्वमेवास्माभिस्तव प्रमादाः कथिताः, ततो जानन्नपि तेषु--मा सीदेत्येषा स्मारणा। अथ प्रतिस्मारणामाह - फुड रूक्खं अचियत्तं, गोणो तुदिओ व मा हु पेलेजा। सजं अओ न भणइ, धुव सारण तं वयं भणिमो / स्फुटं नाम, यस्तेन प्रमादः कृतः परिस्फुटं नाभिधीयते, किं त्यन्यव्यपदेशेन भणितव्यम्। रूक्षं नाम, निष्पिंष्य स यथा-निर्धर्म! निरक्षर! निःस्वक! इत्यादि, तदपि न वक्तव्यं, यतः स्फुट रूक्षेऽभिधीयमानमप्रीतिकं भवति। अत्र च गोदृष्टान्तो यथा गोर्बलीवर्दो महता भारेण लक्षितो, हल वा वहमानः, प्रतोदेनातितोदितः सन्, तू दयित्वा भारं पातयति। हल वा भनक्ति। एवमयमपि स्फुटाक्षरं रूक्षभणित्या वा भणितः, कषायितत्वादसंखडकृत्वा गच्छात् निर्गच्छेत्। अत एवाह-गौरविवाशब्दस्योपमानार्थस्य च सम्बन्धादसावपितुदितः, खर पुरूषीभणनप्रतोदेन व्यथितः सन्, मा ह निश्चित प्रेरयेत्। संयमभारं बलादपहस्त्यायातयेत्। अत एव च सद्यस्तत्कालं यदा प्रमादः कृतस्तदैव भण्यते (धुव सारणं ति) स वक्तव्यो वत्स! ध्रुवमवश्यं कर्तव्य, संयमयोगेषु सीदता सारणा। तथा च मौनीन् वचनम् - 'रूसओ वा परो मा वा, विसं वा परियत्तओ। भासियव्वा हिया भासा, सपक्खगुणकारिया''तत्तस्मात् जिनाज्ञाराधनाय वयं भवन्तमेवं भणामो, न पुनर्मत्सरप्रद्वेषादिना। अय "सज्ज अओ न भन्नइत्ति'' पदव्याव्यानार्थमाह - तदिवसं विइए वा, सीयंतो वुच्चए पुणो तइयं / एगो वराहो सोढो, वीयं पुण ते न विसहामो / / सीदन् सामाचार्यो प्रमाद्यान्, तस्मिन्नेव दिवसेऽन्यस्यां वेलावां द्वितीये वा दिवसे पुनर्भूयोऽप्युच्यते, तृतीया प्रति स्मारणा। एक उपदेशो, द्वितीया स्मारणा, तृतीया प्रतिस्मारणेति कृत्वा कथमित्याह - एकस्तव महानपराधः सोढस्तितिक्षितोऽस्माभिर्यदि पुनद्वितीयं स्वल्पमप्यपराधं करिष्यसि ततो वयं ते न विषहामो, न सहिष्यामः।। तथा चार्द्धछगणदृष्टान्तः क्रियतेगोणइ-हरणगहिओ, मुक्को य पुणो सहोढगहिओ उ। उल्लोलछगण - हारी, न मुच्चए जायमाणो वि / / यथा कश्चिचौरो गवादिहरणं कुर्वन्नारक्षकाहीतस्ततो मुञ्चत्, मामे कवारं नाहं भूयः स्वल्पमपि चौर्य करिष्यामीत्युक्ते, दवालुत्वादपरोपपरोधात्तैर्मुक्तः। पुनद्वितीयवे लायां पूर्वाभ्यासवाशात् यदि आर्द्रछगणहारी भवति, स्वल्प चौर्यकारीति भावः। तथापि सहोढः सलोपुत्रो गृहीतः सन्, याचमानोऽपि मोक्षयं न मुच्यते। एवं भवतोऽप्येकवार महदपि प्रमादपदं तितिक्षितमस्माभिः। इत उर्दू तु स्तोकमपि न तिति क्षामहे। इत्थमुक्तोऽपि बहि प्रमाद्यति, तदा स लघु दण्डं दत्वा, द्वितीय घट्टनादृष्टान्तं कुर्वन्ति। तमेवाहघट्टिजंतं वुच्छं, इति