________________ धावण 2751 - अभिधानराजेन्द्रः - भाग 4 धावण तथाहि न च धौतरक्तानि वस्त्राणि धारयेत्पूर्व धौतानि पश्चाद्रक्तानीति। आचा०१श्रु०५अ०४ उ01 धावनं च संयतानां वर्षाकालादर्वाक कल्पते, | न शेषकाले, अनेकदोषसम्भवात्। पिं०। तानेव दोषान् दर्शयति-- उउबद्धे धुवणे वउसं, बंभविणासो अठाणठवणं च / संपाइमवाउवहो, पावणभूओवघाओ य॥२६|| वर्षाकालस्य प्रत्यासन्नं कालमपहाय शेषे ऋतुबद्धे काले, चीवरस्य धावने चरणं वकुशं भवति, उपकरणवकुशत्वात्। तथा-ब्रह्मविनाशो मशुनप्रत्याख्यानभङ्गः, प्रक्षालितवासः परिधानभूषितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्योऽयमिति प्रार्थनीया भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः; ततः समस्तकामिनीनां प्रार्थयमानानां सलीलदर्शिततिर्यग्वलिताक्षिनिरीक्षणाङ्ग मोटनव्याजोपदर्शितकक्षामूलसद्वृत्ततारमणीयपीनकठिनपयोधरविस्तारगम्भीरनाभिप्रदेशपरिभावनतोऽवश्यं ब्रहाचर्यादपभ्रंशमविश्रयते। तथा अस्थानस्थापनम्। इयमत्र भावना-यदि नाम कथञ्चितत्त्व वेदितया संयमविषयनिःप्रकम्पधृत्यवष्टम्भतो न ब्रह्मचर्यादपभृश्यति, त्थाऽपि लोकेन सोऽस्थाने स्थाप्यते-यथा ननमयं कामी, कथमन्यथाऽऽत्मानमित्थं भूषयति, न खल्वकामी मण्डनप्रियो भवति / तथा संपातिमानां मक्षिकाऽऽदीनां प्रक्षालनजलाऽऽदिषु निपतता, वायोश्च वधो विनाशो भवति। तथा प्लावनेन प्रक्षालनजलपरिष्ठापनेन पृथिव्या रेल्लणेन भूतोपघातः पृथिव्याश्रितकीटिकाऽऽदिसत्त्वोपमदों भवति / तस्मान्न ऋतुबद्धकाले वस्खं प्रक्षालनीयम्। नन्वेते दोषा वर्षाकालादर्वागपि धावने संभवन्ति, ततस्तदानीमपि न चीवराणि प्रक्षालनीयानि, तन्न, तदानीं चीवराप्रक्षालनेऽनेकदोषसंभवात्। अइभारवुडणपणए,सीयलपाउरणऽजिण्णगेलण्णे। ओहावणे कायवहो, वासासु अधोवणे दोसा॥२७॥ इह वर्षाकालादगिपि यदि वासांसि न प्रक्षाल्यन्ते तदानीमतिभारो गुरुत्वं वरत्राणां भवति / तथा वासांसि मलविद्धानि यदा जलकणानुपक्तसमीरणमात्रेणापि स्पृष्टानि भवन्ति, तदाऽपि स मलः क्लिन्नीभूय दृढतरं वर नेषु संबन्धमापद्यते, किं पुनर्वर्षासु सर्वतः सलिलमयीषु / ततो वर्षासु क्लिन्नमलसंपर्कतो वासांसि गुरुतरभाराणि भवन्ति। तथा (वुडणं ति) वाससा वर्षाकालादगिप्यधावने वर्षासु जीर्णता भवति, शाटो भवतीत्यर्थः / किमुक्तं भवति?-यदि नाम वर्षाकालादगिपि वरवाणि न प्रक्षाल्यन्ते, ततो वर्षासु तेषां मलक्लिन्नतया जीर्णताभवनेन शाटो भवति / न च वर्षास्वभिनववस्त्रग्रहण, नचाधिकः परिग्रहः, ततो ये वस्त्राभावे दोषाः समये प्रसिद्धास्ते सर्वेऽपि यथायोगमुपढौकन्त इति / तथा मलक्लिन्नेषु वस्त्रेषु शीतलजलकणसंस्पर्शतो मलस्याऽऽद्रीभवतः पनको वनस्पतिविशेषः प्राचुर्येणोपजायते, तथा च सति प्राणिव्यापादनासक्तिः / तथा निरन्तरं सर्वतः प्रसरेण निपतति वर्षे शीतले च मारुते वाति मलस्याऽऽीभवतः शीतलीभूतानां वाससा प्रावरणे भुक्ताऽऽहारस्याजीर्णतायामपरिणतो ग्लानता शरीरमान्द्यमुत्तम्भते, तथा च सति प्रवचनस्यापभाजना। यथा-अहो ! बठरशिरोमणयोऽमी तमस्विनो, न परमार्थतस्तत्त्ववेदिनो, ये नाम, वर्षास्वप्रक्षालिताना वाससा परिभोगे मान्द्यमुपजायते, इत्येतदपि नावबुध्यन्ते; ते पृथग्जनाऽपरिच्छेद्यं स्वर्गापवर्गमार्गमवगच्छन्तीति दुःश्रद्धेयम् / तथा वर्षास्वप्रक्षालितानि वस्त्राणि प्रावृत्य भिक्षाऽऽद्यर्थं विनिर्गतस्य साधोर्मेघवृष्टी मलिनवस्त्रकम्बलसंपर्कतोऽप्कायविराधना भवति / एते वर्षास्विति वर्षाकालप्रत्यासन्नोऽपि कालो वर्षा इत्युच्यते, तत्सामीप्यात् / भवति च तत्सामीप्यात्तच्छन्दव्यपदेशः। यथा-गङ्गायां घोष इत्यत्रा ततो वर्षासु वर्षाप्रत्यासन्ने काले वस्त्राऽऽदीनामप्रक्षालने दोषास्तस्माद वश्यं वांकालादर्वाग वासांसि प्रक्षालनीयानि।येच संपातिमसत्त्वोपघाताऽऽदयो दोषाश्चीवरप्रक्षालने प्रागुक्ताः, तेऽपि सूत्रोक्तनीत्या यतनया प्रवर्त्तमानस्य न संभवन्तीतिवेदितव्यम्।यो हि सूत्राज्ञामनुसृत्य यतनया सम्यक् प्रवर्तते, स यद्यपि कथञ्चित्प्राण्युपमर्दकारी, तथापि नासौ पापभाग्भवति, नाऽपि तीव्रप्रायश्चित्तभागी, सूत्रबहुमानतो यतनया प्रवर्त्तमानत्वात / वक्ष्यति च सूत्रम्- "अप्पत्ते चिय वासे, सव्वं उवहिं धुवंति जयणाए।'' इति / ततो न कश्चिद्दोषः। नापि तदा वस्त्रप्रक्षालने वकुश चरणं, सूत्राज्ञया प्रवर्त्तमानत्वात् / नाप्यस्थाने स्थापनदोषो, लोकानामपि वर्षासु वाससामप्रक्षालने दोषपरिज्ञानभावात् नचैतऽनन्तरोक्ता अतिभाराऽऽदयो दोषा ऋतुबद्धेकाले वाससामप्रक्षालने संभवन्ति, तस्मान्न तदा प्रक्षालनं युक्तमिति स्थितम्। सम्प्रति वर्षाकालादगिपि यावानुपधिरुत्कर्षतो, जघन्यतश्च प्रक्षालनीयो भवति, तावत्तमभिधित्सुराहअप्पत्ते चिय वासे, सव्वं उवहिं धुवंति जयणाए। असईए उ दवस्स य, जहन्नओ पायनिज्जोगो॥२८|| अप्राप्ते एव अनायाते एव, वर्षे वर्षाकाले, वर्षाकालादक्तिने काले इत्यर्थः / जलाऽऽदिसामन्यां सत्यामुत्कर्षतः सर्वमुपधिकरणं यतनया यतयःप्रक्षालयन्ति / द्रवस्य जलस्य च असति अभावे, जघन्यतोऽपि पात्रनिर्योगोऽवश्यं प्रक्षालनीयः। इह निस्पूर्वो युजिरुपकारे वर्तते। तथा चोक्तम्- ''पातोदूसलेन निज्जोगो ढवयारो।'' इति / ततो नियुज्यते उपक्रियतेऽनेनेति निर्योग उपकरणम् / "अकर्त्तरि०" // 3 / 3 / 16 / / इत्यनेन घप्रत्ययः। पात्रस्य निर्योग: पात्रनिर्योगः, पात्रोपकरण पात्रकबन्धाऽऽदिः। उक्तंच- "पत्तं पत्तबंधो, पायट्टवणं च पायकेसरिया / पडलाइँ रयत्ताण, तह गोच्छउ पायनिजोगो।।१।।'' इति। आह-किं सर्वेषामेव वस्त्राणि वर्षाकालादगिव प्रक्षाल्यन्ते, किंवाऽस्ति केषाञ्चिद्विशेषः? अस्तीति ब्रूमः / केषामिति चेत्? अत आह आयरियगिलाणाण य, मइला य पुणो वि धोवंति। मा हु गुरूण अवण्णो, लोगम्मि अजीरणं इयरे // 26 / / इह ये कृतपूर्विणो भगवत्प्रणीतवचनानुगताऽऽचाराऽऽदिशास्त्रोपधानानि अधीतिनः स्वसमयशास्त्रेषु ज्ञानिनः सकलस्वपरसमयशास्त्रार्थेषु कृतिनः, कारयितारश्च पञ्चविधेष्वाचारेषु प्रवचनार्थव्याख्याधिकारिणः सद्धर्मदेशनाभियुक्ताः सूरयस्ते आचार्याः, आचार्यग्रहणमुपलक्षणम्तेनोपध्यायाऽऽदीना प्रभूणां परिग्रहः। तेषां तथा ग्लाना मन्दास्तेषां च पुनर्मलिनानि वस्त्राणि धाव्यन्ते प्रक्षाल्यन्ते / मलिनानीत्यत्र नपुंसकत्ये प्राप्तेऽपि सूत्रे पुंस्त्वनिर्देशः प्राकृतलक्षणवशात् / तथाऽऽह पाणिनिः