उदिए दंडणा पुणो विइयं / यथा दुमादू रहितं सत् वद्यच्छमानं चाल्यमानमपि "वुष्ठति'' देशीपदत्वादबदग्धं विनष्टमिति। यावदेवं भवानप्यस्माभिरित्थं स्मारणादिना घट्टमानोऽपि प्रमादमेव सेवितवानित्येवमुदिते कथिते सति वदि भूयः प्रमाद्यति, तदा पुनरपि दण्डना मासलघुप्रायश्चित्त-रूपा कर्तव्या (विश्यंति) एतत् द्वितीयमुदाहरणम्। इत्थं दण्डितोऽपि यदि प्रमादान्नोपरमते, तदा रूचनादृष्टान्तो वक्तव्यःपासाणो संवुत्तो, अइरूचियं कुकुमं तइए।। "पासाणो'' इत्यादि। अति अतीव रूचितं पिट्ट कुङ्कुम किं पाषाणः संवृत्तः। एवं भवानपि महता प्रयासेन प्रतिनोद्यमानः किं प्रमत्तः संवृत्तः, इत्येवं तृतीयमुदाहरण कृत्वा, तथैव मासलघु दीयते। अथ यदुक्तं प्राक् (अविणीयाण विवेगो यति) तदिदानीं भाव्यते। भविनीता नाम, ये बहुशोऽपि प्रतिनोद्यमानाः। ते च छन्दे अवर्तमाना भण्यन्ते। ताश्च सूरय आत्मच्छन्देन वर्जययुः। कः पुनरात्मच्छन्दो येन ते परिहियन्ते। प्राग द्धारगाथा सूचितपत्रादृष्टान्तश्च उच्यतेतेण परं निच्छुभणा, आउट्टो पुण सयं परेहिं वा। तंबोलपत्तनायं, नासेहिसि मज्झ अन्ने वि।। ततः परं वारत्रयादूर्ध्व यदि न निवर्त्तते, तदा निष्काशना कर्तव्या, निर्गच्छ मदीयगच्छादिति। अथासौ स्वयं परेण वा प्रज्ञापितः सन्नावृत्तः प्रमादात्प्रतिनिवृत्तः प्रतिभणति, भगवन्। क्षमध्व, मदीयमपराधनिकुरम्बं न पुनरेवं करिष्यामीति। ततो वद् द्वारगाथायां पत्रज्ञातं, सूचित तदुपवर्ण्यते (तंबोलफत्तनायं ति) यथा तम्बोलपत्रनं कुथितं सत्यदिन परित्यज्यते, ततः शेषाण्यपि पत्राणि कोषयति। एवं त्वमपि स्वयं विनष्टो, मम अन्यानपि साधून विनाशयिष्यसीति कृत्वा भिष्कासितोऽस्माभिः। संप्रत्यप्रमत्तेन भवितव्यं, मासगुरू च ते प्रायश्चितम्। अथ निष्काशनस्यैव विधिमाह - सुहमेगो निच्छुभई, णेगा भणिया वि जइ न वचंति। अन्नावएस उवहिं, जग्घावण मारि कह गमणं।। ते पुनः प्रमाद्यन्ते, एको वा वाऽनेके वा। यद्येकस्ततः सुखेनैव निर्गच्छ मगच्छादित्यभिधाय निष्कास्यते। अथाने के वहवस्ततस्ते यदि निर्गच्छतेति भणिताः अपि, वयं वहवस्तिष्टाम्, इत्यवष्टम्भं कृत्वा न व्रजन्ति, ततः शेष साधून रहस्यं ज्ञापयित्वाऽन्येन केनाप्यपदेशेन मिषेण यथा न तेषां शङ्का भवति, तथोपधिं विहारयोग्यं कारयित्वा अन्यव्यपदेशेनैव चिरं जागरण कारापणीया। यथान प्रातःशीघ्रमुत्तिष्ठन्ति (सारिक त्ति) सागारिकः शय्यातरस्तस्याग्रतो रहसि कथनीयं, यथा वयं प्रभात एवामुकं ग्राम प्रजिष्यामि। यदि कोऽपि महता निर्बधेन
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy